SearchBrowseAboutContactDonate
Page Preview
Page 894
Loading...
Download File
Download File
Page Text
________________ वत्थ ८७०-अभिधानराजेन्द्रः - भाग 6 वत्थ - धितिष्ठेत् / न छेदनादिकं कुर्यात्, यत उत्कम् भणितं व्याख्याप्रज्ञप्ती यावदयं देही-जीवः स्वयं संक्रम्य चेष्टावानित्यर्थः तावदसौ कर्मणो भवस्य वा अन्तकारी न भवति। तथा च तदा–लापक:-"जाव णं एस जीवो सयं संकमिय एयइ वेयइ चलइ फंदइ घडइ वज्झइ दीरइ तं तं भावं परिणमइतावणं तस्स जीवस्स अंतेकिरियान भवति अर्थत्थंभणिष्यथ एवं तर्हि भिक्षादिनिमित्तमपि चेष्टा न विधेया इति। नैवम्-यतःजाओ विचिट्ठाइरियाझ्याओ. संपस्सहेतहि विण्णा नदेहो। संचिट्ठए नेवमछिनमाणे वत्थम्मि संजायइ देहनासो // 246 // याश्चापि चेष्टा ईर्यादिकाः संपश्यत ततः तत्करणमीर्या भिक्षा भूम्यादौ गमनम्, आदिशब्दाद्-भोजनशयनादयो गृह्यन्ते एताभिर्विना देहः पौगलिकत्यान्न सन्तिष्ठते-न निर्वहति / देह-मन्तरेण च संयमस्यापि व्यवच्छेदः प्राप्रोति। वस्त्रे पुनरच्छिद्यमाने नैवं देहनाशः संजायते अतोन तच्छेदनीयम्। किंचजहा जहा अप्पतरासें जोगा, तहा तहा अप्पतरो से बंधो। निरुद्धजोगिस्स व जो ण होति, अछिहपोतस्सय अम्बुणोधे // 250 / / यथा यथा से तस्स जीवस्य अल्पतरा योगास्तथा तथा 'से' तस्या- | ल्पतरो बन्धो भवति, यो वा निरुद्धयोगी-शैलेश्यवस्थायां सर्वथां मनोवाक्कायव्यापारविरहितः तस्य कर्मबन्धो न भवति / दृष्टान्तमाहअच्छिद्रपोतस्येव, अम्बुधिना, यथा किलनिश्छद्रप्रवहणं सलिलसंचयसंपूर्णेऽपि जलधौ वर्तमानं स्वल्पमपि जलं नास्रवंति एवं निरुद्धयोग्यापजन्तुकर्मवर्गणा-पुद्गलैरञ्जनचूर्णसमुद्रकवन्निरन्तरमिवैतेऽपि लोके वर्तमानाः स्वल्पीयोऽपि कर्म नोपाददते। अतःकर्मबन्धस्य योगान्यवय-- व्यतिरेकानुविधायितया तत्परिजिहीर्षणा वस्रछेदनादिव्यापारो न विधेयः। इत्थं परेण स्वपक्षे स्थापिते सति सूरिराहआरंभमिट्ठो जति आसवा। गुत्तीय सेआय तधा तु साधु ! मा फंद वारेहि व छिन्नमाणं, पतिण्णहाणी वअणोवघातो॥२५१।। 'आरम्भमिट्ठो' मकारोऽलाक्षणिकः हे नोदक! यथाऽऽरम्भस्तथा- | ऽऽश्रवाय-कर्मोपादानाय इष्टः-अभिप्रेतःगुप्तिश्चतत्परिहाररूपा श्रेयसे- / कर्मानुपादानायाभिप्रेता, तथा च सति हे साधो ! मा स्पन्दं मा वा वस्त्र छिद्यमानं वारय / किमुक्तं भवति-यदि वस्त्रच्छेदनमारम्भतया भवता कर्मबन्धानिबन्धनमप्युपगम्यते, ततो येयं वस्त्रच्छेदप्रतिषेधाय हस्तस्पन्दनादिका चेष्टा क्रिया तया वा तत्प्रतिषेधको ध्वनिरुच्चार्यते ताव-- प्यारम्भतया भवतान कर्तव्यौ, अतोमदुत्कोपदेशादन्यथा-चेत्करोपि ततस्ते प्रतिज्ञाहानिः-स्ववचनविरोधलक्षणं दूषणमापद्यते इत्यर्थः / अथ ब्रवीथाः योऽयं मया वस्त्रच्छेदनप्रतिषेधको ध्वनिरुच्चार्यते स आरम्भप्रतिषेधकत्वात् निर्दोष इति। अत्रोच्यतेअदोसवंते जति एस सहो, अण्णो वि कण्हाण भवे अदोसो। अथिच्छया तुज्झ सदोस एको, एवं सती कस्स भवे न सिद्धी // 252|| यद्येष त्वदीयः शब्दोऽदोषवान् ततोऽन्योऽपि वस्त्रच्छेदनादिसमुत्थः शब्दः कस्माददोषो न भवेत्। तस्याऽपि प्रमाणातिरिक्तपरिभोगविभूषादिदोषपरिहारहेतुत्वात्, अथेच्छया-स्वाभिप्रायेण चैको वस्त्रच्छेदन शब्दः सदोषः अपरस्तु निर्दोषः। एवं सति कस्य तत्स्वपक्षसिद्धिर्भवेत, सर्वस्यापि वा गाढं वच-नमात्रेण भवत इव स्वाऽभिप्रेतार्थसिद्धिर्भवेदिति भावः। ततश्चास्माभिरप्येवं वत्कुंवाशक्यम्।योऽयं वस्त्रच्छेदनसमुत्थः शब्दः स निर्दोषः शब्दत्वात् भवत्परिकल्पितनिर्दोषशब्दवदिति। किंच - तं छिंदओ होप्न सतिं तु दोसो, खोहादितं चेव जतो करेति। जे पीह तो होति दिणे दिणे तु, संपावणंते य णिवुज्झ ते वि॥२५३|| यतस्तदेव वस्त्रं छिद्यमानं पुद्गलानां क्षोभादि करोति, अतस्तद्वस्त्र छिन्दतः सकृदेकवारं दोषो भवति। अच्छिद्यमाने तु वस्त्र प्रमाणातिरिक्त तत्प्रत्युपेक्षमाणस्य ये भूमिलोलनादयः अप्रत्युपेक्षणादोषारते दिने दिने भवन्ति। येचतद्वस्वसंप्रावृत्ते विभूषादयो बहवोदोषास्तानपि। विबुध्यस्व अक्षिणी निमील्य सम्यक् निरूपयेति भावः / आह-यदि वस्त्रछेदेन युष्मन्मतेनापि सकृद्दोषः संभवति, ततः परिहियतामसौ गृहस्थैः स्वयोगेनैताद्भिन्नं वस्त्रम्, तदेव गृह्यताम्। उच्यतेघेतव्वगं भिन्नमहिच्छितं ते, जा मग्गतो हाणिसुतादिताव / अप्पेस दोसो गुणभूतिजुत्तो, पमाणमेवं तु जतो करेंति // 25 // अथ ते तवेष्ट मतम् / यथा-चिरमपि गवेष्य भिन्नं ग्रहीतव्यम्, तत उच्यते-यावभिन्नं वस्त्र मार्गयति तावत्तस्य सूत्रादौ सूत्रमार्थपौरुष्यादौ हानिर्भवति। अपि च य एष वस्त्रच्छेदनलक्षणो दोषः स प्रत्युपेक्षणाशुद्धिविभूषापरिहारप्रभृतीनां गुणानां भूत्या-संपदा युक्तो बहुगुणकलित इति भावः। कुत इत्याह-यतः प्रमाणमेव वस्त्रस्य तदानीं साधवः कुर्वन्ति, न पुनस्तत्राधिकं किमपि सूत्रार्थव्याघातादिकं दूषणमस्तीति। अथ जाया विविधा 'इरियाझ्या उ' इत्यादि परोक्तं परिहरन्नाह - आहारणीहारविहीसु जोगो,
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy