________________ मज्झमबुद्धि 67- अभिधानराजेन्द्रः - भाग 6 मज्झमबुद्धि क्षणं प्रक्रीड्य तत्रागा-त्स्वगेहे तच्चतुष्टयम्॥१०२।। तं दृष्ट्वा सप्रियो राजा, प्रीत आख्यादहा सुतः। वधूश्च मे द्विगुणिता, वनदेव्या प्रसन्नया।।१०३|| सकलेऽपि पुरे हर्षान्महोत्सवमचीकरत्। तेषां चतुर्णामप्येवं, ययो कालः कियानपि॥१०४॥ अथ तत्र पुरे मोह-विलयाऽऽख्ये सुकानने। सूरिः प्रबोधको नाम, ज्ञानवान् समवासरत् / / 105|| अथलोका नरेन्द्राऽऽद्या, वन्दनायै मुनीशितुः। निर्ययुभंगवांस्तेभ्य, इति चक्रे सुदेशनाम्॥१०६।। शल्य कामाः विष कामाः, कामा आशीविषोपमाः। कामार्थनापरा जीवा, अकामा यान्तिदुर्गतिम्॥१०७|| तच्छृण्वतोगुरोर्वाक्यं, तयोर्देवीसुपर्वणोः। मोहजालं प्रविध्वस्तं, जाता सम्यक्त्ववासना।।१०८|| अत्रान्तरे, तयोर्दैहात्, कृष्णरक्ताऽणुसञ्चयैः / 'निर्गतैीषणाऽकारा, घटितैका नितम्बिनी11१०६।। सा च भागवत तेजोऽसहन्ती पर्षदो बहिः। गत्वा परामुग्रीभूयाऽवतस्थे दुःस्थिताऽऽशया॥११०॥ अथोत्थायावदद् देवः, सप्रियो भवन्नहम्। कथमस्मान्महापापा-न्मुच्ये प्रोचे मुनीश्वरः / / 111 // नायं भो भवतोर्दोषः, किं त्वस्याः पापयोषितः। काऽसावितिगुरुः पृष्टः, प्राहामृतकिरा गिरा।।११।। भद्रौ ! विषयवृ (तृ) ष्णेयं, दुर्जया त्रिदशैरपि। रजनीव तमिस्रस्य, सर्वदोषततेः पदम्॥११३॥ शुद्धस्फटिकसङ्काशौ, स्वरूपेण युवा पुनः। एषैव सर्वदोषाणां, कारणत्वेन संस्थिता / / 114 / / इह स्थातुमशक्तेति, दूरमेषा स्थिताऽधुना। भवन्तौ मत्समीपाच, निर्गच्छन्तौ प्रतीक्षते॥११५।। तौ प्रोचतुः कदा स्वामिन् !, मोक्षो नो भविताऽनया। गुरुः प्राऽऽह भवे नात्र, परं भावी भवान्तरे।।११६|| किन्तु सम्यक्त्वमाहात्म्यान्नात्यन्तं नो विवाधिका। प्रतिपन्नं ततस्ताभ्यां, सम्यक्त्वं मोक्षसौख्यदम्॥११७।। ऋजुराट् प्रगुणा देवी, समुग्धोऽकुटिला तथा। अथो विज्ञापयामासुर्गुरु स्वस्वबिडम्बनाम्॥११८|| अत्रान्तरे तदङ्गेभ्यो, निर्गतैः परमाणुभिः। घटितं वर्णतः श्वेतं, डिम्भमेकमदम्भकम्।।११६॥ रक्षितानि मया यूयं, वुवाणमिति चोच्चकैः। पश्यद्गुरोर्मुखाम्भोज, सर्वेषां पुरतः स्थितम्॥१२०॥ युग्मम्। द्वितीयं कृष्णवर्णाभं, डिम्भंतदनु निर्ययौ। ततो जातं महाकृष्णं, डिम्भरूप तृतीयकम्।।१२१।। आहत्य तच्च शुक्लेन, वर्द्धमानं निवारितम्। ततोद्वे अपि ते कृष्णे, निर्गत गुरुपर्षदः॥१२२।। गुरुः प्रोवाच भो भद्राः!,न दोषो वोऽत्र कश्चन। अज्ञानपापाभिधयोः, किं त्वसौ कृष्णडिम्भयोः॥१२३।। तथाहिपत्र चेदिदमज्ञानं, युष्मद्देहाद्विनिर्गतम्। एतदेव समस्तस्य, दोषवृन्दस्य कारणम्॥१२४|| अनेन वर्तमानेन, शरीरे जन्तवो यतः। कार्याकार्य न जानन्ति, गम्यागम्याऽदिकं तथा।।१२५।। ततः पापं निबध्नन्ति, दुःखदन्दोलिदायकम्। यत्तु पूर्व सितं डिम्भं, तदार्जवमुदाहृतम्॥१२६|| अज्ञानाद्वर्द्धमान हि, पापं वोऽवार्यताऽमुना। रक्षितानि मया यूय-मत एवेदमाख्यत॥१२७।। यतःधन्यानामार्जवं, येषामेतचेतसि वर्तते। अज्ञानादाचरन्तोऽपि, पापं ते स्वल्पपातकाः।।१२।। तदेवंविधभावानां, भद्राणां युज्यतेऽधुना। अज्ञानपापे निर्दूय, सम्यग् धर्मनिषेवणम्।।१२६।। उपादेयो हि संसारे, धर्म एव बुधैः सदा। विशुद्धोमुक्तये सक्, यतोऽन्यदुःखकारणम्॥१३०।। अनिव्यः प्रियसंयोगः, ईर्ष्याशोकाऽऽदिसडलः। अनित्यं यौवनं चापि, कुत्सिताऽऽचरणाऽऽस्पदम्।।१३१।। अनित्यं सर्वमवेह, भवेवार्द्धितरङ्ग वत्। अतो वदत किं युक्ता, क्वचिदास्था विवेकिनाम् ? ||132 / / श्रुत्वेति राज्ये संस्थाप्य,शुभाऽऽचाराभिधं सुतम्। प्राब्राजीदृजुभूपालो, जायापुत्रवधूयुतः॥१३३॥ ततस्ते कृष्णरूपे द्वे, डिम्भे तूर्ण पलायिते। शुक्लरूपं पुनर्दिम्भ, प्रविष्टं तनुषु क्षणात्।।१३४॥ कालज्ञेन ततश्चित्ते, सभार्येण विचिन्तितम्। पश्याहो धन्यताऽमीषां,यैः प्राप्तं व्रतमार्हतम्॥१३५|| वयं तु दैवभावेन, व्यर्थ केनाऽऽत्र वञ्चिताः। यद्वा सम्यक्त्वसंप्राप्त्या, सुधन्या वयमप्यहो॥१३६।। सहर्षावथतौ सूरेः, प्रणम्य चरणद्वयम्। तेनानुशिष्टौ स्वस्थानं, प्रापतां देवदम्पती॥१३७।। इदं पुत्र ! मया तुभ्यं, कथितं मिथुनद्वयम्। संदिग्धेऽर्थे हि तत्काल-विलम्बो गुणभाजनम्॥१३॥ यदादिशति मामम्बा, कर्ताऽहं तत्तथैव हि। इति जल्पन्मुदा मध्यः, प्रपेदे जननीवचः।।१३६।। बालोऽप्यथ स्वमित्रेण, मात्राऽकुशलमालया। अधिष्ठितोऽभवद्गाढ-मकृत्यकरणाऽऽदृतः।।१४०।। कुविन्दहुम्बमातङ्ग-जातीयास्वपि तद्वशः। अतिलौल्येन नारीषु, प्रावर्त्तत निरन्तरम्॥१४१॥ ततश्च गतलज्जोऽयं, पापिष्ठः कुलदूषणः। एवं स निन्द्यते लोकै-नच पापान्निवर्तते / / 142 / / अथ निन्दापरे लोके,स्नेहविज्वलमानसः। लोकापवादभीरुस्तं,मध्यबुद्धिरभाषत॥१४३|| भ्रात!युज्यते कर्तुं तवलोकविरुद्धकम्। अगम्यागमनं निन्द्यं, सपापं कुलदूषणम्॥१४४।। स प्राऽऽह विप्रलब्धोऽसि, नूनं बन्धो ! मनीषिणा। ना)ऽयमुपदेशानां, मौन्यभूदिति मध्यमः॥१४५|| अपरेधुर्मधौ बालः, समंमध्यमबुद्धिना। ययौ लीलावरोद्यान-संस्थिते कामधामनि॥१४६।। तत्र चैक्षिष्ट पार्श्वस्थ, गुप्तस्थानव्यवस्थितम्। कामस्य वासभवन,मन्दमन्दप्रकाशकम्॥१४७|| कुतूहलवशेनाथद्वारे संस्थाप्यमध्यमम्। मध्ये प्रविष्टः सहसा, सबालस्तस्य सद्मनः।।१४८|| तत्र कामस्य शयने, कोमलामलतूलिके। मित्राम्बादोषतौ बालः,शेते स्मगतपुण्यकः / / 146 / / इतश्च तत्रैव पुरे, बहिरङ्गनरेशितुः। शत्रुमर्दननाम्नाऽभूत, प्रिया मदनकन्दली।।१५०।। साऽऽगत्य तत्र कामोऽयं, शय्यास्थ इति भक्तितः। स्पृशन्ती सर्वगात्रेषु, तं बालकमपूपुजत्॥१५१।।