________________ वयणपज्जाय ८९०-अमिधानराजेन्द्रः - भाग 6 वयणविभत्ति तेषु, सर्वेषामपि वस्तूनामभिलाषवाचकेषु शब्देषु, विशे०। वयणप्पभूय-त्रि०(वचनप्रभूत) वचनैर्नयभेदाः प्रभूता वचनप्रभूताः / अल्पाक्षरेषु, उत्त०१३ अ० वयणभिण्ण-न०(वचनभिन्न) यत्र वचनव्यत्ययो भवति तादृशे सूत्रदोषे, यथा-वृक्षा ऋतौ पुष्पिता इत्यादि। अनु०॥ विशे० आ०म०। वयणमाला-स्वी०(वदनमाला) मुखपुजे, जं०२ वक्षा वचनमाला-स्त्री०। उक्तिसमूहे,"वयणसहस्सेहिं अभिथुणिज्ज-माणे," जं०२ वक्ष। वयणमित्त-न०(वचनमात्र) निर्हेतुके केवलवचने, यथा कश्चिद्यथेचछ्या कश्चित् प्रदेश लोकमध्यतया जनेभ्यः प्ररूपयति / अनु०। विशे०। आ०म०। बृ०॥ वयणरुद्द-त्रि०(वदनरौद्र) वदनेन भीषणे, प्रश्न०३ आश्र० द्वार। वयणविगप्प-पुं०(वचनविकल्प) भाषणभेदे, स्था०७ ठा०३उ०। सत्तविहे वयणविकप्पे पण्णत्ते, तं जहा-अणालावे उल्लावे अणुल्लावे संलावे पलावे विप्पलावे। (सू०-५८४) 'सत्तविहे' त्यादि, सप्तविधो वचनस्य-भाषणस्य विकल्पोभेदो वचनविकल्पः प्रज्ञप्तस्तद्यथा-आङ् ईषदर्थत्वादीषल्लपनमालापो नत्रः कुत्सार्थत्वादशीलेत्यादिवत् कुत्सित आलापोऽनालाप इति, उल्लापःकाका वर्णनम् / “काका वर्णनमुल्लाप' इति वचनात् स एव कुत्सितोऽनुल्लापः क्वचित्पुनरनुलाप इति पाठस्तत्रानुलापः, पौनःपुन्यभाषणम्, "अनुलापो मुहुषि" ति वचनात्, संलापः परस्परभाषणम्, "संलापो भाषणं मिथ' इति वचनात्, "प्रलापो-निरर्थकवचनम्, "प्रलापोऽनर्थकं वच" इति वचनात्, स एव विविधो विप्रलाप इति। एतेषांचवचनविकल्पानां मध्ये केचिद्विकल्या विनेयार्था अपि स्युरिति॥ स्था०७ ठा०३उ०। वयणविभत्ति-स्त्री०(वचनविभक्ति) उच्यते एकत्वद्वित्वबहुत्वलक्षणोऽर्थो यैस्तानि वचनानि, विभज्यते कर्तृत्वादिलक्षणोऽर्थो यया सा विभक्तिर्वचनानां विभक्तिर्वचनविभक्तिः। प्रथमादिषु व्याकरणपरिभाषितेषु प्रत्ययेषु, स्था०। अट्ठविधा वयणविभत्ती पण्णत्ता, तं जहा"णिद्देसे पढमा होइ, बिइया उवदेसणे। तइया करणम्मि कया, चउत्थी संपदावणे // 1 // पंचमीतु अवायाणे,छट्ठी सस्सामिवायण। सत्तमी सन्निहाणत्थे, अट्ठमी आमंतणे भवे // 2 // तत्थ पढमा विमत्ती, निद्देसे सो इमो अहं वत्ती। बितिया उण उवएसे, भण कुण व इमं व तं बत्ती // 3 // तइया करणम्मि कया,णीयं च कयं च तेण व मए वा। हंदि णमो साहाए, हवइचउत्थी पयाणम्मिा अवणे गिण्हसु तत्तो, इओ त्ति वा पंचमी अवादाणे / छट्ठीतस्स इमस्सव, गयस्स वा सामिसंबंधे // 5 // हवइ पुण सत्तमीयं, इयम्मि आधारकालभावे य। आमंतणे भवे अ-ट्ठमी उजह हे३ जुवाण त्ति // 6 // (सू०-६०९) उच्यन्त इति वचनानि-वस्तुवाचीनि विभज्यते प्रकटीक्रियते अर्थोऽनयेति विभक्तिः, वचनानां विभक्तिर्वचनविभक्तिः, नाख्यातविभक्तिरपि तुनाम विभक्तिः, प्रथमादिकेति भावः / साथाष्टविधा तीर्थकरगणधरैः प्रज्ञप्ता, का पुनरियमित्याशङ्कय यस्मिन्नर्थे या विधीयते तत्सहितामष्टविधामपि विभक्तिं दर्शयितुमाह- 'तद्यथे' त्यादि 'निः' इत्यादि श्लोकद्वयं निगदसिद्धम् , नवर–लिङ्गार्थमात्रप्रतिपादनं निर्देशः तत्र सिऔ-जसिति प्रथमा विभक्तिर्भवति। अन्यतरक्रियायाः प्रवर्तनेच्छोत्पादनमुपदेशस्तस्मिन् अम्-औ-शस्-इति द्वितीया विभक्तिर्भवति, उपलक्षणमात्रं चेदम्, कटं करोतीत्यादिषूपदेशमन्तरेणापि द्वितीयाविधानाद, एवमन्य-त्रापि यथासम्भवं वाच्यम्। विवक्षितक्रियासाधकतमं करणं तस्मिँ-स्तृतीया कृता-विहिता।सम्प्रदीयते यस्मै तद्गवादिदानविषयभूतं सम्प्रदानं तस्मिँश्चतुर्थी विहिता / अपादीयते वियुज्यते यस्मात् तद्वियुज्यमानावधिभूतमपादानं तत्र पञ्चमी विहिता, स्वम्आत्मीयं सचित्तादि स्वामी-राजादिः तयोर्वचने तत्सम्बन्धप्रतिपादने षष्ठी विहितेत्यर्थः / संनिधीयते-आधीयते यस्मिँस्तत्सन्निधानम्आधारस्तदेवार्थस्तस्मिन् सप्तमी विहिता। अष्टमी सम्बुद्धिः-आमन्त्रणी भवेद्, आमन्त्रणार्थे विधीयत इत्यर्थः / एवमेवार्थसोदाहरणमाह-'तत्थ पढमे त्यादिगाथाश्चतस्रोगतार्था एव, नवरं प्रथमा विभक्तिर्निर्देशे, क्व? यथेत्याह-'सो' त्ति स तथा 'इमो' त्ति अयं 'अहं' ति अहं वाशब्द उदाहरणान्तरसूचकः। उपदेशे द्वितीया, क्व? यथेत्याह-भण कुरुवा, किं तदित्याह-इद-प्रत्यक्षं तद्वा परोक्षमिति / तृतीया करणे, क्व? यथेत्याह-भणितं वा कृतं वा, केनेत्याह-तेन वा मया वेति, अत्र यद्यापकर्तरि तृतीया प्रतीयते, तथापि विवक्षाधीनत्वात् कारकप्रवृत्तेस्तेन मया वा कृत्वा भणितं कृतं वा, देवदत्तेनेति गम्यत इति, एवं करणविवक्षाऽपि न दुष्यतीति लक्षयामः, तत्त्वं तु बहुश्रुता विदन्तीति / 'हंदि नमो साहाए' इत्यादि, हन्दीत्युपदशने, नमो देवेभ्यः स्वाहा अनये इत्यादिषु सम्प्रदाने चतुर्था भवतीत्येके। अन्ये तूपाध्यायाय गां ददातीत्यादिष्वेव सम्प्रदाने चतुर्थीमिच्छन्ति। अपनय गृहाण एत-स्मादितो वेत्येवमपादाने पञ्चमी। तस्यास्य गतस्य, कस्य?-भृत्यादेरिति गम्यते, इत्येवं स्वस्वामिसम्बन्धे षष्ठी। तद्वस्तुबदरा-दिकमस्मिन कुण्डादौ तिष्ठतीति गम्यते, इत्येवमाधारे सप्तमी भवति / तथा 'कालभावे अ'त्ति कालभावयोश्वयं द्रष्टव्या, तत्र काले यथा-मधौ रमते, भावे तु चारित्रेऽवतिष्ठते। आमन्त्रणे भवेदष्टमी, यथा-हे३युवन्निति, वृद्धवैयाकरणदर्शनेन चेयमष्टमी गम्यते। ऐदंयुगीनानां त्वसौ प्रथमैवेति मन्तव्यमिति। अनु०॥ विशेषं दर्शयतिवचनविभक्तिस्वरूपमाह- 'अट्ठविहा वयणविभत्ती' त्यादि, उच्यते एकत्वद्वित्वबहुत्वलक्षणोऽर्थो यैस्तानि वचनानि,