________________ ववहार 115 - अभिधानराजेन्द्रः - भाग 6, ववहार यन्ति / तत्राप्यशक्तौ षष्टिशतं निर्विकृतिकानां कारयन्ति / एतत्पञ्चसु कल्याणेष्वेकैकं कल्याणं प्रत्येकमव्यवस्थित्य कर्तुमसहस्यासमर्थस्य दातुमुक्तम्। अथवायमन्यो विकल्पः। करेति वा सन्निकासं' सन्निकाशंसन्निभं वा कारयन्ति / इयमत्र भावना-यत्तत्पञ्चकल्याणमापन्नः, तन्मध्यादाद्यं द्वितीयं तृतीयं वा कल्याणकतरं यथाक्रमेण वहति / शेषमायामाम्लादिभिः प्रदर्शयति। पुनरन्यथाऽनुग्रहप्रकारमाहचउ तिय दुग कल्लाणं, एग कल्लाणगं च कारेंती। जं जो उ तरति तस्स, देंती असहस्स भासेंति॥३६७॥ यदिवा पञ्चकल्याणकमुक्तस्वरूपं यथाक्रमेण व्यवच्छित्या कर्तुमशक्नुवन्तं चतुःकल्याणकं कारयन्ति। तदप्यशक्नुवन्तं विकल्याणकं तत्राऽप्यसमर्थतया द्विकल्याणकं तत्राप्यशक्नुवन्तमेकं कल्याणकं कारयन्तिः किं बहुना, यत्तपः कर्तुं शक्नोति तस्य तद्वदन्ति नाधिकमावाधासंभवात् / अथैकमपि कल्याणं कर्तुं न शक्नोति, तदा तस्य सर्व भाषयित्वा एकभक्तार्थं दीयते / अथवा- एकमायामाम्लम्, यदि वाएकमेकाशनकम्, अथवा-एकं पूर्वाकम्, अथवानिर्विकृतिकम्, अथ न किंचिद्ददति तदा अनवस्था-प्रसङ्गः।। एतदेव स्पष्टयति--- एवं सदयं दिनति, जेणं सो संजमे थिरो होति / नय सव्वहान दिजति, अणवत्थपसंगदोसातो॥३६८|| एवममुना प्रकारेण सदयं-सानुकम्पं दीयते प्रायश्चित्तम्, येन स संयमे स्थिरो भवति न च सर्वथा न दीयते अनवस्थाप्रसङ्गदोषात् / अत्र दृष्टान्तो-बालकतिलस्तेनकद्वयेन ''एगो पिठ्तो अङ्गोअलिं काऊण रमंतो तिलरासिम्मि निमज्जितो, बाल त्ति काऊण न केण वारितो, तिला सरीरम्मि लग्गा / ततो सो सलीलो घरमागतो। जणणीए तिला दिजए। कोडिया गहिया य। ततो तिललोभेण पुणो अंगोअलिं-काऊण दारगं पेसइ कालेण तिलोवतिण्णो वेइ, ततो सो पसंगदोसेण तेणो जातो। रायपुरिसेहिं गहितो मारितो माउदो-सेण / बालो वि पसंतो णो जातो त्ति माऊएथणछेयाइमवराह पाविय वेति।तो कप्पट्ठगोतहेव अङ्गोअलिं काऊण रमंतो तिल-रासिम्मि निमज्जितो। माऊए वारितो मा पुणो एवं कुज्जा, तिला य पक्खोडेऊण तिलरासिम्मिय पक्खिता। सो कालंतरेण जीवियभोगाण अभोगी जातो नेव जणणी थणछेयादियमवराह पत्ता।" एतदेवाहदिट्ठतो तेणऍणं, पसंगदोसेण जह वह पत्तो। पावंति अणंताई, मरणाइ अवारियपसङ्गा॥३६६।। अनवस्थाप्रसङ्गदोषे दृष्टान्तः, स्तेनकेन-बालकेन तिलापहारिणा यथा / स प्रसङ्गदोषात् वधं प्राप्तस्तथा साधवोऽप्यनिवारितप्रसङ्गा अनन्तानि मरणानि प्राप्रुवन्ति। निब्भच्छणाएँ बितिया,वारेंतो जीवियाण य अभागी। नेव य थणछेयादी, पत्ता जणणीय अवराहं // 370 / / इय अणिवारियदोसा, संसारे दुक्खसागरमुवे ति। विणियत्तपसङ्गाखलु, करेंति संसारवोच्छेयं / / 371 / / द्वितीयया बालकस्तिलान् शरीरे लग्नानादाय समागतो निर्भर्त्सनया वारितः, ततःसजीवितानाजीवितसुखानामाभागीजातो, नैवच जननी स्तनच्छेदादिकमपराधं प्राप्ता ! इत्येवममुना दृष्टान्तद्वयगतेन प्रकारेण अनिवारिता दोषाः संसारे दुःखसागरमुपयन्ति। विनिवृत्तप्रसङ्गाः पुनः खलु कुर्वन्ति संसारव्यवच्छेदम्। एवं धरती सोही, देंत करेंता वि एवं दीसंति। जंपिय दंसणनाणेहि, जातिं तित्थंति तं सुणसु // 372 / / एवम्-अमुना प्रकारेण धरते विद्यते शोधिः / तदा ददतः कुर्वतश्व शोधिमेवमुक्तप्रकारेण दृश्यते। यदिप चोक्तं दर्शनज्ञानाभ्यां तीर्थं जानाति तदप्ययुक्तं यथा भवति तथा शृणुत ! व्य० 10 उ०। (यथा लघुस्वकव्यवहारः अहालहुस्सय' शब्दे प्रथमभागे८७० पृष्ठे गतः) (श्रुतव्यहारः 'सुयववहार' शब्दे वक्ष्यते) (आज्ञाव्यवहारः 'आणा' शब्दे द्वितीयभागे 123 पृष्ठे उक्तः) सम्प्रति द्विकादिपदजातस्य व्याख्यानं किंचित्तदेव दर्शयतिदुविहं ति दप्पकप्पे, तिविहं नाणाइणं तु अट्ठाए। दवे खेत्ते काले, मावे य चउटिवह एयं // 604 // तिविहो अतीतकाले, पचुप्पन्ने वि सेवियं जंतु। सेविस्संवा एस्से, पागडभावो विगडभावो॥६०५।। द्विविधां शोधिं करोति दर्प-दर्पविषयां कल्पेकल्पविषयां, त्रिविधांज्ञान-दर्शन-चारित्राणामर्थायातिचारविशुद्धिलाभाय करोति। प्रशस्तेद्रव्ये प्रशस्ते क्षेत्रे प्रशस्ते काले प्रशस्ते भावे एतचतुर्विधं विशोधनं द्रष्टव्यम् / तथा त्रिविधे-अतीते, प्रत्युत्पन्ने चकाले यत्सेवितं यत् एष्यति काले सेविष्येऽहमित्यध्यवसितं यश्च चटितभावः प्रकटभाव आलोचयति। किं पुण आलोएई, अतियारं सो इमो य अतियारो। वयछक्कादीयो खलु, नायव्वो आणुपुष्वीए॥६०६|| किं पुनस्तदालोचयति / सूरिराह- अतीचारम्, पुनरतीचारोऽयं वक्ष्यमाणो व्रतषट्कादिको-व्रतषट्काविषयः खल्वानुपूर्व्या ज्ञातव्यः। तमेव दर्शयतिवयछक्ककायछक्कं, अकप्पो गिहिभायणं / पलियंकणिसेजा य, सिणाणं सोभवजणं // 607 / / व्रतषट्कं-प्राणातिपातनिवृत्त्यादि रात्रिभोजनविरमणपर्यन्तं कायषट्कं--पृथिव्याद्यकल्पपिण्डादिको, गृहिभाजन-काश्य-पात्र्यादि पल्यङ्कः-प्रतीतो निषद्या-गोचरप्रविष्टस्य निषदनम् / अस्नानं देशतः सर्वतो वा स्नानस्य वर्जनं, शोभावर्जन-भूषापरित्यागः, एतत् विधेयं प्रायः प्रतिषेध्यतया यत् यथोक्तं नाचरितं तत् आलोचयति। तं पुण होना सेविय दप्पेणं अहव होज कप्पेणं / दप्पेण दसविहं तु, इणमो वोच्छं समासेणं // 608 / / तत्पुनर्विरुद्धसेवितं दर्पण, अथवा कल्पनातत्रयदर्पण सेवितं तदिदं वक्ष्यमाणं दशविधं तावत् समासेन वक्ष्ये।