________________ वय 857- अमिधानराजेन्द्रः - भाग 6 वयछक्क * व्यय पुं०।लब्धस्य प्रणाशे, नि० चू०१ उ०। व्ययं चायोचित्तं कुर्यात्, यतः- "पादमायान्निधिं कुर्यात्, पादं वित्ताय कल्पयेत्। धर्मोपभोगयोः पादं, पादं भर्तव्यपोषणे ||1|| केचित्त्वाहुः- "आयादर्द्ध नियुञ्जीत, धर्मे समधिकं ततः। शेषेण शेषं कुर्वीत, यत्नतस्तुच्छमैहिकम् // 1 // " निर्द्रव्यसद्रव्ययोरयं विभाग इत्येके / ध०२ अधि०। * वाक्य न० वचने, “पच्छा वयमुयाहरे" दश०७ अ०२ उ०। बयंत त्रि० (वदत्) ब्रुवाणे, "वादांश्च प्रतिवादांश्च, वदन्तो निश्चितांस्तथा। तत्वान्तं नैव गच्छन्ति, तिलपीडकवगतौ" ||1|| द्वा०२३ द्वा०। वयंस पुं० (वयस्य) स्वी०।"वक्रादावन्तः" / / 1 / 26 / / इति मध्येऽनुस्वारः। प्रा०मित्रे, आ०म०१ अ०।"पियवयंसो हिरमाणणिजो, "प्रा०२ पाद। "मित्तो सही वयंसो"। पाइ० ना० 100 गाथा। बयंसि (ण) पुं०(वचस्विन्) वचनं सौभाग्याधुपेतं यस्यास्तिस वचस्वी। ज्ञा०१ श्रु०१ अ०नि०। वक्रादित्वादनुस्वारः / वचनसौभाग्योपेते, नि०१ श्रु०१ वर्ग 1 अ०। बयगुत्तत्रि०(वचोगुप्त) वचनगुप्तया गुप्ते, उत्त०१२ अ०। निरूढवाक्प्रसरे, उत्त० पाई०१२ अ०॥ वयगुत्ति स्त्री० (वाग्गुप्ति) "सच्चा तहेव मोसा य, सच्चा मोसा तहेव य। चउत्थी असचमोसा उ, वयगुत्तीचउव्विहा॥१॥ (उत्त० छ०२४ अ०1) इति चतुर्विधे वचोगोपने, नि० चू०१७०। वयग्गाम पुं० (व्रजग्राम) गोकुले, "ततो सामी वयग्गामं गोउलं पत्तो, तत्थ य दिवसं छणो सव्वत्थ परमन्नं उवक्खडियं'' आ० चू०१ अ०। आ०म०। बयछक्क न० (व्रतषट्क) प्राणातिपातादीनां रात्रिभोजनविरतिषष्ठानां व्रतानां षट्के, दश०६ अ०। आव०। दर्श०। अधुना द्वितीयस्थानविधिमाह - अप्पगट्ठा परहा वा, कोहा वा जइ वा भया। हिंसगं न मुसं बूआ, नो वि अन्नं वयावए ||11|| मुसावाओ उलोगम्मि, सय्वसाहूहि गरहिओ। अविस्सासो अभूआणं, तम्हा मोसं विवज्जए॥१२॥ 'अप्पगढ़' त्ति सूत्रम्, आत्मार्थम्-आत्मनिमित्तमग्लान एव ग्लानोऽहं ममानेन कार्यमित्यादि, परार्थं वा-परनिमित्तं वा एवमेव, तथा क्रोधाद्वा त्वं दास इत्यादि, एकग्रहणे तज्जातीय-ग्रहणमिति, मानाद्वा अबहुश्रुत एवाहं बहुतश्रुत इत्यादि, मायातो भिक्षाटनपरिजिहीर्षया पादपीडा ममेत्यादि, लोभाच्छोभनतरान्नलाभे सति प्रान्तस्यैषणीयत्वेऽप्यनेषणीयामिदमित्यादि, यदि वा-भयात्-किञ्चिद्वितथं कृत्वा प्रायश्चित्तभयान्न कृत-मित्यादि, एवं हास्यादिष्वपि वाच्यम्, अतएवाह-- हिंसक-परपीडाकारि सर्वमेव न मृषा ब्रूयात स्वयम्, नाप्यन्यं वादयेत् एकग्रहणे तज्जातीयग्रहणात् अवतोऽप्यन्यान्न समनुजानीयादिति सूत्रार्थः | ||1|| किमित्येतदेवमित्याह- 'मुसावाउ' त्ति सूत्रम्, मृषावादो हि लोके सर्वस्मिन्नेव सर्वसाधुभिः गर्हितो-निन्दितः, सर्वव्रतापकारित्वात् प्रतिज्ञातपालनात्। अविश्वासश्च-अविश्वसनीयश्च भूतानां मृषावादी भवति, यस्मादेवं तस्मान्मृषावादं विवर्जयेदिति सूत्रार्थः / / 12 / उत्को द्वितीयस्थान विधिः। साम्प्रतं तृतीयस्थानविधिमाह - चित्तमंतमचित्तं वा, अप्पं वा जइ वा बहुं / दंतसोहणमित्तं पि-उग्गहंसि अजाइया॥१३॥ तं अप्पणा न गिण्हंति, नोऽवि गिण्हावए परं। अन्नं वा गिण्हमाणं पि, नाणुजाणंति संजया||१४|| 'चित्तमंत' ति सूत्रम्, 'चित्तवद्-द्विपदादि वा अचित्तवद्वाहिरण्यादि, अल्पं वा मूल्यतः प्रमाणतश्च, यदिवा बहुमूल्य-प्रमाणाभ्यामेव, किं बहुना ? दन्तशोधनमात्रमपि तथाविधं तृणादि अवग्रहे यस्य तत्तमयाचित्वा न गृहन्ति साधवः कदाचि-नेति सूत्रार्थः॥१३॥ एतदेवाह-'तं' तिसूत्रं, तत्-चित्तवदादिआत्मनानगृह्णन्ति विरतत्वात्, नापि ग्राहयन्ति परं विरतत्वादेव, तथा अन्यं वा गृह्णन्तमपि स्वयमेव नानुजानन्तिनानुमन्यन्ते संयता इति सूत्रार्थः / / 14|| दशक 6 अ० 2 उ०। (व्रतषट्कमध्यगतो मैथुनविषयः 'मेहुण' शब्देऽस्मिन्नेव भागे 426 पृष्ठे गतः।) प्रतिपादित तृतीयस्थानविधिः। इदानी पञ्चमस्थानविधिमाह -- बिमुन्म इमं लोणं, तिल्लं सप्पिं च फाणिअं। नते संनिहिमिच्छंति, नायपुत्तवओरया / / 17 / / लोहस्सेस अणुप्फासे, मन्ने अन्नयरामवि। जे सिया सन्निहिं कामे, गिही पव्वइएन से // 18 // जं पि वत्थं व पायं वा, कंबलं पायपुंछणं / तं पि संजमलबहा, धारंति परिहरंति अ||१६|| न सो परिग्गहो वुत्तो, नायपुत्तेण ताइणा। मुच्छापरिग्गहो वुत्तो, इअवुत्तं महेसिणा // 20 // सव्वत्थुवहिणा बुद्धा, संरक्षणपरिग्गहे। अवि अप्पणोऽवि देहम्मि, नायरंतिममाइयं // 21 // 'बिड' त्ति सूत्रम्, बिडं-गोमूत्रादिपक्कम्, उद्भेद्यं-सामुद्रादि, यद्वा-बिडंप्रासुकम्, उद्भेद्यम्-अप्रासुकमपि एवं द्विप्रकारं लवणम्।तथा तैलं सर्पिश्च फाणितम्, तत्र तैलं-प्रतीतम्, सर्पितम्, फाणितंद्रवगुडः, एतल्लक्षणाद्येवं प्रकारमन्यचन ते साधवः संनिधिं कुर्वन्ति-पर्युषितं स्थापय-- नित, ज्ञातपुत्रवचोरताः-भगवद्वर्धमानवचसि निः-सङ्गताप्रतिपादनपरैः सत्का इति सूत्रार्थः / / 17 / / संनिधिदोषमाह -- 'लोभस्स' त्ति सूत्रम्, लोभस्य--चारित्रविनकारिणश्चतुर्थकषायस्य 'एस अणुप्फास' त्ति एषोऽनुस्पर्शः- एषोऽनुभावो यदेतत्संनिधिकरणमिति, यतश्चैवमतो मन्ये-मन्यन्ते, प्राकृतशैल्या एकवचनम्, एवमाहुस्तीर्थकरगणधराः अन्यतरामपि स्तोकामपियः स्यात्-यः कदाचित्संनिधिं कामयते-सेवते, गृही-गृहस्थोऽसौ भावतः प्रव्रजितो नेति, दुर्गतिनिमित्तानुष्ठानप्रवृत्तेः, संनिधीयते नरकादिष्वात्माऽनयेतिसंनिधिः। इतिशब्दार्थात् प्रव्रजितस्यच