________________ ववहार 906 - अभिधानराजेन्द्रः - भाग 6 ववहार पहाणाइएसु तं दिस्सा, पुच्छा सिट्टे हरंति से गुरुगो। गुरुगा चेव अचित्ते, तिविहं पुण सम्म तग्गहणा / / 136 / / परम्परया कथमपि श्रुतं यथा अमुकोऽस्मानभिधायं समागच्छन् अन्तरा पथि सचित्तं लब्धवान् परं सोऽन्यत्र गतः, स्वगणं वा गतवान्, ततस्तं मृगयमाणैस्तैः स्नानादिभिः समवसरणेषु तं दृष्ट्वा पृच्छा कृता, यथात्वममुककालेऽस्माकमभिधार्य समागच्छन्नन्तरा सचित्तमुत्पादितवान्? तेन च यथावस्थितं शिष्ट, ततः स तस्य सकाशात् तत्सचित्तं हरति / अथ स न ददाति तर्हि बलात् व्यवहारेण दाप्यते, मायाप्रत्ययश्च तस्य गुरुको मासः प्रायश्चित्तम्। अचित्तापहरणे चत्वारो गुरुकाः, अचित्ते पुनस्त्रिविधे जघन्योपधिनिष्पन्नं मध्यमोपधिनिष्पन्नमुत्कृष्टोपधिनिष्पन्नं च। अत्रैवान्यकर्तृकं किंचिद्विशेषसूचकं गाथाद्वयम्दुविहो अभिधारेतो, दिट्ठमदिहो व होइ नायव्यो। अभिधारिजंतगसं-तिएहिं दिट्टो व अन्नेहिं / / 140 / / दिट्ठो माइ अमाई, एवमदिह्रो वि होइ दुविहो उ। अमाई उ अप्पिणती, मायी उन अप्पिणे जो उ॥१४१।। आद्यगाथाव्याख्यानं प्राग्वत् / दृष्टो द्विविधः-मायी, अमायी च / एवमदृष्टोऽपि द्विविधो भवति मायी, अमायी च / तत्र अमायी लब्धं सचित्तादिकमर्पयति, यस्तुमायी सनार्पयति,ततः स बलात् व्यवहारेण दाप्यते। शेषं तथैव। एवं ता जीवंते, अभिधारेंतो उ एइ जो साहू। कालगते एयम्मि उ, इणमन्नो होइ ववहारो॥१४२॥ एवं तावत् जीवत्यभिधार्यमाणे योऽभिधारयन् साधुरागच्छति तस्य व्यवहारः, कालगते पुनरेतस्मिन्नभिधार्यमाणे अयमन्यो भवति व्यवहारः। तमेवाहअप्पत्ते कालगते, सुद्धमसुद्धे अदेंत देंते य / पुटिव पच्छा निग्गय, संतमसंतेसु ते बलिया // 143|| कश्चिदाचार्यमभिधारयन् संप्रस्थितस्तत्रयं गच्छमभिधार्य संप्रस्थितस्तमप्राप्ते एव स आचार्यः कालगतः, अत्र च त्रयः प्रकाराः-"पुव्वं पच्छा निग्गय" ति / यदैवाभिधारयन् निर्गतस्तदैव कालगत आचार्यः 1, अथवा-पूर्वमभिधारयन् निर्गतः पश्चादाचार्यः कालगतः 2, यदि वा--- पूर्वमाचार्यः कालगतः स पश्चादभिधारयन् निर्गतः३। अत्र प्रथमे प्रकारे यत्तेनाभिधारयता पथि सचित्तादि लब्धं तत्कालगताचार्यशिष्याणामाभवति / द्वितीये प्रकारे लब्धे अलब्धे वा सचित्तादिके यापरताः स्थविरास्तदाऽपि तत्सचित्तादि तच्छिष्याणामाभवति / तृतीये प्रकारे अभिधारयता दूरादागच्छता तावन्न ज्ञानं यावत्तं गच्छं प्राप्तस्ततो यन्निमित्तं स तत्रागतस्तत् श्रुतं यदितस्य शिष्यस्यास्ति तदा सतत् श्रुतं तस्मै दातुमिच्छति ततः कालगताचार्यस्य लभते शिष्याः सचित्तादिकम्। यद्यपि सोऽभिधारको विपरिणतो न गृह्णाति शिष्यस्य सकाशात् श्रुतं ग्रहीतुं तत्रापि कालगताचार्याणामेव तत्सचित्तादि आभवति / अथ तत् श्रुतं नास्ति, नवाददाति, तदा न लभते कालगताचार्यशिष्यः सचित्तादिकम् / आह- किं कारणं तृतीयेऽपि प्रकारे काल-गताचार्यशिष्याणामेवाऽऽभवतीत्यत आहे- 'बलिय' त्ति बलवती श्रुताज्ञा, तत् श्रुतं तदवस्थमेव यन्निमित्तं तेनाभिधारितम् 'सुद्धम-सुद्धअदेंतदेंते य' इति यत् कालगताचार्यस्य शिष्याणामाभवति तद्यद्यभिधारको ददाति, तदा शुद्धः- अप्रायश्चित्तीत्यर्थः। अथ न ददाति तदा अशुद्ध- प्रायश्चित्तभाग भवतीत्यर्थः / तत्र सचित्तस्यादाने प्रायश्चित्तं चत्वारो गुरुकाः, आदेशान्तरेणानवस्थाप्यम् / अचित्तं उपधिनिमित्तं योऽपि चानाभाव्य न दत्ते तस्याप्येमेव प्रायश्चितम्। संप्रति 'पुव्वि पच्छा निग्गत संतमसंते' इत्यस्य किंचिद्व्याख्यानमाहलद्धे उवरया थेरा, तस्स सिस्साण सो भवे। मए विलभते सीसो, जइसे अस्थि देइ वा // 14 // तत्र प्रथमे प्रकारेऽभिहितं प्राक्, तथैव द्वितीये प्रकारे लब्धेउपलक्षणमेतत् अलब्धे वा सचित्ते स्थविरा उपरतास्ततः स सचित्तादिको लाभस्तस्य शिष्याणामाभवति। तृतीये पुनः प्रकारे मृतेऽप्यभिधारिते लभते शिष्यो यदि 'से' तस्य श्रुतमस्ति, ददाति वा / अथवा-नास्ति, नददातिवा, तदा न लभते। एतावता 'संतमसंते' इत्यपि व्याख्यातम्। उपसंहारमाहएवं नाणे तह दं-सणे य सुत्तत्थ तदुभए चेव। वत्तणसंधणगहणे, नव नव भेया य एकेके ||15|| एवमुक्तप्रकारेण ज्ञाननिमित्तमभिधार्यमाणे यद् आभवति तत् भणितम्, तथा तेनैव प्रकारेण दर्शनऽपि दर्शनप्रभावकशास्त्राणामप्यर्थायाभिधार्यमाणे आभवत्प्रतिपत्तव्यम्। तत्र ज्ञानार्थ दर्शनार्थ वा योऽभिधार्यते स 'सुत्तत्थ तदुभए चेव' त्ति सूत्रार्थतया अर्थार्थतया तदुभयार्थतया च / तत्रच सूत्रार्थतया अभिधारणं तद्वर्तनार्थतयासंधानार्थतया ग्रहणार्थतया च / तत्र पूर्वगृहीतस्य पुनरुज्ज्वालनं वर्तना, विस्मृतस्याऽपान्तराले त्रुटितस्य पुनःसंधानकरणं संधना। अपूर्वस्य ग्रहणं ग्रहणमिति। एवं त्रयो भेदाः-सूत्रार्थतया अर्थार्थतया। तदुभयार्थतया च प्रत्येक द्रष्टव्या : / सर्वसंख्यया ज्ञाने दर्शन च प्रत्येक नवनव भेदाः। तथा चाह-'नव नव भेया य एक्कक्के / (5) संप्रति चरणार्थमभिधारयन्तमधिकृत्याह--- पासत्थमगीयत्था, उवसंपखंति जे उचरणऽहा। सुत्तोवसंपयाए, जो लाभो सो उतेसिं तु॥१४६|| येपार्श्वस्थादयोऽगीतार्थाश्चरणार्थमुपसंपद्यन्तेतेषांचरणो-पसंपन्निमित्त कमप्यभिधारयन्समागच्छतां श्रुतोपसंपदि चान्तरायो लाभो भवति स स तेषामभिधार्यमाणानां भवति। नालबद्धद्धिकं तु तेषामभिधारयतामिति / गीयत्था ससहाया, असमत्ता जंतु लहति सुहदुक्खी। सुत्तत्थ अतकेंतासमत्तकप्पी उन दलंति||१७|| ये पुनः पार्श्वस्थादयो गीतार्थाः ससहायाः संभोगनिमित्तमालोचनां दास्याम इत्यभिधारयन्तः सूत्रार्थान् अतर्क यन्तोऽनपेक्षमाणा आगच्छन्तोऽन्तरा यं लभन्ते सचित्तमचित्तं