________________ वत्थ 868 - अभिधानराजेन्द्रः - भाग 6 वत्थ दिदेशमाश्रित्य यत्र तद्दीर्घदशाकं वस्त्रं तन्न छिन्द्यात्। तस्य दशिका न कर्तयितव्या इति भावः। अथग्लानद्वारं व्याचष्टेअसंफुरगिलाणऽहा, तेण माणाधियं सिया। सदसं वेज्जकजे वा, विसकुंभट्ठयानि वा // 230|| असंस्फुरो नाम–लानो यः क्षीणबलतया संकुचितपादः स्वप्तुं न शक्रति, तस्य प्रमाणयुतं वस्त्रं प्राव्रियमाणं कसति, एतदर्थ मानाधिकमपिप्रमाणातिरिक्तमपि वस्त्रं स्यात्। यद्वाग्लानचिकित्सको यो वैद्यस्तकार्येतस्य दानार्थम् / अथवा-दीर्घजातीयेन कश्चिद्दष्टो भवति, ततस्तस्य विद्याकार्ये विद्यायां प्रयुज्यमानायाम् अपमार्जनाय सदशवस्त्रमपजायते। विषकुम्भः-स्फाटिकाविशेषस्तस्यापमार्जनाय सदशवस्त्रं ग्रहीतव्यम्। अथ यावदवग्रहद्वारमाहअविभत्ताण छिमंति, लाभो छिचिजमा खलु। पारदोचाववादस्स, पडिपक्खो व होल उ॥२३१।। आचार्याः कुलादिकार्येषु निर्गतास्ततो यावदद्यापि तैः प्र-तिनिवृत्य वस्त्राणि न विभक्तानि तावत्तानि प्रमाणातिरिक्तान्यपि न छिद्यन्ते, मा खलु लाभः छिद्येत-मा भूयो वस्त्रलाभव्यवच्छेदो भवेदिति भावः। तथा न'पारदुचा' इत्यादिना स्थूणादौ विषये यत्कृत्स्नेवस्त्राणां प्रावरणमनुज्ञातमेष 'पारदोचापवादो' भण्यते / यत्तु तेषां कृत्स्ववस्त्राणां दशाः परिभोगातिरिक्तादि-दोषपरिहारार्थ छेत्तव्या इत्युक्तम् एष तस्यपारदोचापवादस्य प्रतिपक्ष उच्यते / स चात्र यावदवग्रहद्वारे भवेत्। अविभक्तनामपि तेषां वस्त्राणां दशिका छेत्तव्या इति भावः। अथवा यत्रअववादाववादोवा, एत्थ जुबइ कारणे। सच्छाणं वा समन्भेति, अच्छिचं जं उदाहरं / / 23 / / अपवादापवादो वा अत्र कारणे युज्यते / किमुक्तं भवति-स्थूणाविषयादिप्रतीत्य यत्कृत्स्त्रं वस्त्रं न कल्पते, एवं तावदपवादः / यचु तत्र दशिका छेतव्या इत्युक्तम्, एष भूयोऽपितत्रा-पवादे उत्सर्गो मन्तव्यः। अयमप्यापाद्यते यदा तत्पान्तेिषु दशिकाभिर्बद्धेषु दृढं भविष्यतीति मत्वा, सिन्धुविषये वा नाति-दीर्घदशाकस्य वस्त्रस्य यद्दशा अपि न छिद्यन्ते, एतेनापवादने य उत्सर्गः सोऽपि अपवादापवाद उच्यते, सोऽप्यत्र घटते। एवं चस्वस्थानंवा कृत्रत्वमेव तद्वस्त्रमभ्येति-प्राप्रोति यद-च्छेद्यमच्छेदनीयमुदाहतमुक्तम् / इयमत्र भावना-प्रमाणातिरिक्तं दशिकाश्च यस्य न छिद्यन्ते तत्कृत्स्रमेव ज्ञातव्यं नाकृत्स्रमिति / गतं द्रव्यकृत्प्रे द्वितीयपदम्। अथ भावकृत्ने द्वितीयपदमाहदेसीगिलाणजावो-गहो उ भावम्मि होति बितियपदं। तम्माविते य तत्तो, ओमादि उपग्गहहावा।।२३३।। देशीग्लानं यावदवग्रहविषयं भावविषयं भावकृत्ये द्वितीय-यपदं भवति / ततस्तदनन्तरं तैविकृत्ौहवासे भावित-स्तद्भावितस्ताद्विषयं द्वितीयपदम्। सोऽपि भावकृत्सानि परिभुङक्ते इत्यर्थः / अवमौदर्यादिषु वा गच्छस्योपग्रहणार्थ तानि धारयेदिति संग्रहगाथासमासार्थः / अथैनामेव विवृणोतिदेसीगिलाण जावो-गहो उ दव्वकसिणम्मिजं वुत्तं / तह चेव होति भावे, तं पुण सदसं व अदसंव।।२३४|| देशीग्लानं यावदवग्रहद्वारेषु यदेव द्रव्यकृत्सं द्वितीयपदमुक्तं तदेव भावकृत्स्रेऽपि वर्णादो बहुमूल्ये वा वस्त्रे मन्तव्यम् / नवरं न पुनः सदशमदर्श वा भवेत, उभयमप्यपवादपदेन ग्राह्यमिति भावः। अथ क्षेत्राकृत्समपवदतिनेपालतामलित्तीय, सिन्धुसोवीरमादिसु। सवलोकोवमोबाई, धरिज कसिणाइ वि॥२३५।। नेपालविषये तामलिप्त्यां सिन्धुसौवीरादिषु च विषयेषु सर्वलोकोपभोज्यानि कृत्लान्यपि च वस्त्राणि धारयेत्। कुत इत्याह-- आइन्नता ण चोरादी, भयं व य गारवो। उज्झाइवत्थवं चेव, सिंधुमादिसु गरहितो॥२३६|| नेपालादौ देशे सर्वलोकेनापि तागवस्त्राणामाचीपर्णता नच तत्र चौरादिभयम्, नैव च गौरवमहो अहमीद्रशानि वस्त्राणि प्रावृणोमीत्येवं लक्षणमपि 'उज्झाइवत्थवं' विरूपं यद्वस्त्रं तद्वान् सिन्धुसौवीरकादिषु गर्हितो भवति। अतस्ता कृत्सान्यपि परिभोक्तव्यानि। अथ कालकृत्समपवदति-- नीलकम्बलमादित्तु, उण्णिय होति अचियं / सिसिरे तं पिधारेज्झा, सीतंजण्णेण रुज्झति॥२३७।। नीलकम्बलादिकमौर्णिणकं महाराष्ट्रविषये अर्चितं महार्वे भवति, तदपि तत्र प्राप्तः शिशिरे-शीतले धारयेत् / प्रावृणुयादित्यर्थः / शीतं यतो नान्येन वस्त्रेण निरुध्यते। अथ तद्भावितपदं व्याख्यातिनलमइ खरेहि निहें, अरतिं च करेंति से दिवसतो वि। उज्झाइयं वमन्नति, सूलेहिं अभावितो जाव // 238|| खरैः-स्थूलतया कठिनस्पर्शश्चीवरैराजादिः प्रव्रजितः कश्चिन्निद्रांन लभते, तानि च तस्य दिवसतोऽप्यरतिं कुर्वन्ति उज्झाइयं वा जुगुप्सां मन्यते तैस्ततः स्थूलैर्यावदद्याप्यभावितस्ताक्त्तस्य भावकृत्सवस्त्रमनुज्ञातम्। अवमादिषु गच्छस्योपग्रहार्थमिति भावयतिओमासिवदुहेसुं, सीमढेऊण तं असंथरणे। गच्छो नित्थारिणति, जाव पुणो होति संथरणं / / 236 // अवमौदर्याशिवराजद्विष्टषु भक्तपानाहारे गच्छस्यासंस्तरणं भवेत्ततः शतसहस्रमूल्यं वस्त्र ‘सीमठेऊणं' ति चूर्णिणकार वचनात्, विक्रीय गच्छो निस्तार्यते, यावत्पुनरपि संस्तरणं भवति। विशेषचूण्णी तु'सीमढेऊण' इत्यस्य स्थाने 'ओवक्कमट्ठाव' ति पाठसूत्रोपक्रमः / कालगगनं तदर्थम्, किमुक्तं भवति-कस्यापि साधोरतर्कितं कालगमनं