________________ ववहरियव्व १०३-अभिधानराजेन्द्रः- भाग 6 ववहरियव्व संप्रति प्राक् प्ररूपितायां चतुर्भङ्गिकायां यश्चतुर्थो भङ्ग-- स्तत्प्ररूपणार्थमाहनिकारणपडिसेवी, क निबंधसो व्व अणवेक्खो। देसंवा सध्वं वा, गूहिस्सं दव्यतो एस // 24 // यो निष्कारणे-कारणमन्तरेण प्रतिसेवी अकृत्यप्रतिसेवनशीलः। 'कज्जे निधसो' ति। अत्र अपिशब्दोऽनुक्तोऽपि गम्यते सामर्थ्यात् / ततोऽयमर्थः-कार्येऽपि तथाविधे समुत्पन्ने 'निद्धधसो' देशीवचनमेतत्। अकृत्यं प्रतिसेवमानो नाधिकृतारम्भविराध्यभानप्राण्यनुकम्पापर इत्यर्थः / चः-समुच्चये, स भिन्नक्रमोऽनपेक्ष्यश्चेत्येवंयोजनीयः। न विद्यते अपेक्षा-वैरानुबन्धो मे विराध्यमानजन्तुभिः सह भविष्यति संसारो वा दीर्घतर इत्येवंरूपा यस्यासावनपेक्षः, हा दुष्ट कृतं मयेति पश्चादनुतापरहित इति भावः। तथा यः प्रतिसेवित्वा देशं गृहिष्यामि न सर्वमिति भावः। 'सव्वं व' त्ति सर्वं वा गूहिष्यामिन किंचिदालोचयिष्यामीत्यर्थः; इति चिन्तयति, चिन्तयित्वा च तथैव करोति। एष द्रव्यतो व्यवहतथ्यो वेदितव्यः। किं वा नेत्यत आहसो विहु ववहरियव्वो, अणवत्था वारणं तदने य। घडगारतुलसीलो, अणुवरओसन्नमज्झत्थी॥२५॥ सोऽप्यनन्तरोक्तस्वरूपो द्रव्यव्यवहर्त्तव्य एव, किं कारणमत आह'अणवत्थावारणं तदन्ने य' इति। तस्मिन्- व्यवहियमाणे अनवस्थावारणं भवति, तदन्ये च निषिद्धा जायन्ते। किमुक्तं भवति-सोऽप्यनवस्थया मा पुनः। पुनरकृत्यं कार्षीत्। तदन्ये च तं तथा प्रवर्त्तमानं दृष्ट्वा मा तथा प्रवृत्तिं कार्युरिति / स च व्यवहर्तुमिष्यमाणः पूर्वमेव वक्तव्यो, यथाआलोचय महाभाग ! स्वकृतम-पराधमनालोचिताप्रतिक्रान्तो दीर्घसंसारभागभवतीति। एवं च भणिते यो ज्ञायते-प्रतिपत्स्यते शिक्षावचनं प्रतिपद्य वा अकृत्य-करणात् विरतो, विरम्य च न भूयः प्रतिसेवीति / यस्तु तथा भण्यमानोऽपि न सम्यगकृत्यकरणादुपरमते सोऽनुपरतो घटकारतुल्यशीलः-कुम्भकारसदृशस्वभावोऽवसन्नमध्ये द्रष्टव्यो नतु व्यवहर्त्तव्यः। अथ कोऽसौ कुम्भकारो यत्सदृशस्वभावःसन्त्रव्यवहर्तव्यः, उच्यते- "कुंभगारसालाए साहू ठिया, तत्थ आयरिएण साहू वुत्ता। अञ्जो ! एएसु कुंम्भगारभायणेसु अप्पमादी भवेज्जाह, मा भंजिहह। तत्थ पमादी चेल्लगो कुंभगारभायणं भंजिऊण मिच्छादुक्कडं करेइ / एवमभिक्खणं दिणे दिणे / तओ सो कुंभगारो सट्ठो तं चेलं कियाडियाए घेत्तुं सीसे खजुकं दाउं खडुक्को नाम टोलओ' मिच्छामि दुक्कडं भणइसीसो भणइ-किं मम निरवराह पिट्टेसिं? कुम्भगारो भणइ-माणगाणि तए भग्गाणि / चेल्लओ भणइ-मिच्छा दुक्कडं कया कुंभगारो भणइ-मए वि मिच्छादुक्कड़ कयं / नऽत्थि कम्मबंधो मम तव पहारं देंतस्स / एसो कुंभगारमिच्छादुक्कडसरिसमिच्छादुक्कडो अव्यवहरियव्यो" तदेवंतहय आहचेति व्याख्यातम्। संप्रति 'पियधम्मो य बहुस्सुए' इत्यस्य व्याख्यानमाहपियधम्मो जाव सुयं, ववहारं नाउ जे समक्खाया। सव्वे वि जहा दिहा, ववहरियव्वाय ते हुंति॥२६॥ इहाद्यन्तग्रहणे मध्यस्यापि ग्रहणमितिन्यायात प्रियधम्मंबहुश्रुत-ग्रहणे तदन्तरालवर्तिनामपि दृढधर्मादीनां ग्रहणम् / ततः प्रियधर्मण आरभ्य यावत् श्रुतं सूत्रार्थतदुभयविद इति पदम, तावत् ये व्यवहारज्ञा व्यवहारपरिच्छेदकर्तारः प्राक् समाख्यातास्ते सर्वेऽपि यथो-द्दिष्टा-यथोक्तस्वरूपा व्यवहर्त्तव्या-भावव्यवहर्तव्या भवन्ति, प्रत्येतव्या इतिशेषः / प्रियधर्मादितया सूत्रार्थतदुभयविदः, याव-तेषां प्रज्ञापनीयत्वादिति। व्यवहारप्रायश्चित्तव्यवहार आभवत्सचित्तादिव्यवहारश्च, तत्र द्विविधेऽपि व्यवहारे व्यवहर्तव्यः, प्रायो गीतार्थेन सह नागीतार्थेन। तथा चाऽऽहअम्गीएणं सद्धि, ववहरियव्वं न चेव पुरिसेणं। जम्हा सो ववहारे, कयम्मि सम्मन सहहई // 27 // यः स्वयं व्यवहारमवबुध्यते प्रतिपाद्यमानो वा प्रतिपद्यते व्यवहारं स गीतार्थः इतरस्त्वगीतार्थः / तत्रागीतेन अगीतार्थेन सार्द्धनैव पुरुषेण व्यवहर्त्तव्यम, कस्माद्? इत्याह-यस्मात्सोऽगीतार्थो व्यवहारे यथोचिते कृतेऽपि न सम्यक् श्रद्धत्ते-नपरिपूर्ण व्यवहारं कृतंतथेतिकृतं प्रतिपद्यते इति। तस्माद् गीतार्थेन सह व्यवहर्त्तव्यम्। यत आहदुविहम्मि वि ववहार, गीयत्थी पट्टविनई जंतु। तं सम्म पडिवजह, गीयत्थम्मी गुणा चेव // 28 // द्विविधेऽपि प्रायश्चित्तलक्षणे आभवत्सचित्तादिव्यवहारलक्षणे च व्यवहारे गीतार्थो यत्प्रत्यापद्यते पाठान्तरम्-'पण्णविज्जइ' प्रज्ञाप्यते तत्सम्यक् प्रतिपद्यते गीतार्थत्वात्तथा चाह- 'गीयत्थम्मी गुणाचेव' गीतार्थे गुणा एव नागुणाः, अगुणवतो गीतार्थत्वायोगात्। यथा च गीतार्थः सम्प्रतिपद्यमानः सम्यक् प्रतिपद्यते तथा प्रतिपादयन्नाहसचित्ताऽऽदुप्पो, गीयत्था सइ दुवेण्ह गीयाणं। एगयरे उनियत्ते,सम्मं ववहारसहहणा // 29 // गीओ अणाइयंतो, छिंद तुमं चेव छंदितो संतो। कहमंतरम्मिठविओ, तित्थयराणंतरं संघं ||30|| "दोन्नि जणा गीयत्था विणओवसंपयाए विहरंति, तेसिं सचित्ताई किंचि उप्पन्न, तन्निमित्तं ववहारो जाओ। एगो भणइ-ममाऽऽभवइ,बीओ भणइममाऽऽभवइ, तस्ययसमीपे अन्नो गीयत्थो नऽस्थि, जस्ससगासे गच्छंति। ततोएगणबीओभणितो अजो! तुमचेवमर्मपमाणंभणाहि,कस्साऽऽभवइ? तओ सो एवं निउत्तो चिंतेइ-तित्थयराणंतरे संघे अहं ठवितो ता कहमहं तित्थयराणंतरंसंघमइक्वमामित्ति। भणइ-तुमंचेवाऽऽभवतिनममंति।" एष भावार्थः, अक्षरयोजना त्वेवम्-सचित्ताधुत्पन्ने आदिशब्दादचित्तमिश्रपरिग्रहः / समासश्च कर्मधारयस्ततोऽयमर्थः, सचित्ते शिष्ये अचित्ते वस्त्रादौ मिश्रे सोपकरणे शिष्ये उत्पन्ने सति द्वयोर्गीतार्थयोः परस्परं विवदमानयोः अन्यस्मिन्समीपे व्यवहारपरिछेदकर्तरि गीतार्थेअसति, कथमप्येक्तरस्मिन्गीतार्थतया निवृते-विवादात्प्रत्यावृत्ते प्रागुक्तनीत्या व्य१-'अगीएण' इति युक्तम्,छदोऽनुरोधात् पुस्तकानुरोधाच तथेति।