________________ ववहार ११०-अमिधानराजेन्द्रः - भाग 6 ववहार वायेऽपि च गीतार्था असमाप्ता-असमाप्तकल्पा आगच्छन्तोलभन्ते यच एकाकी एकाकिदोषपरिवर्जनार्थमुपसंपत्तुकामो लभते ये च समाप्तकल्पिकास्तेषामेवाऽऽभवति / न तु येषां समीपं प्रस्थिताः तेषामेवंनिर्ग्रन्थीनामपि द्रष्टव्यम्। अभिधारिजंत अप्पत्ते, एस वुत्तो गमो खलु / पढ़ते उ विहिं वुच्छं, सो य पाठो इमो भवे // 148|| एषः-अनन्तरोदितः खलुगमः-प्रकारोऽभिधार्यमाणे अप्राप्ते उक्तः, अत ऊर्ध्वं तु प्राप्ते सति पठति विधिं वक्ष्यामि / स च पाठोऽयं वक्ष्यमाणो भवति। तमेवाहधम्मकहा सुत्ते य, कालिएँ तह दिहिवाएँ अत्थे य। उपसंपयसंजोगे, दुगमाइ जहुत्तरं बलिया॥१४॥ धर्मकथायां सूत्रे कालिकेतथा दृष्टिवादे अर्थे चपाठार्थमुपसंपद्भवति। तत्र सूत्रतोऽर्थतश्च सूत्रार्थयोश्च स्वस्थाने द्विकादिसंयोगे यथोत्तरं बलिका-बलवन्तः, सूत्रचिन्तायां परम्परसूत्रं पाठयन्, अर्थचिन्तायां परम्परमर्थ व्याख्यानयन्, सूत्रार्थयोरेव परस्पर-चिन्तायामर्थप्रदाता बलीयानिति भावः। आवलियमंडलिकमो, पुवुत्तो छिण्णऽछिण्णभेदेणं / एसा सुओवसंपय, एत्तो सुहदुक्खसंपयं वोच्छं।।१५०।। या सा श्रुतोपसंपत्परम्पराप्ता आवलिका ज्ञातव्या,यात्वनन्तरा सा मण्डली, सा च अच्छिन्ना कथमिति चेदुच्यते-यस्मादभिधारकस्य लाभोऽन्येन छिन्नः सन्नभिधार्यमाणं मार्गयति, ततोऽच्छिन्नलाभयोगात् सा उपसंपदच्छिन्नेत्युच्यते / या चावलिका सा छिन्ना यतस्तस्यां यो लाभ आदित आरभ्य परम्परया छिद्यमानोऽन्तिमेऽभिधार्येऽन्यमनभिधारयति-विश्राम्यति ततः सा छिन्नोपसपत् / एवं छिन्नाच्छिन्नभेदेनावलिकामण्डलिकाक्रमः पठत्यपि पूर्वोक्त दृष्टव्यः, तदेवमुक्तैषा श्रुतोपसंपत् अतऊर्ध्वंसुखदुःखोपसंपदं वक्ष्ये। तामेवाहअभिधारो उववण्णो, दुविहो सुहदुक्खितो मुणेयव्यो। तस्स उकिं आभवती, सचित्ताऽचित्तलाभस्स / / 151 // सुखदुःखितो द्विविधो ज्ञातव्यस्तद्यथा-अभिधारयतीत्यभिधारोऽभिधारयन्, उपपन्न-सुखदुःखोपसंपदं प्राप्तः। तस्य द्विविध-स्यापि सचित्ताचित्तलाभस्य वा मध्ये किमाभवतीति च वक्तव्यम्। __अथकः सुखदुःखोपसंपदमुपपद्यते। इत्यत आहसहायगो तस्स उनऽत्थि कोती, सुत्तं च तक्केइन सो परत्तो। एगाणिए दोसगणं विदित्ता, सो गच्छमन्भेइ समत्तकप्पं // 15 // तस्य सहायकः कोऽपि न विद्यते, न च परस्मात् सूत्रमपेक्षते स्वयं सूत्रार्थपरिपूर्णत्वात्। केवलमेकाकी सदोषगणं विदित्वास गच्छंसमाप्तकल्पमभ्येति-अभ्युपगच्छति। तत्रोपसंपन्नमधिकृत्याऽऽभवद्व्यवहारमाहखेत्ते सुहदुक्खीओ,अभिधारेंताई दोण्णि वी लभति। पुरपच्छसंथुयाई, हेठिल्लाणं च जो लाभो // 153|| सुखी-सुखदुःखोपसंपदमुपसंपन्नः क्षेत्रे-परक्षत्रेऽपि एतदर्थमेव क्षेत्रग्रहणमन्यथैतन्निरर्थकं स्यात्। द्वयान्यपि पूर्वसंस्तुतानिपश्चात्संस्तुतानि वाऽभिधार्यन्ते लभते ये च तेन दीक्षिताः तेषामधस्तनानां यो लाभः सोऽपि तस्याऽऽभवति। संप्रति क्षेत्रे इत्यस्य विवरणमाहपरखेत्तम्मि वि लब्भति, सो देंतेण गहणखेत्तस्स। जस्स वि उवसंपन्ना, सो विय सेन गिण्हए ताई॥१५४|| मातापितृप्रभृतीनि श्वश्रूश्वशुरप्रभृतीनि च यदि तं सुखदुःखोपसंपन्नमभिधारयन्त्युपतिष्ठन्ते व्रतग्रहणाय परक्षेत्रेऽपि लभते इति प्रतिपत्तिः स्यादित्येवं लक्षणेन कारणेन क्षेत्रस्य ग्रहणं कृतमन्यथा न कमप्यर्थपुष्णाति, यस्यापिसमीपेस उपसंपन्नः सोऽपितानिन गृह्णाति सूत्रादेशतोऽनाभाव्यत्वात्। परखेत्ते वसमाणो, अतिकमंतो वनलभति असण्णी। छंदण पुष्वसण्णी, गाहियसम्मादि सो लभई / / 15 / / परक्षेत्रे तिष्ठन् व्यतिक्रामन् वा यस्तस्यसुखदुःखोपसंपन्नस्य उपतिष्ठते स यदि असंज्ञी-अविदितपूर्वस्तदा तमसंज्ञिनं न लभते केवलं स क्षेत्रिकस्याऽऽभवति / यः पुनः पूर्वसंज्ञीपूर्वविदितस्वरूपस्तं पूर्वसंज्ञिनं छन्देन लभते, यदि स वल्लीसंबन्धो भवति, तं च सुखदुःखितमभिधारयति तदा लभते / अथ तं नाभिधारयति, अभिधारयन्नपि च वल्लीसंबन्धो न भवति ततो यस्य समीपे सुखदुःखोपसंपदं जिघृक्षुः संप्रस्थितस्तस्याऽऽभवति। 'गाहियसम्मादि सो लभते' इति। यदिस सुखदुःखेन सम्यक्त्वं ग्राहित आदिशब्देन मद्यमांसविरतिंवा ततः पश्चात् प्रव्रज्यापरिणामपरिणतःसयद्यपि वल्लीद्विकसम्बन्धो न भवति, तथापि यदितस्य सुखदुःखितस्य समीपे उपतिष्ठते तदा सतं लभते। एतदेव सविशेषमभिधित्सुराहसुहदुक्खिएण जइ, परखेत्तुवसामितो तहिं कोई। वेति अभिनिक्खमामि, सो ऊ खेत्तिस्स आभवइ॥१५६|| तेन सुखदुःखितेन यदितत्रपरक्षेत्रे कोऽप्युपशामितः सम्यक्त्वं ग्राहितो, भवति, तत्कालमेव च ब्रूते अभिनिष्क्रमामिप्रव्रज्यां प्रतिपद्ये तदा स क्षेत्रिणः क्षेत्रिकस्याऽऽभवतिन तु सुखदुःखितस्य। अह पुण गहितो दसण, ताहे सो होति उवसमेतस्स। कम्हा जम्हा सावऍ, तिण्णिवरिसाणि पुष्वदिसा / / 157 / / अथपुनदर्शनं सम्यक्त्वं तेन सुखदुःखितेन पूर्वं ग्राहितस्ततः स तस्य उपशमयतः सद्देशनया प्रतिबोधितः, स आभवति / कस्मादिति चेदत आह-यस्मात् श्रावके त्रीणि वर्षाणि पूर्वदिक् भवति--पूर्वासन्नता भवति। एएण कारणेणं, सम्महिट्ठीतुन लभइ खेत्ती। एसो उवसम्पन्नो, अभिधारेंतो इमो होइ॥१५८|| एतेन कारणेन सम्यग्दृष्टिं पूर्वग्राहितसम्यग्दर्शनं क्षेत्रिको न लभते एष सुखदुःखोपसंपदमुपसम्पन्न उक्तः।