________________ वत्थ 867 - अभिधानराजेन्द्रः - भाग 6 वत्थ प्रकारान्तरेण भावकृत्स्नमुपदर्शयतिअहवा रागसहगतो, वत्थं धारेति दोससहितो वा। एवं तु भावकसिणं, तिविहं परिणामणिप्फण्णं // 223 / अथवा-अहो रमणीयं वस्त्रमित्येवं रागसहगतो, यद्वाअहो मे मलिनंकुथितं वस्त्रमित्येवं द्वेषसहितो यद्वस्त्र धारयति / तदेतद्भवकृत्स्नं मन्तव्यम् / इदं च परिणामनिष्पन्नं त्रिविधम, तद्यथा-जघन्येन रागद्वेषपरिणामेन जघन्यम, मध्यमेन मध्य-ममुत्कृष्टनोत्कृष्टम्। अथ द्रव्यादिकृत्स्नेषु दोषानाहभारो भय परियावण, मारण अहिगरण दव्वकसिणम्मि। पडिलेहणाएँ लोवो, मणसंतावो उवायाणं // 224|| प्रमाणातिरिक्तं वस्त्रं वहत आत्मन एव भारो भवति, अध्व-प्रपन्नानां सकलकृत्स्नादौ स्तेनेभ्यो भयं भवेत्, ते च साधूनां बन्धनादिरूपं परितापनं मारणं वा कृत्वा तादृशं वस्वमपहरेयुः / अविरतकैश्च गृहीते अधिकरणं भवेत् / एते द्रव्यकृत्स्ने गृह्यमाणे दोषास्तथा क्षेत्रकालकृत्स्नोपधिं मा सागारिकोऽद्राक्षीदिति कृत्वा यदि न प्रत्युपेक्षन्ते तत उपधिनिष्पन्नं तीर्थकृता चाज्ञाया लोपः कृतो भवति / अथ प्रत्युपेक्षन्ते ततस्ते तादृशं वस्त्रं दृष्ट्वा हरेयुः / पन्थानं वा बद्धवा तिष्ठेयुः / हृते च महान्मनः संतापो भवति। यद्वा-तत्कृत्स्नवस्त्रं शैक्षस्योत्प्रव्रजितुकाम-- स्योपादानं भवति तदपहृत्योत्प्रव्रजेदित्यर्थः / गहणं च गोमिएहिं, परितावणधोवकम्मबंधो य। अन्ने वि तत्थ रुंभइ, तेण कते वा अहव अन्ने // 22 // कृत्स्नवस्त्रनिमित्तं गौल्मिकैः शुल्कपालग्रहणं प्राप्नुवन्ति कुतोंडमीषामीदृशानि वस्त्राणि, नूनं कस्यापि गृहादपहृतानीति कृत्वा ते च गृहीत्वा बन्धनादिभिः परितापनां कुर्वन्ति। तत-स्तानि वस्त्राण्यपहृत्य प्रावृणवन्ति / मलिनीभूतानि च तानि धावन्ति / तत्र कर्मबन्धसद्भावो यावत्तस्मात् स्थानान् न प्रतिक्रामति / यद्वा-'परितावणधोवकम्मबंधो य' त्ति प्रमाणा-तिरिक्तवस्त्राणि धावनकाले महता प्रयासेन धाव्यन्ते तत्र परितापनादयो दोषाः प्राभृतेन च पानकेन च वस्त्रधावनेऽनुपदेशः कोऽपि तया कर्मबन्धो भवति / तथा गौल्मिका अन्यान् वा साधून निरुन्धन्ति, सर्वेषामपि ईदृशानिवस्त्राणि सन्तीति कृत्वा त एव गौल्मिका अपरमार्गेण गत्वा स्तेनका भवन्ति / अथवा तैः प्रेरिताः सन्तोऽन्ये अपहरन्ति। भावकसिणम्मि दोसा, ते चेव नवरि तेणदिलुतो। देसीगिलाण जावो-गहो उदव्वम्मि बितियपयं // 226 / / भावकृत्स्नेऽपि वर्णयुतमूल्यलक्षणे त एव भारभयपरितापनादयो दोषाः, नवरं केवलमत्रा स्तेनदृष्टान्तो भवति, स चानन्तरमेव वक्ष्यते। कारणे तु प्राप्ते कृत्स्नमपि गृह्णीयात् / कथमित्याह 'देसी'-इत्यादि। देशविशेष ग्लानं वा प्रतीत्य सकलकृत्स्नं प्रमाणकृत्स्नं वा गृह्णीयात् / आचार्या वा कुलादिकार्येषु निर्गतास्ततो जावोग्णहो' ति यावत्तेषां समीपे वस्त्रस्याग्रहो नानुज्ञापितः तावत्तस्य दशिका न छिद्यन्ते / इत्येवमा द्रव्यकृत्स्ने द्वितीयपदं मन्तव्यमिति संग्रहगाथा-सभासार्थः / अथैनामेव विवरीषुः स्तेनदृष्टान्तमाहउवसामिओ नरिंदो, कंबलरयणेहिं छंदए गच्छं। णिबंधे एगगहणं, णिववयणे पाउतो णेति / / 227 / / णीलोगो य णिसिज्ज, रत्तिं तेणागमो गुरुग्गहणं। दंसणमपत्ति पत्ति, सिव्वावणवायरो से णं // 228|| "एगेणं आयरिएणं धम्मकहालद्धिसंपत्तेणं राया उवसामिश्रो।से सव्यं गच्छं कंबलरयणेहिं पडिलाभिउं, उवट्टिओ। आय-रिएहिं निसिद्धो, न वट्टइ एयारिसं मुल्लकसिणं गिहिउं ति / तहा वि अतिनिबंधेण एग गहियं / राया भणइ-पाउया हट्ट-मग्गेणं गच्छ तहा कयं। तेणगेण दिहा। तेहिं वसहिं आगंतुं सेजाओ कयाओ। सो तेणओ रत्तिं आगंतुं आयरियाणं उवरि छुरियं कड्डिऊण भणइ-देहि मे तं वत्थं अन्नहा मारिस्सामि। ते भणन्ति-इमाणि खण्डाणि अस्थि, सो भणइ-सीवित्ता मे देह अन्नहा ओवदविस्सामि / तेहिं सीवित्ता दिन्नं / " अथ गाथादयस्याक्षरार्थः-- केनचिदाचार्येणोपशामितो नरेन्द्रः / कम्बलररत्नैर्गच्छं छन्दयतिनिमन्त्रयते। तत आचार्या महति निर्बन्धे एकस्य कम्बलवस्त्रस्य ग्रहणं कृत्वा नृपवचनात्तेन प्रावृत्तो निर्गच्छति। ततस्तेन 'नीलोको'-अवलोकन कृत्वा आचार्यश्च वसतिमागम्य कम्बलरत्नेन निषद्या कृता / रात्रौ स्तेनस्यागमः / गुरोश्च तेन छुरिकामाकृप्य ग्रहणं कृत्वा भणितम् प्रयच्छत मम तत्कम्बलरत्नम्, सूरिभिरुत्कम् खण्डितं तदस्माभिः / स प्राहदर्शय / ततस्तत्राप्रत्ययविप्रत्ययमकुर्वाणे खण्डानां दर्शनम् / रोषाच तेन भूयः सीवनं कारयित्वा कम्बलरत्नंगृहीतम्, यत एवमादयः कृत्स्ने दोषाः अतो द्रव्यतः स्थूलमदशाकं यथोक्तप्रमाणोपेतम्, क्षेत्रतः कालतश्च सर्वजनभोग्यं भावतो वर्णहीनमल्पमूल्यं च वस्त्रं ग्रहीतव्यम्। अथ द्वितीयपदं विभावयिषुः संग्रहगाथोक्तं देशीपदं व्याख्यानयतिपरे न दोचा गरिहा बलो य, थूणाइएसं विहरिज एवं। भोगातिरित्तारमडाविभूसा,कप्पियामिछवदसा उतत्था२२९॥ "परेदोच' त्ति चौरभयं तद्या नास्ति यत्रा च तथाविधे वस्त्रे प्राब्रियमाणे लोके गर्दा नोपजायते। तत्रा स्थूणादिविषयेष्वेवं कृत्स्नमपि वस्त्रं प्रावृत्य विहरेत् / परं तस्य दशाः छेत्तव्याः-न इत्याह- 'भोग' त्ति तासां दशानां सुषिरतया परिभोगः कर्तुं न कल्पते। अतिरिक्तश्चोपधिर्भवति प्रत्युपेक्षमाणे च दशिकाभिरारभटा दोषा विभूषा च सदशाके वस्त्रे प्राब्रियमाणे भवति इत्येवमेभिः कारणैस्ता वस्त्रे दशाः कल्पयेत्-छिन्द्यात्। कारणतो ने छिन्द्यादपीवि दर्शयतिपासंगतेसु बढेसुं, दढं होहि ति तेण तु / णातिदिग्धदसं वा वि, णतं छिंदिज देसओ // 230|| किं चिद्वस्त्र प्रथमत एव दुर्बलं ततः पाश्वन्तेिषु दशिकाभिर्बद्धेषु दृढं चिरकालवहनकृतं भविष्यतीति कृत्वा तेन कारणेन दशिकास्तस्य न कल्पयते / यद्वा-देशतः सिन्ध्वा