________________ वमण 886 - अभिधानराजेन्द्रः - भाग 6 वय पञ्च यामो व्रतानिया सपञ्चयामः, "दीर्घहस्वौ मिथोवृत्तावि"ति प्राकृतलक्षणवशाच्चकारस्य दीर्घत्वम्। एवंविधो धर्मः पूर्वस्य चपश्चिमस्य च जिनस्य, मध्यमकानां जिनानां पुनश्चतुर्यामो धर्मो भवति, मैथुनव्रतस्य परिग्रहवत एवान्तर्भावविवक्षणात्। कुत एचमिति चेद् ? उच्यतेपुरिमाण दुव्विसोझे, चरिमाणं दुरणुपालओ कप्पो। मज्झिमगाण जिणाणं, सविसुज्झ सुअणुपालो य॥३२॥ पूर्वेषां साधूनां दुर्विशोध्यः कल्पचरमाणां पश्चिमानां दुरनुपाल्यः, मध्यमकानां तु जिनानां तु तीर्थे साधूनां सुषिशोध्यः सुखानुपाल्यश्च भवति। इयमत्र भावनापूर्वे साधव ऋजु-जडास्ततः परिग्रहद्रत एवान्तभविं विवक्षित्वा यदि मैथुनव्रतं साक्षान्नोपदिश्यते ततस्ते जडतया नेदमबबुध्यते, यथा-मैथुनमपि परिहर्त्तव्यम्, यथा तु पृथक् परिस्फुट मैथुनं प्रतिषिध्यते ततः पर्यवस्यतिपरिहरतिच, पश्चिमस्था वक्रा जडास्ततो मैथुने साक्षादप्रतिषिद्धे परिग्रहान्तस्तदन्तर्भावं जानन्तोऽपि वक्रतया परपरिगृहीतायाः स्त्रियाः प्रतिसेवनां कुर्वीरन्, पृष्टाश्चब्रुवीरन्, नैवास्माकं परिग्रह इति, ततएतेषां पूर्वपश्चिमानंपञ्चयामोधर्मो भगवता ऋषभस्वामिना वर्द्धमानस्वामिना चस्थापितः। ये तुमध्यमाः साधवस्ते ऋजुप्रज्ञास्ततः परिग्रहे प्रतिषिद्धे प्राज्ञत्वेनोपदेशमात्राादप्यशेषहेयोपादेयविशेषात्पुनः पटीयस्तया चिन्तयेयुः, नापरिगृहीता स्त्री परिभुज्यते, अतो मैथुनमपि न वर्तते सेवितुम्, एवं मैथुनपरिग्रहे अन्तर्भाव्य तथैव परिहरन्ति। ततस्तेषां चतुर्यामो धर्मो मध्यमजिनैरुक्त इति। अमुमेवार्थ समर्थयन्नाह - जडुत्तणेण हंदि, आइक्खविभागउवणता दुक्खं / सुहसमुइयदंताण य, तितिक्खअणुसासणा दुक्खं // 325 // सर्वेषांसाधूनां जडतया 'हंदी' त्युपदर्शन, वस्तुतत्वस्याख्यानं दुःखं कृच्छ्रेण महता वचनादौ प्रयासेन कर्तुं शक्यमित्यर्थः / एवमाख्यातेऽपि वस्तुतत्तवे विभागः-पार्थक्येन व्यवस्थापनं महता कष्टन कर्तु शक्यते, विभक्तेऽपि वस्तुतत्वे उपनयो हेतुदृष्टान्तैः प्रतीतावारोपणं कर्तु दुःशकयम्, ते च प्रथमतीर्थकरसाधवः सुखसमुदिताः कालस्य स्निग्धतया शीतोष्णादीनां तथाविधदुःखहेतूनामभावात् / सुखेन सम्पूर्णा--स्ततस्तेत भिक्षापरीषहादेरधिसहनं तेषां दुःखं दुष्करम्। तथा दाता एकान्तेनोपशान्तास्ते ततः क्वचित्प्रमादस्खलितादौ शिष्यमाणानामनुशासनाऽपि कर्तु दुःशका। मिच्छत्तभावियाणं, दुवियट्टगतीण वामसीलाणं / आइक्खिउ विभइउं, उवणाउंवा वि दुक्खं तु // 326 / / दुक्खेहि भनिताणं, तणुधितिअवभत्तओ य दुतिलिक्खं / / एमेव दुरणुसासं, ताणुक्कडओ य चरिमाणं // 327|| ये तु चरमतीर्थकरसाधवस्ते प्रायेण मिथ्यात्वभाविता दुर्विदग्धमतयो वा अशीलाच, ततस्तेषामपि च श्रुतत्वमाख्यातुं दुःखं दुःखतरम्। तथा कालस्य रूक्षतया च दुःखैर्विविधाधिव्याधिप्रभृतिभिः शारीरमानसैर्भसिंतानामत्यन्तमुपतापितानां तनुः शरीरं धृतिः मानसोपष्टभस्त द्विषयाऽबलत्वं बलाभावस्ततः कारणात् दुस्तितिक्षं तेषां परीषहादिक भवति / एवमेव मानस्याहंकारस्योपलक्षणत्वात् क्रोधादेश्चोत्कटतया दुरनुशासं चरमाणां भवति / उत्कटकषायतया दुःखेनानुशासनां ते प्रतिपद्यन्ते इत्यर्थः / अत एषां पूर्वेषां च पञ्चयामो धर्म इति प्रक्रम:एए चेव य दुट्ठा-सुप्पन्नुज्जुत्तणेण मज्झाणं / सुहदुहउभयबलाण य, विमिस्सभावा भवे सुगमा ||328|| एतन्मन्ये ध्याख्यानादीनि स्थानानि मध्यमानां सुगंमानि-सुकराणि भवेयुरिति सम्बन्धः / कुतः ? इत्याह- सुप्राज्ञऋजुत्वेन प्राज्ञतया ऋजुतया चेत्यर्थः, स्वल्पप्रयत्नेनैव प्रज्ञापनीयास्ते, तत आख्यातविभजनोपनयनानिसुकराणि 'सुहिदुहि' ति कालस्य स्निग्धरूक्षतया सुखदुःखे उभे अपि तेषां भवतः / तथा 'उभयबलाणय' त्ति शारीरं मानसिकंवा उभयमपि बलं तेषां भवति। विमिस्समाव' त्ति नैकान्तेनोपशान्ता, न वा उत्कटकषायास्ते ततो विमिअभावात् अनुशासनमपि सुकरमेव तेषां भवति। ततश्चतुर्यामस्तेषां धर्म इति। गतं व्रतद्वारम्।बृ० 6 उ०। प्राणातिपातादिनिवृत्तिलक्षणेषु, आव०१ अ०। पं० भा०। पं० चू० / प्रव० / पञ्चा० / व्रतानियमा इति भागवताः / द्वा०८ द्वा०। "अहिंसा-सत्यमस्तेयं, ब्रह्माऽकिञ्चन्यमेव च। महाव्रतानिषष्ठं च, व्रतं रात्रौ च भोजनम् " ||1|| ध०३ अधि० / महा०। तिविहं तिविहेण समणेहिं, सव्वसावजमुज्झियं / जावञ्जीवं वयं घोरं, पडिवञ्जिय मोक्खसाहणं॥ दुविहेगविहं वा थूलसावजुमुज्झियं / उद्विकालियं तु, वयं देसे ण संवसे / / महा०२ अ०। "वरं प्रवेष्ट ज्वलितं हुताशनं, नचापि भग्रं चिरसञ्चित-व्रतम्। वरं हि मृत्युः परिशुद्धकर्मणां, न शीलवृत्तस्खलितस्य जीवितम् // 1 // " आ० चू०४ अ० बृ०॥ तवसंजमं वएसु य, नियमो दंडनायगो। तमेव खंडमाणस्स, ण वएणोवसंजमे / / 1 / / महा०६ अ०। * वयस न० पुं० "स्नम-दाम-शिरो नभः // 8132 / / इति वा पुंस्त्वम् / देहावस्थाविशेषे, आ० म०१ अ०। तओ वया पण्णत्ता,तं जहा-पढमे वए मज्झिमे वए, पच्छिमे वए। (सू०-१५५) 'तओ वए' इत्यादि स्फुटम्, किन्तु प्राणिनां कालकृतावस्था वय उच्यते, तत् त्रिधा बालामध्यमवृद्धत्वमेदादिति। वय उपलक्षणं चेदम्"आषोडशाद्भवेदालो, यावत् क्षीरान्नवर्तकः / मध्यमः सप्ततिं यावत्, परतो वृद्ध उच्यते॥१॥" इति, शेषं प्राग्वत्। स्था०३ ठा० 3 उ०।०। प्रश्न। तिहिं वएहिं आया केवलिपण्णत्तं धम्मं लभेजा, सवणयाए, तं जहा-पढमे वए मज्झिमे वए, पच्छिमे वए, एसो चेव गमो यव्वो० जाव केवलणाणं ति। (सू०- 155) स्था० 3 ठा० 3 उ०। कुमारयौवनमध्यवृद्धत्वे, आचा०१ श्रु०२ अ०१ उ० / पञ्चा०। आव०। सूत्रा०।ज्ञा०रा०।