________________ मज्झमबुद्धि 65 - अभिधानराजेन्द्रः - भाग 6 मज्झमबुद्धि ततः प्रभृति जज्ञेऽसौ, त्रुट्यत्प्रेमा ममोपरि। ललनातूलिकात्यागी, सुदुस्तपतपोरतः / / 7 / / अङ्गीकृतबहुक्लेशः, केशलुञ्चनलालसः। मूकाष्ठशय्याशयनः, प्रान्तरूक्षाशनो भृशम्।।८। युग्मम्। स्फूर्जदूर्जस्वलध्यानो, ज्ञानोत्साहितभावनः। मा मुक्त्वा मदगम्यायां, स ययौ निर्वृतौ पुरि।।६।। ततो मित्रवियुक्तेन, मयेदं भोश्चिकीर्षितम्। श्रुत्वेति तद् दृढप्रेमा, प्रीतो बालोऽभ्यधादिति।।१०।। मित्रवात्सल्ययुक्तानां, दृढसौहार्दशालिनाम्। परोपकारशीलान, युक्तमेतद्भवादृशाम्॥११॥ यतःमित्रस्य विरहे स्थातुं, क्षणमप्युचितंन हि। मनस्विनामितीवाशु, दिवसेनास्ति मीयते॥१२॥ अहो ते मित्र ! वात्सल्य-महो ते स्थिररागिता। अहो तव कृतज्ञत्व-महोते साहसं दृढम्॥१३॥ भवजन्तोःपुनरहो, क्षणरक्तविरक्तता। अहो हृदयकाठिन्य-महो मौढ्यमनुत्तरम्॥१४|| तथापि धीर! धीरत्वं, कृत्वा हित्वा तथा शुचम्। स्वास्थ्यं धेहि मुदं देहि, मम मित्रं भवाऽधुना।।१५।। स्पर्शनोऽप्याख्यदित्यस्तु, भवजन्तुरिवासि मे। ततस्तेन व्यधान्मैत्री , बालः प्रीतान्तराऽऽत्मना।।१६।। सदागमत्याजितत्वा-नून नैष शुभाऽऽशयः। मनीषिणेति विदधे, बहिर्वृत्त्या त्वसौ सखा / / 17 / / तौ तं वृत्तान्तमाख्याता, मातापित्रोर्यथास्थितम्। ततो राजाऽभवद् भूरि-हर्षद्रुमविहङ्गमः।।१८।। उवाचाऽकुशला हृष्टा, साधु साध्वसि पुत्रक!। यत्त्वया सर्वसौख्यानां, खनिरेष सखा कृतः॥१६॥ अथ युग्मम् - टुषार इव पद्मस्य, स्वर्भानुरिव शीतगोः। स्पर्शनोऽयं सखा सौख्य-कारणं मे सुतस्य न॥२०|| एवं विषादविवशाऽचिन्तयच्छुभसुन्दरी। किंतु नाचीकथत्किञ्चिद, गाम्भीर्यात्स्यसुतं प्रति॥२१।। स्पर्शनमूलशुद्ध्यर्थ, परेद्यवि मनीषिणा। आहूय रहसि प्रोक्तो, बोधो नामाङ्गरक्षकः॥२२॥ भद्रास्य मूलशुद्धिं मे, शीघ्रं ज्ञात्वा निवेदय। यदाज्ञापयति स्वामी-त्युक्त्वाऽसौ निरगात्ततः॥२३॥ तेनाऽऽत्मीयः प्रभावाऽऽख्यः, प्रैषि प्रणिधिपूरुषः। प्रस्तुतार्थाय सोऽन्येधु-र्यात्वाऽगाद्बोधसन्निधौ // 24 // ततः कृता वनामोऽसौ, बोधेनाप्रच्छिसादरम्। प्रभाव! कथयाऽऽत्मीयं, वृत्तान्तं सोऽप्यथाऽऽख्यत॥२५॥ इतस्तदा हि निर्गत्य, बाह्यदेशेषु वंभ्रमम्। भयान चाऽपि गन्धोऽपि, प्रस्तुतार्थस्य तेष्वथ।।२६।। आगामाऽन्तरदेशेषु, तत्र चापश्यमुल्ल्व णम्। पुरं राजसचित्ताऽऽख्यं, समन्तात् तमसाऽन्वितम्॥२७॥ पुरे तस्मिन्नहं यावत्, प्राप्तो राजकुलाऽन्तिकम्। तावदुल्लसितोऽकाण्ड, एव कोलाहलध्वनिः।।२।। अथ त्रिभिर्विशेषकम्ब्रह्माण्डभाण्डसंव्यापि, स्फूर्जद्घणघणारवाः। स्वौल्याऽऽदिभूपाधिष्ठाना, मिथ्यामानाऽऽदयो रथाः॥२६।। गर्जितर्जितजीमूताः, ममत्वाद्या मतङ्गजाः। हेषाऽऽपूरितदिकचक्राः, अज्ञानाऽद्यास्तुरङ्गमाः।।३०।। अन्ये करणसङ्घट्ट-प्रौढनियूंढसाहसाः। चेलहीतनानास्त्रा-श्चापलाऽऽद्याः पदातयः / / 31 / / प्रासर्पदर्पकन्दर्प-पटहोद्धोषणा क्षणात्। प्राचलीदचलस्थामा, परमप्यमितं बलम्।।३।। पृष्टो मयाऽथ विषया-ऽभिलाषस्यैव पूरुषः / विपाकाऽऽख्यः समाचख्यौ, राज्ञः प्रस्थानकारणम्॥३३॥ भो भद्राऽत्राऽस्ति वैरिभ-कुम्भनिर्भदकेसरी। मुख्यश्चरटचक्रस्य, नरेन्द्रो रागकेसरी॥३४॥ तस्याऽस्ति मन्त्री विषयाऽभिलाषो नाम विश्रुतः। चण्डमार्तण्डवत् प्रौढः, प्रतापाऽऽक्रान्तविष्टपः // 35 // रागकेसरदेवेन, समन्त्रीशोऽन्यदामुदा। जगदे जगदेतन्मे, वश्यं कुरु विशारद ! // 36 // ओमित्युक्त्वा महामन्त्री, विश्ववश्यत्वहेतवे। स्पर्शनाऽऽदीनि पञ्चस्वमानुषाणि समाऽऽदिशत्॥३७।। मन्त्रिणोचेऽन्यदा देव ! देवशासनतो मया। स्वमानुषाणि प्रेष्यन्त, जगत्साधनहेतवे॥३८|| तैः साधितं जगत्प्रायो,ग्राहितं देवशासनम्। केवलं श्रूयते कश्चित्सस्यानामीतिसवत्॥३६॥ तेषामुपद्रवकरः, स्फुटोद्भटपराक्रमः। सन्तोषनामा चरटः, कूटः कपटपाटवः।।४।। भूयो भूयः पराभूय, तानि तेन कियान जनः। देवभुक्केबहिः स्थायां, प्रक्षिप्तो निर्वृतौ पुरि।।४१।। तन्मन्त्रिवचनं श्रुत्वा, कोपाऽऽटोपारुणेक्षणः। तस्योपरि स्वयं देवः, प्रतस्थे रणकर्मणे॥४२॥ इतश्चास्मारि देवेन, तातपादाभिवन्दनम्। तरड़ेणेव पाथोधेर्ववले च क्षणात्ततः॥४३।। विपाकोऽथ मया नाथ!, सम्भ्रमोभ्रान्तचक्षुषा। पृष्टः कोऽस्य नरेन्द्रस्य, पितेति मम कथ्यताम्॥४४।। ईद्विहस्स सप्रोचे, ननु मोहो महानृपः। त्रिलोकीख्यातमहिमा, दध्यौ वृद्धोऽन्यदेति सः॥४५।। पार्श्वस्थितोऽपि वीर्येण, क्षमोऽहं रक्षितुं जगत्। तेनाधुना प्रयच्छामि, साम्राज्यं निजसूनवे॥४६|| राज्यं देवाय दत्त्वाऽथ, शेते मोहो निराकुलः। तथाऽपीदं जगत्तस्य, प्रभावेणैव वर्त्तते॥४७॥ तदेष मोहराजस्ते, कथं प्रष्टव्यतां गतः। व्याहारि हारिवचनं, ततस्तं प्रत्यदो मया॥४८|| भवता भद्र ! पापोऽहं, साधु साधु प्रबोधितः। परं निवेद्यतामग्रे, किमभूत्सोऽप्यथावदत्॥४६॥ गत्वा सारपरीवार-युक्तो देवः पितुः क्रमौ। ननामैनं च वृत्तान्तं, मूलतोऽपिव्यजिज्ञपत्॥५०॥ मोहोऽवोचत हे वत्स! यन्मदङ्गस्य बाध्यते। पामाव्याप्तमयस्येव, तत्सारं किल सम्प्रति॥५१।। तत्त्वं तिष्ठ निजं राज्यं, सुचिरं प्रतिपालय। सन्तोषशत्रुघातार्थ-महं यास्यामि सङ्गरे।।५२।। देवः श्रुती पिधायाऽऽख्यः-दाः ! शान्तं पातकं ह्यादः। अनन्तकालसंस्थायि, तानीयं भवताद्वषुः / / 53||