________________ मज्झमबुद्धि 68 - अभिधानराजेन्द्रः - भाग 6 मज्झमबुद्धि ययौ स्वरमन्दिरे राज्ञी, प्रपुज्य च रतीश्वरम्। बालस्तु तस्याः संस्पर्श-वश्योऽभून्नष्टचेतनः।।१५२।। मया कथं नुलभ्येय-मिति चिन्तापरायणः। अल्पोदके मीन इव, तत्रास्थाच सदुःस्थितः।।१५३|| बालः किं चिरयत्येष, इति मध्यमबुद्धिकः। प्राविशत् कामधामान्त-स्तदवस्थं ददर्श तम्॥१५४॥ उत्थापितस्ततोऽनेन,यावदाह न किञ्चन। बालस्तावच तत्रत्य-व्यन्तरेण न्यबध्यत॥१५५।। अपात्यत महीपीठे, सर्वाङ्गीणमपात्यत। बहिरक्षेऽपिलोकेभ्य-स्तद्वृत्तं चन्यवेद्यत / / 156|| ततो गाढतरं प्रार्थ्य, व्यन्तरान्मध्यबुद्धिना। लोकैश्च मोचितो बालो, निन्ये च निजमन्दिरे।।१५७।। मध्यबुद्धिमथो बालो-प्राक्षिद्बन्धो ! किमु त्वया। व्युदैक्षिवासभवना-निर्यान्तीकाऽपि नायिका।।१५८|| स प्राहाऽदर्शि यद्येवं, हे भ्रातस्तर्हि कस्य सा?। स स्माहाऽत्रैव भूपस्य, देवी मदनकन्दली।।१५६।। तदाकावद बालः कथं सा मादृशामिति। मध्यमेन तदाकूतं, ज्ञातमुक्तं चतं प्रति॥१६०॥ भ्रातः! केयमविधाते,यदेवं तप्यसे किमु?। त्वयाऽधुनैव व्यस्मरि, यत् कृच्छ्रेणासि मोचितः / / 161 / / तच्छुत्वा बालको जज्ञे, कजलश्यामलाऽऽननः। अयोग्योऽयमिति ज्ञात्वा, मध्यमो मौनमाश्रयत्॥१६॥ इतश्चास्तमिते सूर्य, निःसृत्य निजमन्दिरात्। गन्तुं प्रववृते बालो-ऽभिमुख नृपवेश्मनः / / 163 / / भ्रातृस्नेहविमूढाऽऽत्मा, मध्यस्तत्पृष्ठतोऽलगत्। केनाऽपि पुरुषेणाऽथ, बालोऽबध्यत निश्चलम्॥१६४॥ प्रक्षिप्त आरटन व्योम्नि, ततो मध्यस्तमन्वगात्। रेरे क्व यासि यासीति, प्राप्तः प्राप्त इति ब्रुवन्॥१६५।। गृहीतबालः स पुमान्, क्षणेनाभूददर्शनः। भ्रातृप्राप्त्याश्या मध्य-स्तथापि च बलेन हि॥१६६|| बंभ्रमन् सप्तमे चाह्नि, पुरं प्राऽऽपकुशस्थलम्। नोदन्तमात्रमप्याप, स्वानुजस्य परं क्वचित्॥१६७।। ततो भ्रातृवियोगाऽऽर्तः कण्ठबद्धशिलोवटे। पतन् नन्दनसंज्ञेन, राजपुत्रेण वारितः॥१६८।। पृष्टश्च नन्दनायाऽऽरख्यत्, तं वृत्तान्तमशेषतः। सऊचे भद्र ! यद्येवं,तहीष्ट सिद्धवत्तव।१६६॥ तथाहिहरिश्चन्द्रो नृपोत्रास्ति, स चारिभिरभिद्रुतः। खेचरं रतिकेल्याऽऽख्यं, मित्रं प्रोचे कृताञ्चलिः।।१७०।। सखे ! कुरु तथा शत्रु-विधातं स्याद्यथा मम। ततो नृपाय स ददौ, विद्यां शत्रुविघातिनीम्॥१७१।। ततः पाण्मासिकी राजा, पूर्व सेवामचीकरत्। अधुना वर्त्तते भद्र !, साधनावसरः खलु।।१७२।। ततो होनार्थमानीत, आकाशे रतिकेलिना।। इतोऽष्टमे दिने कोऽपि, पुमान् लक्षणलक्षितः।।१७३।। पोषं पोषं तदङ्गासक -पललैस्तर्पणापरः। विद्या प्रसाद्य राट् चक्रे,पश्चात्सेवा दिनाष्टकम / / 174|| राज्ञाऽधुना तुरक्षार्थ-मर्पितोऽस्तिममैव सः। मध्यमः प्राऽऽह यद्येवं, तर्हि तं दर्शयाऽऽशु मे।।१७५।। तेनाप्यदर्शि चर्मास्थि-शेषाङ्ग मुपलक्ष्य तम्। मध्योऽयाचत कारुण्यात्, सोऽपिचास्मै समार्पयत्॥१७६|| उक्तश्च मध्यमस्तेन,राजद्रोह्यमिदं ननु। इतोऽपसरशीघ्रं भो, आत्मानं रक्षिताऽस्म्यहम्।।१७७।। महप्रासाद इत्युक्त्वा, बालमादाय स्वौजसा। भीतभीतोऽपचक्राम, क्रमात प्राऽऽप स्वपत्तनम्।।१७८! कथंकथमपि प्राऽऽप,बलितांबालकस्ततः। आख्यन्नन्दनवन्मध्य-बुद्धेः स्वं वृत्तमुच्चकैः / / 176 / / मनीष्यपि तदातत्रा-ऽऽगमल्लोकानुवृत्तितः। तत्कुण्ड्यानतरितोऽऔषी-त्सर्व बालविचेष्टितम्॥१८०|| ततस्तमाह हे भ्रातः!,कथितं ते मया पुरा। यदेष स्पर्शनः पापः सर्वदोषनिकेतनम्॥१८१।। बालोऽप्यजल्पदद्यापि,यदि तामायतेक्षणाम्। प्राप्नुयां कोमलस्पर्शा ,तन्मे दुःखं न किश्चन।।१८।। दध्यौ मनीषी तच्छ्रुत्वा, ही (हि) बालोऽयं वराककः। नैवोपदेशमन्त्राणां, कालदष्ट इवोचितः॥१८३।। किंचएक हिचक्षरमत्वं सहजो विवेकस्तद्वद्भिरेव सह संवसति द्वितीयम्। एतद्वयं भुविन यस्य सतत्त्वतोऽन्धस्तस्याप्यमार्गचलने खलु कोऽपराधः? ||184 // मध्यबुद्धिरथोत्थाप्य, प्रोक्तस्तेन वचस्विना। किं त्वयाऽपि विनष्टव्यं, विलग्नेनास्य पृष्ठतः।।१८५॥ मनीषिणमसौ प्रोचे, पद्मकोशीकृताञ्जलिः। अद्यप्रभृति बालस्य; सङ्गोऽत्याजि मयाऽनघ।।१८६॥ इदानीमाश्रयिष्यामि, वृद्धमार्गानुगामिताम्। जलाञ्जलिमलंदास्ये, सकलक्लेशसंहतेः॥१८७|| वृद्धानुगोऽभविष्यं चे- त्वमिवाहं पुराऽपि हि। असहिष्ये तदा भ्रात- व क्लेशवंशादशाम्॥१८८।। तेधन्याः पुण्यभाजस्ते, ये हि वृद्धानुगाः सदा। यद्वा वृद्धानुगामित्वं, स्वयं सिद्ध व्रत सताम्॥१८६।। विपद्युचैः स्थेय पदमनुविधेयं च महता, प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम्। असन्तोनाभ्याः सुहृदपिनयाच्यस्तनुधनः, सतां केनोद्दिष्ट विषममसिधाराव्रतमिदम् ? ||160 / / परं ममापि धन्यत्वं, किञ्चनाद्यापि विद्यते। यदहं त्वमिवाभूवं, वृद्धमार्गानुगामुकः।।१६१।। किंचरागाऽऽदिभिः समं याति, शान्ति स्मरहुताऽशनः। धत्ते प्रसन्नता स्वान्तं, ध्रुवं वृद्धानुगामिनाम् / / 162 / / अहो मातेव हितकृद, दीपिकेवार्थदर्शिनी। विनेत्री गुरुवाणीव, पुंसां वृद्धानुगामिता // 163 / / माताऽपि विकृति यायात, कदाचिदैवयोगतः। न पुनर्वृद्धसेवेयं, कदापि विहिता सती॥१६४।। वृद्धवाक्यामृतस्यन्द-सुन्दरे तस्य मानसे। ज्ञानराजमरालीयं, सुस्थिरां स्थितिमश्नुताम्।।१६५॥ यो वृद्धख्मण्डली मन्दोऽ-नुपास्यैव समीहते। तत्त्वं विज्ञातुमत्युच्चैः, स इच्छेद्गमनं करैः / / 166|| वृद्धोपदेशातग्मांशु, प्राप्य यस्य मनोम्बुजम्। न प्राबोधि कथं तत्र, गुणलक्ष्मीः समाश्रयेत् ? ||167 / /