________________ ववहार 114 - अभिधानराजेन्द्रः - भाग 6 ववहार जिणचोहसपुव्वधरा, तट्विवरीया जहिच्छाए।।३२४॥ जिनाः-केवलिप्रभृतयश्चतुर्दशपूर्वधरा यत्पापं यस्य यावता प्रायश्चित्तेन | शुद्ध्यति, तस्य तावन्मात्रं प्रायश्चित्तं ददति / ये तु तद्विपरीताःकल्पव्यवहारनिशीथधरास्ते आगमव्यवहाराभावात् यदृच्छया प्रायश्चित्तं दधुः कदाचिन्न्यूनं, कदाचिदधिकं वा। ततः परमार्थतः सम्प्रति चयश्चित्तं घ्यवच्छिन्नं तद्व्यवच्छेदे निर्यापका अपि चारित्रस्य व्यवच्छिन्नाः। एतदेव स्पष्टयतिपारगमपारगं वा, जाणंते जस्स जंच करणिज्जं / देइ तहा पञ्चक्खी, घुणक्खरसमो उपारोक्खी // 325 / / / एष-संवरीतुकामः पारगामी भविष्यति, एष नेति, पारगमपारगं वा प्रत्यक्षागमव्यवहारिणः सम्यग् जानते। यच यस्य करणीयं कर्तुं शक्यं तस्य तज्ज्ञात्वा तदेव तथा ददति, तथा ते पाराऽपार-गादिज्ञानं समस्थितास्तादृशमुपायमुपदिशन्ति, येन स पारगामी भवति, यतश्चाराधक उपजायते। यस्तुपरोक्षी-परोक्षज्ञानीस धुणाक्षरसमः। किमुक्तं भवतिघुणाक्षरवत् यदृच्छया ततः कदाचित्पापशुद्धिर्नावश्यमिति। अन्यच तस्य परोक्षज्ञानिनः प्रायश्चित्तं ददतो महत्प्रायश्चित्तंपापम्। तथा चाहजा उ ऊणाहिते दाणे, वुत्ता मग्गविराहणा। ण सुज्झे इति दिंतो उ, असुद्धो कं च सोहए॥३२६|| स हि परोक्षज्ञानी यदृच्छया व्यवहरन् कदाचिदूनमधिकं वा प्रायश्चित्तं दद्यात् / ततो य ऊनाधिकं प्रायश्चित्तदाने मार्गविराधना-मोक्षपथसम्यग्दर्शनज्ञानचारित्रविराधना जिनरुक्ता, तया स दाता न शुद्ध्यति। स्वयमशुद्धश्च कथमन्यं शोधयेदिति भावः / अथ सोऽपि सूत्रबलेन प्रायश्चित्तं ददाति तत्कथं न शोधयति, तदप्यसम्यक् सूत्रस्याप्यपरिज्ञानात्। तथाचाहअत्थं पडुच्च सुत्तं, अणागयं तं तु किंचि आमुसति। अत्थो वि कोइ सुत्तं, अणागयं चेव आमुसति // 327|| अर्थं प्रतीत्य किंचित्सूत्रमनागतमेव आमृशति, किंचित्पुनः सूत्रं स्वस्थानं गतं वा अर्थमामृशति / विचित्रा सूत्रस्य प्रवृत्तिरिति वचनादर्थोऽपि कश्चित्सूत्रमनागतमेवामृशति। एतच्च सम्यग्जानाति चतुर्दशपूर्वधरो नान्ये / ततः संप्रति सूत्रार्थस्यापरिज्ञानान्न तत्प्रायश्चित्तदानशुद्धिस्तदभावाच्च निर्यापकाणामप्यशुकि। संप्रति 'देंतावि नदीसंति' इत्यादिव्याख्यानार्थमाहदेता विन दीसंति,मास चउमासिया उसोहिंतु। कुणमाणे य वि सोहिं,न पासिमो जो वितं देजा।।३२८|| मासिकी चातुर्मासिकीम्,उपलक्षणमेतत् पश्चमासिकीमपि वा शोधिं सम्प्रति केचित् ददतोऽपि न दृश्यन्ते, नापि काञ्चित् तां मासिकी वा कुर्वाणान् संप्रति पश्यामः। सोहीए य अभावे, देंताण करेंतगाण य अभावे। वट्टइ संपइ कालं, तित्थं सम्मत्तनाणेहिं // 329 // उक्तप्रकारेण शोधेरभावे शोधिं ददतां-कुर्वतामभावः। संप्रति काले तीर्थ वर्तते सम्यक्त्वज्ञानाभ्याम्।। एवं तु चोइयम्मी, आयरितो भणइन हु तुमे णायं / पच्छित्तं कहियं तु,किं धरती किं च वोच्छिन्नं // 330 / / एवम्-उक्तेन प्रकारेण चोदिते-प्रवे कृते सति आचार्यो ब्रूते, न हु-नैव त्वया ज्ञातम्, यथा-प्रायश्चित्तं प्रथमतः उक्तम्, किंवा संप्रति प्रायश्चित्तस्य धरते विद्यते किंवा व्यवच्छिन्नम्। व्य०१०301 तत्र प्रथमतः सापेक्षेण दातव्यम्संघयणधितीहीणा, असंतविभवेहिं होति तुल्लाओ। निरवेक्खो जइतेसिं, देति ततो ते विणस्संति॥३६॥ ये पुनघृतिसंहननाभ्यां हीनास्ते असद्विभवस्तुल्यास्तेषां यदि निरपेक्षः सन् यन्निरवशेष प्रायश्चित्तं ददाति, ततस्ते विनश्यन्ति / तथाहि-ते तत्प्रायश्चित्तं निरवशेषं वोढुमशक्नुवन्तस्तपसा कृशी-कृता जीवितादपगच्छेयुः। ते तेण परिचत्ता, लिङ्गविवेगं तु का वचंति। - तित्थुच्छेदो अप्पा, एगाणि य तेण गच्छो य॥३६३।। यदि ते प्रायश्चित्तभग्ना लिङ्ग विवेकं कृत्वा व्रजन्ति, ततस्तेऽनेननिरविशेषप्रायश्चित्तदात्रा परित्यक्ताः। यथैवमेकः एवमन्येऽप्येवमपरेऽपि / ततः सर्वसाधुव्यपगमतस्तीर्थस्योच्छेदस्तथा तेनाचार्येण निरविशेष प्रायश्चित्तं साधूनां ददता प्रायश्चित्तभग्नभयात्साधूनामपगमत आत्मा एकाकीकृतः / एकाकिना यावत्यक्तश्वशब्दात्-गच्छोऽपित्यक्तः। तथाहिसाधूनामपगमे बालवृद्धालानादीनामुपग्रहे न कोऽपि वर्तते / ततस्तेऽपि तेन तत्त्वतः परित्यक्ताः। तथा अवधाविताः सन्तो ये दीर्घकालं संसारमाहिण्डिष्यन्तेसोऽपितन्निमित्त इति तस्य महत्पापम्। तदेवं निरपेक्षस्य दोष उक्तः। सम्प्रति सापेक्षस्य गुणमाहसावेक्खों पवयणम्मि, अणवत्थपसंगवारणाकुसलो। चारित्तरक्खणट्ठा, अव्वोच्छित्तीय उ विसुज्झो॥३६४।। यः पुनराचार्यः प्रवचने सापेक्षः अनवस्थाप्रसङ्गवारणाकुशलः स चारित्रस्य रक्षार्थं भवति। तीर्थस्य चाव्यवच्छेदस्तथोपायेन शोधयति इत्यर्थः। उपायमेवाहकालाणगमावन्ने, अतरते जहकमेण काउंजे। दस कारेंति चउत्थे, तहुगुणाऽऽयंबिलतवे वा॥३६५।। एकासणपुरिमड्डा, निव्विगती चेव विगुणविगुणाओ। पत्तेया बहुदाणं, करेइ वा सन्निकालं तु // 366 / / पञ्च अभक्तार्थाः, पञ्च आचाम्लानि,पञ्च एकाशनकानि पञ्च पूर्वार्द्धानि पञ्च निर्विकृतिकानि एतत्पञ्चकल्याणकम्, तत् शिष्टापन्ना यथाक्रमेण च कर्तुमशक्नुवन्तस्तान्दश चतुथान्कारयन्ति, तथाऽप्यशक्नुवन्तस्तद्विगुणा आचाम्लतपः कारयन्ति, विंशति-मायामाम्लानि कारयन्तीत्यर्थः / एवमेकाशने पूर्वार्द्धनिर्विकृतिर्द्विगुणाः कारयन्ति / किमुक्तं भवति-विंशत्यायामाम्ले करणाशक्ती अशीतिपूर्वार्द्धानि कार