________________ वत्थ 866 - अभिधानराजेन्द्रः - भाग 6 वत्थ भवेत्। तस्याच्छादनार्थ भावकृत्स्नं वाद्यं वस्त्र प्रागेव ग्रहीतव्यम। अथवा द्रव्यकृत्स्नं भावकृत्स्नं चेति द्विविधमेवेह कृत्स्नं कथमिति चेदुच्यतेमाणाहियं दसाहिय, दुवे वि निपंडित दय्वकसिणम्मि। तस्सेव य जो वन्नो, मुल्लं व गुणो य तं भावे // 240 / / क्षेत्राकृत्स्ने कालकृत्स्ने च यन्मानाधिकं-यथोत्कप्रमाणाति रिक्तं यच्च दशाधिकं--सदशाकं वस्त्रम्, एते द्वे अपि द्रव्य-कृत्स्ने निपततः, यस्तु तस्यैव वस्त्रस्य वर्णः-कृष्णत्वादिको, यच्च मूल्यमष्टादशरूपकादि, यश्च गुणो मृदुत्यादि, तदेतत्सर्वमपि भावकृत्स्ने अवतरित। (26) न कल्पन्ते अभिन्नानि वस्त्राणिनो कप्पइ निग्गन्थाण वा निग्गंथीण वा अभिन्नाई वत्थाई धारित्तए वा परिहरित्तए वादा नो कल्पन्ते, निर्ग्रन्थानां वा निर्गन्थीनां वा अभिन्नानि अच्छिन्नानि वस्त्राणि धारयितुं वा परिहर्तुं वेति। भाष्यम्अकसिणभिन्नमभिण्णं, व होज मिन्नं तु अकसिणे भइत। / कसिणाकसिणे य तहा, मिन्नममिन्ने य चउभङ्गो // 241 / / यत्पूर्वसूत्रो अकृत्स्नमुक्तं तद्भिन्नमभिन्नं वा स्यात् / अभिन्न-मपि अकृत्स्ने भक्तं विकल्पितम् अकृत्स्नंवा भवतीत्यर्थः / अत एव कृत्स्नाकृत्स्नपदाभ्यां-भिन्नाभिन्नपदाभ्यां चतुर्भङ्गी / गाथायां पुंस्त्वनिर्देशः प्राकृतत्वात्, सा चेयम्-कृत्स्नभिन्नम् 1. कृत्स्नं भिन्नम् 2, अकृत्स्नमभिन्नम् 3, अकृत्स्नं भिन्नम् 4, तत्राद्यभङ्गे कृत्स्नपदेन द्रव्यक्षेत्राद्यविशिष्ट सामान्यतः कृत्स्नं गृहीतमभिन्नपदेन त सकलम्। आह च बृहद्भाष्यकृतदव्वाई अविसिह, कसिणग्गहणेण होइ गहियं तु। गहणेण अमिन्नस्स उ, सगलग्गहणं कयं होइ॥२५२।। एवं द्वितीयभने द्रव्यक्षेत्राकृत्स्रमसकलं गृहीतम, तृतीयभङ्गे तु क्षेत्राकालभावैरकृत्स्नं परं सकलं, चतुर्थभने क्षेत्राादिभिरकृत्स्नमसकलम्। अत्र विधिगतं दिशन्नाह - तम्मि वि सो चेव गमो, उस्सग्गववादतो जजा कसिणो। भिण्णग्गहणं तम्हा, असतीय सयं पि मिंदिजा // 243 / / तस्मिन्नप्यभिन्ने स एवोत्सर्गतः, अपवादतश्चगमः-प्रकारः तथा कृत्स्ने | भणितः / तथाहि-कृत्स्रवद् द्रव्याभिन्नमपि चतुर्दा / तत्रा द्रव्याभिन्नं गणनया प्रमाणतश्चातिरिक्तम्, क्षेत्राभिन्नं यद्यस्मिन् क्षेत्रे महाय॑म्, कालाभिन्नं यद्यस्मिन् काले अर्चितम्, भावाभिन्नं तथैव वर्णयुतं मूल्ययुतं च, यावत्कृत्स्ने आरोपणा सैवाभिन्नेऽपि द्रष्टव्या, परमिदं चतुर्ध्वपि द्रव्यादिषु सकलमेव प्रतिपत्तव्यमायत् एवं तस्माद्भिन्नस्य वस्त्रस्य ग्रहणं कर्त्तव्यम् / अथ भिन्नं न प्राप्यते ततः स्वयमपि भिन्द्यात्, यावताप्रमाणेनातिरिक्तं तावच्छित्वा प्रमाणयुक्तं कुर्यादिति भावः। परः प्राहयति पूर्वसूवोत्क एव गम इहापिसूत्रो वक्तव्यः। ततःपुणरत्तदोस एवं, पिट्ठस्से व पीसणं णिरत्थं तु। कारणमवेक्खति सुत्तं, दुविहपमाणं इमं सुत्ते // 244|| पुनरुत्कदोष एवं प्राप्नोति-एतच पुनर्भणनं पिष्टस्यैव पेषणं निरर्थक परिफल्गुप्रायमेव पश्याम्यहम्, अतो नेदं सूत्रमारम्भणीयमिति भावः। सूरिराह-सूत्रामिदं कारणमपेक्षते। किं पुन-स्तत्कारणमपेक्षते ? इह सूत्र वस्त्राणां द्विविधं प्रमाणम्-गणनालक्षणं प्रमाणप्रमाणम, नियम्यते -कियन्ति किं प्रमाणानि वा तानि ग्रहीतव्यानि इत्येवं निरूप्यत इत्यर्थः / तम्हाउ मिंदियव्वं, केई पण्हेहि अहव तह चेव। लोगंते पाणादी, विराधणा तेसि पडिघाता॥२४ यस्मादभिन्नस्य धारणे पूर्वसूत्रोक्ता दोषाः तस्मात्प्रमाणातिरिक्तं वस्त्र भेत्तव्यं-छेदनीयम्, न तदवस्थं धारयितव्यम्। अथवाऽत्रा केचिन्नोदकाः प्रेरयन्ति-वस्त्रे छिद्यमाने यानि पक्ष्माणयुड्डीयन्ते तैलो कान्तं यावद्भच्छद्भिर्बहूनां प्राणादीनां त्रसप्राणिप्रभृतीनां सूक्ष्मजन्तूनां विराधना भवति, अतो 'तह चेव' त्ति यथालब्धं तथैवाधितिष्ठेत् / एवं वदतां तेषां नोदकानां प्रतिघातो-निराकरणं विधेयमिति पुरातनगाथासमासार्थः / अथैनामेव विवरीषुः परः प्रेर्यमेव प्रपञ्चयन्नाहसद्दो तहिं मुच्छति छेदणावा, घावंति ते दो वि सुजाव लोगो। वत्थस्स देहस्स य जो विकंपो, ततो विहातादि भरिति लोगं // 256|| ओ आर्य! तत्रा वस्त्रे छिद्यमाने शब्दः संमूर्छति / छेदनका वा सुपक्ष्मावयवा उड्डीयन्ते। एते च द्वयेऽपि निर्गता लोकान्तं यावत्प्राप्नुवन्तिा तथा वस्वस्य देहस्यचयो विकम्पश्चलनंततोऽपि विनिर्गतावातादयः प्रसरन्तः सकलमपि लोकमापूरयन्ति। अहिच्छसी जंति न ते उदूरं, संखोमिता ते अवरे वयंति। उड्डअधोयाऽविचउद्दिसिंपि, पूरिति लोगं तु खणेण सव्वं // 257|| अथाचार्य ! त्वमित्थं मन्यसे ते च वस्त्रच्छेदनसमुत्थाः शब्दपक्ष्मवातादिपुद्गला न दूर-लोकान्तं यान्ति तर्हि तैः संक्षोभिताश्चालिताः सन्तोऽपरेव्रजन्ति, एवमपरापरपुद्गलप्रेरिताः पुद्रलाः प्रसरन्तःक्षणेनोलमधस्तिर्यक् वनेष्वपि दिक्षु सर्वमपि लोकमापूर्यन्ते। यत एवमतःविनाय आरंभमिणं सदोस, तम्हा जहा लद्धमचिट्ठिहिज्जा। वुत्तं स एओ खलु जावदेही, __ण होति अंतंतकरी तु ताव // 248|| इममनन्तरोक्तं सर्वलोकपूर्णात्मकमारम्भं सदोषं सूक्ष्म-जीव विराधनया सावद्यं विज्ञाय तस्मात्कारणाद्यथालब्धं वस्त्रम्