________________ ववहार 111- अभिधानराजेन्द्रः - भाग 6 ववहार साम्प्रतमभिधारयन्वक्तव्यः सोऽयं वक्ष्यमाणो भवति। तमेवाहमग्गणकहणपरम्पर-अभिधारे तेण मंडली छिन्ना। एवं खलु सुहदुक्खे, सचित्तादी उ मग्गण कया॥१५६|| सुखदुःखनिमित्तमन्यं गच्छमुपसंपद्यमानस्य मार्गणा भवति / कुत्र स गच्छो विद्यतेगवेषयन् गच्छति, ततः केनापितस्य कथनं भवति, यथाअमुकस्थाने स गच्छेऽस्तीति / ततस्तेनाभिधारयता परम्परा आवली छिन्ना, अनन्तरा मण्डली अच्छिन्ना प्रागिव परिभाव्या। परिभाव्य च यद्यस्याऽऽभवति तत्तस्मै दातव्यम् / इयमत्र भावना-आवलिकायां मण्डल्यां वा वल्लीत्रिकमभिधारयत आभवति, शेषं तुयत्सलभते तत्तेनाभिधारितस्य न भवति / तदपि च परम्परया व्रजदन्तिमस्याभिधार्यमाणस्य विश्राम्यति मण्डल्यामन्येनाच्छिद्यमानो लाभोऽनन्तरस्याभिधार्यमाणस्योपतिष्ठते, एवमुक्तेन प्रकारेण सुखदुःखे-सुखदुःखोपसंपदमभिजिघृक्षोरभिधारयतः सचित्तादौ मार्गणा कृता। सम्प्रति प्रकारान्तरेण सुखदुःखोपसंदमुपसंपन्ने अभिधारयति सचित्तादौ मार्गणां करोति। जइ से अस्थि सहाया, जइ वा वि करेंति तस्स तं किचं। सो लभते तं इहरा, पुण तेसिमणुन्नाणसाहारं // 160 // यदि 'से' तस्य-सुखदुःखोपसम्पन्नस्य सहायाः सन्ति, यदिवा तएव येषां समीपे उपसंपन्नास्तस्य तत्कृत्यं वैयावृत्त्यादिकुर्वन्ति तदा यत्तस्योपतिष्ठतेतं लभते इतरथा पुनस्तेषां समनोज्ञानां साम्भोगिकानां साधारणं तद्भवति। अप्पुण्णकप्पियाजे उ, अन्नोनमभिधारए। अन्नोन्नस्स य लाभो उ, तेसिंसाहारणो भवे // 16 // अपूर्णकल्पिका नाम गीतार्था असहाया ये अपूर्णकल्पिका अन्योन्यमभिधारयन्तिअन्योन्यस्य सुखदुःखोपसंपदं प्रतिपद्यन्ते, तेषां यो लाभः सोऽन्योन्यस्य-परस्परस्य साधारणो भवति। जाव एकेकगो पुनो, तावतंसारवेइ उ। कुलादिथेरगाणं व, ति जो वाऽवि सम्मतो॥१६॥ यावत्तेषामेकैकस्य पूर्णो गच्छो भवति। किमुक्तं भवतियावदेकैकस्य प्रत्येकं गच्छो नोपजायते / तावत्तमभ्युपपन्नगच्छमेकतरे सारयन्ति येषामवग्रहे वर्तते। अथतेसारयन्तः परिताम्यन्ति तदा कुलस्थविराणाम् आदिशब्दात्-गणस्थविराणां संघस्थविराणां वा तान् ददति अर्पयन्ति। योवा कोऽपि तेषां सम्मतस्तस्य समर्पयन्ति / गता सुखदुःखोपसंपत्। (6) संप्रति मार्गोपसंपद्वक्तव्या। तथा चाहसुहदुक्खे उवसंपय, एसा खलु वण्णिया समासेणं। अह एत्तो उवसंपय, मग्गोग्गहवजिए वुच्छं।।१६३।। एषा-अनन्तरोदिता खलु उपसंपद्वर्णिता समासेन सुखदुःखे, अथानन्तरमत ऊर्द्धव, मार्गे अवग्रहवर्जित वक्ष्ये–मार्गोपसंपदं वक्ष्ये इत्यर्थः। अत्र चेयं व्युत्पत्तिः-मार्गे देशनायोपसंपत् मार्गोपसंपत्। मग्गोवसंपयाए, गीयत्थेणं परिग्गहीयस्स। अगीयस्सावि लाभो, का पुण उवसंपया मग्गे // 164|| मार्गोपसंपदि प्रतिपन्नायागीतार्थस्यापि सतो गीतार्थेन परिगृहीतस्य लाभो भवति, अन्यथा अगीतार्थस्य न किञ्चिदाभवतीति वचनान्न कोऽपि लाभः स्यात्। ___ का पुनरुपसंपत् मार्गे? इति चेदत आह-- जह कोई मग्गन्न, अन्नं देसं तु वचती साहू। उवसंपन्जइ उ तगं, तत्थऽण्णो गंतुकामो उ॥१६५।। यथेतिमार्गोपसंपत्प्रदर्शने, यथा-कश्चित्साधुर्गिज्ञोऽन्यं देशं व्रजति, तत्र देशे अन्यो गन्तुकामस्तं साधुमुपसंपद्यते, अहमपि युष्माभिः सह समागमिष्यामि! अथ कीदृशो मार्गोपदर्शननिमित्त मुपसंपद्यते, तत आहअव्वत्तो अविहाडो,अदिट्ठदे सो अभासिगो वाऽवि। एगमणेगे उवसं-पयाए चउभंगों जा पंथो॥१६६|| अव्यक्तो-वयसा अविहाड:-अप्रगल्भः अदृष्टदेशोऽदृष्टपूर्वदेशान्तरः भाषिको देशभाषापरिज्ञानविकलः सा चोपसंपत् एकस्याने कस्य च। अत्र चतुर्भङ्गी, तद्यथा-एकमेकः संपद्यते 1, एकमनेकः२, अनेकमेकः 3, अनेकमनेकः 4, सा चोसंपत्तावत् यावत्पन्थाः। किमुक्तं भवतियावत्पन्थानं व्रजति ततो वा प्रत्यागच्छतीति। एतदेव सविशेषमभिधित्सुराहगयागते गयनियते, फिडिय गविढे तहेव अविगिटे / उन्मामगसन्नायग-नियट्टअदिट्ठभासीय॥१६७।। अव्यक्तोऽविहाडोऽदेशिकोऽभाषिको वा अन्य साधुमुपसंपद्यते, अस्मान् अमुकप्रदेशे नयत। अथवा-यत्र तेषां गन्तव्यं तत्र ये विवक्षितसाधोरन्ये व्यक्तविहाडादयो गन्तुकामास्तान् ब्रुवते, वयं युष्माभिः सह समागमिष्यामस्तत्र यत्र गन्तुकामाः। ततो यदि प्रत्यागच्छन्ति ततः गतागतमित्युच्यते / तस्मिन्मार्गोपसंपत् 'गयनियते' इति / अनुपसंपन्ना एवात्मीयेन व्यक्तविहाडादिना समं गतास्तस्य च कालगततया प्रतिभग्नत्वादिनावा कारणेन प्रत्यागन्तव्यं नाऽऽभवत्ततः प्रत्यागच्छन्तंसुसाधुमुपसंपद्यन्ते / एषा गतनिवृत्ते मार्गोपसंपत् / तथा 'फिडियगविढे तहेव अविगिट्टे' इति स्फिटितो नाम नष्टः, कथं नष्टस्तत आह-'अब्भामगे त्यादि उद्भ्रामकः भिक्षाचर्यया अदृष्टपूर्वविषये गतस्ततोनजानाति कुतो गन्तव्यमिति स्फिटितः / अथास्य ज्ञातयो गवेषमाणाः समागतास्ततस्तस्मात् स्थानाददृष्टपूर्वे विषये नष्टः, ततः स्फिटितः / तथा अभाषकोऽदृष्टपूर्वे विषये पृष्ठतो लग्नो यातिपरं मिलितुं न शक्नोति, स च दृष्ट्वाऽपि प्रतिप्रच्छनीयं देशभाषामजानन्न प्रतिपृच्छतिततो यथावत् परिभ्रष्टो नश्यति, स च नष्टो गवेषणीयः / तत्र स्फिटिते गवेषिते तथैव चागवेषिते अभावेन मार्गणा कर्तव्या। तत्र तदेव गवेषयतां वा अगवेषयतां वा भवनमनाभवनमाह-- उवणट्ठ अन्नपंथे, ण वा गयं अगवेसंते न लभंति। अगवेहोतिपरिणते, गवेसमाणा खलु लभंति // 168|| उपेत्य-स्वज्ञातिकान् दृष्टा नष्टः उपनष्टः, अन्येन वा यथा स विवक्षिते स्थाने गतो भविष्यतीत्येवं संकल्पा ये __ मार्गोपदर्शनायोप-संपन्नास्ते यदि तं न गवेषयन्ति तदा ते अग--