________________ ववहरियव्व 104 - अभिधानराजेन्द्रः - भाग 6 ववहार वहारश्रद्धानं भवति, सम्यग्व्यवहारप्रतिपत्तिरुपजायते / कथम्? इत्याह-'गीओ अणाइयंतो' इत्यादि, गीतो-गीतार्थोऽनतिक्रामन् यद्विवादादनतिक्रामन् द्वितीयेन गीतार्थेन सचित्ताधुत्पादनसह-वर्त्तिना व्यवहारमभुं त्वमेव छिन्धि नत्वमगीतार्थो, नापि युक्तम-युक्तं वा त्वं न जानासि इत्येवं छन्दितो-निमन्त्रितः सन् चिन्तयति-अहमनेनास्मिन् व्यवहारे प्रमाणीकुर्वता तीर्थकरानन्तरसंघ-मध्यवर्ती स्थापितः, संघश्च भगवदाज्ञानिवर्तितया यथावस्थितार्थवक्ता अन्यथा तीर्थकरानन्तरत्वायोगात्। तद्यदिलोभादितया कथमपिव्यवहारं विलोप्स्यामि; ततो मयैव तीर्थकरानन्तरः सत्संघोत्तारितः कृतो भवेत, तत एवं तद्व्यवहारविलोपनेन कथमहं तीर्थकरानन्तरं संघमन्तरे स्थापयामि अन्तरयामीति चिन्तयित्वा सोऽवादीत--तवैवेदमाऽऽभवति न ममेति। तस्माद् द्विविधोऽपि व्यवहारो गीतार्थेन सह कर्त्तव्यो नाऽगीतार्थेन।गीतार्थश्च प्रियधमत्वादिगुणोपेत इति प्रियधर्मादयो भावा व्यवहर्त्तव्याः / ननु ये प्रियधर्मादयस्ते प्रियधर्मत्वादिगुणैरेवाकल्प्यं न किमपि प्रतिसेविष्यन्ते इति कथं व्यवहव्या निर्दिश्यन्ते? व्यवहारहेत्वकल्प्यप्रतिसेवनासम्भवात्। नैष दोषः, प्रमादयशतस्तेषामपि कदाचिद-कल्प्यप्रतिसेवनापत्तेः / अन्यच प्रमादाभावेऽपि कदाचिदशिवायुत्पत्तौ गुरुलाघवं पर्यालोच्य दीर्घसंयमस्फातिनिमित्तमकल्प्यमपि प्रतिसेवन्ते, ततो भवति तेषामपि व्यवहारयोग्यतेतिव्यवहर्तव्या निर्दिष्टाः। अथ ये प्रियधर्मादिगुणोपेताअपिप्रमादिनस्ते कथं व्यवह्रियन्ते, प्रमादितया तेषां व्यवहारयोग्यताया अभावात्। तत आहपियधम्मे दढधम्मे, संविग्गे चेव जे उ पडिवक्खा। ते विहु ववहरियव्वा, किं पुण जे तेसि पडिवक्खा // 31 // प्रियधर्मा दृढधर्मसंविग्नौ च ये प्रतिपक्षा अप्रियधर्मः अदृढधर्मः असंविग्नश्च तेऽप्यनवस्थावारणाय तदन्यनिषेधाय हु-निश्चितं व्यवहर्त्तव्या भगवद्भिरुक्ताः, किं पुनर्ये तेषामप्रिय धर्मादीनां प्रतिपक्षाः प्रियधर्मदृढधर्मसंविग्नाः ते सुतरां व्यवहर्तव्याः, प्रियधर्मादितया तेषां भावतो / व्यवहारप्रवृत्तेः। तदेवं 'पियधम्मेय बहुस्सुए' इत्येतद्व्याख्यातम्। सम्प्रति बितिय' मित्यवयवं व्याचिख्यासुराहबिइय मुवएसअवंका-इयाणं जे होति ते उ पडिवक्खा। ते विहुववहरियव्वा, पायच्छित्ताऽऽभवंते य॥३२॥ द्वितीय उपदेश आदेशो मकारोऽलाक्षणिकः, द्वितीयम्- मतान्तरमित्यर्थः, अवादीनां ये भवन्ति प्रतिपक्षाः वक्रः-कुटिलो निष्कारणप्रतिसेवी, तथा सततप्रतिसेवनशीलोऽप्रियधर्मा याक्दबहुश्रुतस्तेऽप केचित् व्यवहारयोग्यतया अपरे अनवस्थावारणाय तदन्यनिषेधाय आभवति प्रायश्चित्ते व्यवहर्त्तव्याः। सम्प्रति 'उपदेसपच्छित्त' मित्येतद्व्याचिख्यासुराहउवएसो उ अगीए,दिजइ बिइओ उसोधिववहारो। गहिए वि अणाभव्वे, दिज्जइ विययं तु पच्छित्तं // 33|| साधुर्द्विविधो-गीतार्थः, अगीतार्थश्च / तत्र यो गीतार्थः स स्वयमेव जानीते, जानानस्य च नोपदेशः / यस्त्वगीतार्थः-स युक्तायुक्तपरिज्ञानविकलतया अनाभाव्यमपि गृह्णाति, ततस्तस्मै अगीतार्थाय उपदेशो दीयते, यथा-नयुक्तंतवानाभाव्यंग्रहीतुम्, यो ह्यनाभाव्यं गृह्णाति तस्य तन्निमित्तं प्रायश्चित्तमाभवति / एवमुद्दिश्य तस्यानाभाव्यग्रहणप्रवृत्तिनिमित्तं दानप्रायश्चित्तं दीयते, प्रथमत उपदेश इति आभाव्य ग्रहणप्रवृत्तिनिमित्तं दानप्रायश्चित्तं दीयते / तथा चाह-- 'बिइओ उ सोहिववहारो' शोधिः-प्रायश्चित्तम्, अनाभाव्यं गृह्णाति प्रथमत उपदेश आदीयते, द्वितीयः शोधि-दानव्यवहारः तदेतदनाभाव्यं गृह्णन्तं प्रत्युक्तम् / सम्प्रति गृहीता-नाभाव्यं प्रत्याह- 'गहिए वी' त्यादि, अपिशब्दः समुचये, न केवलमनाभाव्ये गृह्यमाणे किंतुगृहीतेऽप्यनाभाव्ये दीयते, प्रथमतः उपदेश इति गम्यम्, तदनन्तरं सूत्रमुचार्य प्रायश्चित्तं यथावस्थितं कथयित्वा एतत्तवाऽऽभवति प्रायश्चित्तमिति प्रथमं ततो दानप्रायश्चित्तं दीयते इति द्वितीयम्। व्य० 170 / ववहार-पुं०(व्यवहार) व्यवहियते यद्यस्य प्रायश्चित्तमाभवति स तद्दानविषयीक्रियतेऽनेनेति व्यवहारः। "ऋतो भावात् समश्च हलः" इति करणे घञ्प्रत्ययः। व्य०१उ०। कथंचिदापन्नदोष-व्यपोहाय प्रायश्चित्तलक्षणे, दश०३अ० स्था०। प्रायश्चित्तसमाचारे, पञ्चा०१६ विव०ा व्यवहियन्ते जीवादयोऽनेनेतिव्यवहारः। अथवा-व्यवहरणं व्यवहारः मुमुक्षुप्रवृत्तिनिवृत्तिरूपेऽर्थे तत्कारणे, ज्ञानविशेषे च। प्रव० 125 द्वार / व्यवहारप्ररूपणा कर्तव्या, तत्र व्यवहारग्रहणेन व्यवहारी व्यवहर्त्तव्यं चेति द्वितयं सूचितमेव तद्व्यतिरेकेण व्यवहारस्यासंभवात्, नखलु करणं सकर्मकक्रियासाधकतमरूपं कर्म कतीरं च विना वचित्सम्भवदुपलब्धम् / व्य०१ उ०। (1) व्यवहारे व्यवहर्त्तव्यम्, ततो यथा व्यवहारस्य प्ररूपणा कर्त्तव्या, तथा व्यवहारिव्यवहर्त्तव्ययोरपीति त्रयाणामपि प्ररूपणां चिकीर्षुः, भाष्यकृदेतदाहववहारो ववहारी, ववहरियव्वा य जे जहा पुरिसा। एएसिं तु पयाणं, पत्तेयपरूवणं दुच्छं // 1 // व्यवहार-उक्तशब्दार्थः व्यवहरतीत्येवंशीलो व्यवहारीव्यवहार--क्रिया प्रवर्तकः। प्रायश्चित्तदायीति यावत् / तथा ये पुरुषाः पुरुष-ग्रहणं पुरुषोत्तमो धर्म इति ख्यापनार्थम्, अन्यथा स्त्रियोऽपि द्रष्टव्यास्तासामपि प्रायश्चित्तदानविषयतया प्रतिपादयिष्यमाणत्वात् यथा ये वक्ष्यमाणेन प्रकारेण व्यवहर्त्तव्याः-व्यवहारक्रिया-विषयीकर्तव्याः / पाठान्तरम्-'जे जहा काले' अस्यायमर्थः--ये यथा यस्मिन्काले व्यवहर्तव्यास्तद्यथा-यदा आगमव्यवहारिणः सन्ति, तदा तदुपदेशेनैव व्यवहर्त्तव्यास्तेषु व्यवच्छिन्नेषु श्रुतज्ञानव्यवहार्युपदेशेन तदैव चाज्ञयाऽपि तदैव धारणया तदैव तु जीतव्यवहारेणापि व्यवहर्त्तव्या इति / एतेषां व्यवहारव्यवहारिव्यवहर्तव्यरूपाणां त्रयाणां पदानाम्, तुर्विशेषणे सचैतद्विशिनष्टिः,संक्षेपतो विस्तरतश्च / प्रत्येकमिति प्रत्येकशब्दः यथेत्यादिना अव्ययीभावः। एकैकस्येत्यर्थः, प्ररूपणां व्याख्यां वक्ष्ये। तत्र संक्षेपप्ररूपणार्थमिदमाहववहारी खलु कत्ता, ववहारो होइ करणभूतो उ। ववहरियव्वं कजं, कुंभादितियस्स जह सिद्धी // 2 // 'ववहारी खलु कत्त' त्ति व्यवहारस्य का; व्यवहारस्य