________________ मज्झमबुद्धि 70- अमिधानराजेन्द्रः - भाग 6 मज्झिम धराधीशः पुनः प्रोचे, भाव्यस्य किमतः परम् ? / गुरुः प्राऽऽह क्षणादेष, कृच्छ्रात् प्राप्स्यति चेतनाम्॥२४८।। इतो नश्यन् कर्मपूर-ग्रामाऽऽसन्नसरोवरे। श्रमखिन्नशरीरश्च, स्नानायैष निमङ्ख्यति॥२४६।। तत्र स्नानकृते पूर्व-मवतीर्णा स्वपाकिकाम्। स्पृशन्नेकेन बाणेन, घण्डालेन हनिष्यते॥२५०|| नरकेषु ततो गन्ता, ततस्तिर्यक्ष्वनन्तशः। भूयोऽपि नरकेष्वेवं, भ्रमिष्यत्येष संसृतौ / / 241 / / श्रुत्वेति मन्त्रिण प्रोचे, नृपतिः क्रोधदुर्द्धरः। भो भो निर्वासय क्षिप्रं, मद्देशात् स्पर्शनं ह्यमुम्॥२५२।। व्याघुट्य यदि वा गच्छेत्, तदा लोहविनिर्मित। यन्त्रे क्षिप्त्वा तथा पिंष्या-द्यथाऽयं भरमसाद्भवेत्।।२५३।। अथ स्पृष्टमभाषिष्ट, सूरिर्भो मनुजाधिप!। नान्तरङ्गजनध्वंसे, बाह्योपायः प्रवर्तते / / 254 / / बभाषे भूपतिर्भूयो, भक्तितस्तं गुरुं प्रति। स्वामिन्नुपायः कस्तर्हि, प्रोचेऽनूचानपुङ्गवः।।२५५।। ज्ञानदर्शनचारित्र-तपः सन्तोषलक्षणम्। सुयन्त्रमप्रमादाऽऽख्य, साधवो वाहयन्तियत्।।२५६।। तदेवाऽऽन्तरवैरीभ-ध्वंसे पञ्चाननायते। अदृष्टपारसंसार-वार्द्धः प्रवहणायते॥२५७।। यतिधर्मक्रियासक्ती, तत् श्रुत्वा नृपमध्यमौ। सम्यक्त्वमूलमनघं, गृहिधर्म समाश्रितौ॥२५८|| गाढं विज्ञपयामास, मनीषी तु मुनीश्वरम्। भगवन् ! देहि मे दीक्षां, भवाम्भोनिधिमन्थिनीम् / / 256 / / वत्स!मा स्म प्रमादीस्त्व-मेवमुक्ते च सूरिणा। . ततो मनीषिणं प्रोचे,राजा विस्मितमानसः॥२६०।। प्रसीद मद्गृहं ह्येहि, मुदं देहि क्षणं च मे। येनाहं ते महाभाग!, कुर्वे निष्क्रमणोत्सवम्।।२६१।। ततो राजाऽनुवृत्त्यैष, ययौ नृपनिकेतनम्। ददानो राज्ञ आनन्दं, तत्रास्थात् सप्तवासरीम्॥२६२।। अथ पञ्चभिः कुलकम् - दिनात्तातेऽष्टमे चाह्नि, कृतस्नानविलेपनः। आमुक्तरत्नालङ्कारः, सदशांशुकशोभितः॥२६३।। प्रधानस्यन्दनाऽऽरूढः, सारथीभूतभूपतिः। जङ्गमः कल्पशाखीव, ददद्दानमनुत्तरम्।।२६४।। वीज्यमाश्चामराभ्यां, श्वेतच्छत्रेण राजितः। वैतालिकैः स्तूयमान-निविडव्रतसंस्तवः॥२६५।। अत्यद्भुतगुणग्राम-रामणीयकरञ्जितैः। तदैवोपागतैर्देवैः, स्तूयमानः सुरेन्द्रवत्।।२६६।। निषादिसादिपादाति-रथिकामात्यमध्यमैः। अन्वीयमानः स प्राप, स्थानं सूरिपवित्रितम् / / 267 / / ततो रथात् समुत्तीर्य, मनीषीपातकादिव। प्रभोदशेखराऽभिख्य-चैत्यद्वारे स्थितः क्षणम्।।२६८।। अत्रान्तरे नृपस्यापि, मनीषिचरितं मुदा। परिभावयतः सम्यक्, निर्मलेनान्तराऽऽत्मना।।२६६।। चारित्रपरिणामोऽभूत्, कर्मकल्मषवारिदः। अहो वृद्धानुगामित्वं, देहिनां सर्वकामधुक्॥२७०।। (युग्मम्) ततः सुबुद्ध्यमात्याय, देव्यै मध्यमबुद्धये। सामन्तेभ्यश्च भूनाथो, निजाभिप्रायमाख्यात / / 271 / / अचिन्त्यत्वाच महतां, संनिधेः सुनिधेरिव। सर्वेऽपिजातचारित्र-परिणामास्तमूचिरे।।२७२।। साधु साधु हितं देव ! युक्तमेतद्भवादृशाम्। संसारे ह्यत्र निःसारे, नान्यच्चारु विवेकिनाम्॥२७३।। वयमप्येतदेवेह, कर्तुमीहामहे प्रभो!। तत् श्रुत्वा मुमुदे राजा, केकीवाम्भोधरध्वनिम्।।२७४।। राजचिहार्पणाद्राज्ये, कृत्वा पुत्रं सुलोचनम्। ततो नृपानुगाः सर्वे, प्रविशन् जिनमन्दिरे।।२७५।। जिनं संपूज्य सूरिभ्यः, कथितं तैः स्वचिन्तितम्। साधु साधु महाभागाः! इति प्रोवाच तान् गुरुः॥२७६॥ ततः प्रवचनोक्तेन, विधिना सूरिणा स्वयम्। ते सर्वे दीक्षिता एवं, चान्वशिष्यत सादरम॥२७७।। तथाहिचत्वारि परमाङ्गानि, दुर्लभानीह जन्मिनाम्। मानुषत्वं श्रुतिः श्रद्धा, संयमे वीर्यमुत्तमम्॥२७८।। एनां समग्रसामग्री , संप्राप्य कथमप्यहो। भवद्भिर्न हि कर्तव्यः, प्रमादोऽत्र मनागपि।।२७६।। ततस्तैः प्रणतैः सवै-र्जजल्पे सूरिसंमुखम्। एवमेतदितीच्छामः, कुर्मः पूज्यानुशासनम् / / 280 / / प्रष्टैः स्थविरर्षिभ्य-स्ते सर्वेऽप्यथ सूरिभिः। अर्पिता आर्यिकाभ्यस्तु साध्वी मदनकन्दली।।२८१।। कालं विहत्य भूयांस-मागमोक्तेन वर्मना। पर्यन्तकाले संप्राप्ते, विधायाऽऽराधनाविधिम्॥२८२।। सर्वेऽपि विमलध्यानाः, प्रतनूभूतकर्मकाः। मध्यमाऽऽद्या गताः स्वर्ग, मनीषीतु शिवं ययौ // 283 // बालस्य तु यदादिष्टं, भदन्तै वि चेष्टितम्। तत्तथैवाखिलं जज्ञे, नान्यथा मुनिभाषितम्॥२८४।। "एवं वृद्धानुगत्वप्रगुणगुणजुषो मध्यबुद्धेर्विशुद्धं, श्लोकं कुन्देन्दुशुभ्रं त्रिदिवशिवफलं धर्मकर्माऽऽद्यवेत्य। भो भव्याः ! दुःखकक्षक्षयदवदहने पुण्यकन्दाम्बुदाभे, संपत्संपत्तिबीजे सकलगुणकरे धत्त यत्नंतदत्र // 285 // " ध००१ अधि०१७ गुण। मज्झमा स्त्री० (मध्यमा) वीरजिनेन्द्रस्य केवलोत्पत्तिस्थाने मध्यम पापायाम्, आ०म०१ अ०। मज्झलोग पुं० (मध्यलोक) लोकस्य मध्यः, अस्य सकललोक मध्यवर्तित्वात्। मेरौ, जं०४ वक्ष०। स०। मज्झसंघयणचउक्क न०(मध्यसंहननचतुष्क) मध्यानि मध्यमानि प्रथमान्तिमवर्जानि, संहननानि अस्थिनिचयाऽऽत्मकानि तेषां चतुष्कं द्वितीयतृतीयचतुर्थपञ्चमसंहननचतुष्कं, तानि चत्वारिऋषभनाराचसंहननं नाराचसंहननमर्द्धनाराचसंहननं, कीलिकासंहननमिति। कर्म०२ कर्म। मज्झागिइ स्त्री० (मध्याऽऽकृति) मध्यमसंस्थाने, कर्म०३। मज्झागिइचउक्क न० (मध्याऽऽकृतिचतुष्क) मध्या मध्यमाआद्यन्तवर्जा आकृतयः संस्थानानि मध्याऽऽकृतयस्तासांचतुष्कं द्वितीयतृतीयचतुर्थपञ्चमानां संस्थानानां चतुष्क, तानि चत्वारिन्यग्रोधपरिमण्डलसंस्थान, सादिसंस्थान, वामनसंस्थानं कुब्जसंस्थानमिति। कर्म०२ कर्म०। मज्झिम त्रि० (मध्यम) मध्यभाविनि, उत्त० 5 अ० / मध्यमवयसि, सूत्र०१ श्रु०७ अ० | मध्ये कायस्य भवो