________________ ववहार ११३-अभिधानराजेन्द्रः - भाग 6 ववहार क्षेत्रे उपसंपद्यमानो मित्रादीन् लभते, आदिशब्दात-पूर्वपश्चात्सं- | स्तुतान् नालवल्लीद्विकमाहारं मात्रकत्रिकं संस्तारं वसतिं चेति परिग्रहः, श्रुतोपपन्नो लभते, षट् मात्रादिकान् मिश्रां च वल्लिं मातृपितृसंबद्धा सुखदुःखी-सुखदुःखोपसंपन्नोमातापितृसंबद्धान्लभते। वयस्यादींश्च, इतरो-मार्गोपसंपन्नो दृष्टान् दृष्टाऽऽभाषितान्, उपलक्षणमेतत्-वल्लिद्विकं मित्राणि च लभते / विनयोपसंपन्नस्याभाव्यं सुप्रतीतमिति न व्याख्यातम्। इचेयं पंचविहं, जिणाण आणाएँ कुणइ सहाणे। पावइ धुवमाराहं,तव्विवरीए विवद्यासं॥१७८|| इत्येवं पञ्चविध क्षेत्रश्रुतादिभेदतः पञ्चप्रकारमाभवद्व्यवहारं स्वस्थाने-- आत्मीये स्थाने यथा क्षेत्रोपसंपदि यत् उपसंपद्यमानस्य वाऽऽभवति तत्तथैव व्यवहरति / एवं शेषेष्वपि स्थानेषु वक्तव्यं जिनानामाज्ञया करोति-परिपालयति स ध्रुवमन्ते आराधनां प्राप्नोति जिनाज्ञया परिपालितत्वात् / तद्विपरीते आभवव्य-वहारविषयासकारी विपर्यासं प्राप्नोति नाराधनामन्तकाले चमोतीति भावः। इच्चेसो पञ्चविहो, ववहारो आमवंतितो नाम। पच्छित्ते ववहारं, सुण वच्छ ! समासतो वोच्छं / / 17 / इत्येष आभवतिको नाम व्यवहारः पञ्चविध उक्तः / व्य०१०उ०। पं० भा०नि० चूला व्य०। (प्रायश्चित्तव्यवहारः पच्छित्तं' शब्दे पञ्चमभागे 186 पृष्ठे उक्तः।) प्रतिज्ञातमेव करोतिपंचविहो ववहारो, दुग्गतिभयतारगेहिँ पन्नत्तो। आगम सुय आयरणा, कप्प य जीए य पञ्चमए / / 164|| येन व्यवयिते स व्यवहारो-दुर्गतिभयतारकैर्दुर्गतिभयविध्वंसकैः पञ्चविधः प्रज्ञप्तः। तद्यथा-आगमः श्रुतमाचरणा कल्पोजीतं च पञ्चमः / व्य० 10 उ०। (आगमव्यवहारः 'आगमक्वहार' शब्दे द्वितीयभागे 52 पृष्ठे दर्शितः।) नवरं परिशिष्टोऽत्र-एतदेव गाथाद्वयं व्याचिख्यासुराहअट्ठायारवमादी, वय छक्कादी हवंति अहरस। दसविहपायच्छित्ते, आलोयण दोसदसहिं वा॥३१७।। अष्टौ-स्थानानि आचारवत्त्वादीनि, तानि च प्रागभिहितानि चाऽऽलोचनार्हत्वनिबन्धनानि / तथा चोक्तं स्थानाङ्गे-'अट्ठहिं जति सम्पन्ने भवति, तो आलोयणारिहो, तं जहा-आयारव' मित्यादि अष्टादश स्थानानि व्रतषट्कादीनि भवन्ति, पुनरष्टादश-ग्रहणमेतेषु ये अपराधास्तेषु प्रायश्चित्तविधिपरिज्ञानप्रतिपत्त्यर्थं दश स्थानानि 'दसविधमालोयणपडिक्कमणे" त्यादिरूपंप्रायश्चित्तम्। आलोचनादोषेषु दशसु आ (अ) कम्पयिता इत्यादिरूपेषु / तथाछहि काएहिं वतेहिं, गुणेहिं आलोयणाए दसहिं वा। छट्ठाणावडिएहि,छहिँ चेव जे उ अपरोक्खा // 318|| षभिरिति कायेषु व्रतेषु वा तथा आलोचनायाः संबन्धेषु गुणेषु दशसु जातिसंपन्नप्रभृतिषु, उक्तं च स्थानाङ्गे-'दसहिं ठाणेहिं सम्पन्ने अरिहइ अत्तदोसमालोइत्तए, तं जहा-जाति संपन्ने कुलसंपन्ने' इत्यादि तथा षट्सुस्थानेष्वितिषट्स्थानपतितेषु स्थानेषु ये अपरोक्षाः साक्षाद्वेदितारः। कियन्ति षट्स्थाने पतितानि-स्थानानीत्यत आहसंखादीया ठाणा, छर्हि ठाणेहि पडियाणा ठाणाणं / जे संजया सरागा, सेसा एक्कम्मि ठाणम्मि॥३१॥ षट्सु स्थानेष्वनन्तभागवृद्धानन्तगुणवृद्धासंख्यातभागवृद्धासंख्यातगुणवृद्धसंख्यातभागवृद्धसंख्यातगुणवृद्धेषु यानि पतितानि स्थानानि तेषां सम्बन्धिनो ये सरागाः संयतास्ते वेदितव्याः, षट्स्थानपतितेषु स्थानेषु सरागमसंयता वर्तन्ते इति भावः / तेषां च तानि षट् स्थानानि पतितानि स्थानानि संयमस्थानानि संख्यातीतानि असंख्येयालोकाकाशप्रदेशप्रमाणानि। अत एव सरागसंयतानां केषांचित् वर्द्धते, केषांचित् हीयते, केषाचित् वर्द्धते हीयते च / ये तु शेषा वीतरागसंयतास्ते एकस्मिन् स्थाने। तथाहि-न तेषां चारित्रंर्द्धते, नापि हानिमुपगच्छति कषायाणामभावत्किं त्ववस्थितमेकमेव परमप्रकर्षप्राप्त संयमस्थानमिति एतेषां वस्तूनां ये साक्षाद्वेदिनस्ते आगमव्यवहारिणः / तथा चाहएआगमववहारी, पण्णत्ता रागदोसनीहूया। आणाएँ जिणिंदाणं,जे ववहारं ववहरंति // 320 // रागद्वेषनिभृता-रागद्वेषव्यापाररहिता आगमव्यवहारिणः प्रज्ञप्ताः। जिनेन्द्राणामाज्ञया व्यवहारं व्यवहरन्ति। एवं भणिते भणती, ते वोच्छिन्ना उ संपयं इहई। तेसु अवोच्छिन्नेसु, नऽस्थि विसुद्धी चरित्तस्स // 321 / / देंता विन दीसंति, न वि य करेंतो उ संपयं केइ / तित्थं च नाणदसण, निमवगा चेव वोच्छिन्ना // 322 / / एवं-प्रागुक्तेन प्रकारेण भणिते चोदको भणति- व्यवच्छिन्ना खल्विह भरतक्षेत्रे साम्प्रतमागमव्यहारिणस्तेषु च व्यवच्छिन्नेषु चारित्रस्य विशुद्धिर्नास्ति, सम्यक्परिज्ञानाभावतो यथावस्थित-शुद्धिदायकाभावात्। अन्यच्च मासिकं पाक्षिकमित्यादि प्रायश्चित्तं ददतोऽपि न केचित् दृश्यन्ते, नापि केचित्तथारूपं प्रायश्चित्तं कुर्वन्तस्ततोददतां कुर्वतां चाभावे सम्प्रति तीर्थज्ञानदर्शनं ज्ञानदर्शनात्मकमनुवर्तते, नतुचारित्रात्मकम्, यतश्चारित्रस्य पर्यन्तसमये निर्यापका एव यथा वस्थितशोधिप्रदानत उत्तरोत्तरचारित्रनिर्वाहका एव व्यवच्छिन्नाः। संप्रत्येतदेव विभावयिषुः प्रथमतश्चारित्रस्य शुद्धिर्नास्तीति भावयतिचोहसपुवघराणं, वोच्छेदो केवलीण वुच्छेए। केसिंचिय आदेसो, पायच्छित्तं पि वोच्छिन्नं / / 323 / / केवलिनांव्यवच्छेदे सति तदनन्तरंस्तोकेन कालेन चतुर्दशपूर्वधराणामपि व्यवच्छेदो भवति,ततः शोधिदायकाभावान्नास्ति शुद्धिश्चरित्रस्य। अन्यच केषांचिदयमादेशो, यथा-चयश्चित्तमपि व्यवच्छिन्नम्। एतदेव भावयतिजंजत्तिएण सुज्झइ, पावं तस्स तह देंति पच्छित्तं /