________________ वत्थ 860- अमिधानराजेन्द्रः - भाग 6 वत्थ गिकवस्त्रप्रदानेन कश्चित्कार्मणं कुर्यात्, स्त्री च प्रायेण तुच्छा भवति, तुच्छत्वेन च गौरवं लब्धिमाहात्म्यं न सहते। ततश्च भण्डनं कलहोऽस्थानस्थापनं च भवतीति संग्रहगाथासमासार्थः। अथैनामेव विवरीषुराह -- इत्थी वि ताव देंती, संकिजइ किं ण केणऽवि पउत्ता। किं पुण पुरिसोदेतो, परिजुण्णाई पि जुण्णाए // 467 // स्त्री-अविरतिका साऽपि वस्त्र संयत्याः प्रयच्छन्तीशङ्कयते, किं केनापि प्रयुत्का सती प्रयच्छति उत स्वयमेव धर्मार्थमिति, किं पुनः पुरुषः परिजीर्णान्यपि वस्त्राणि जीर्णाया अपि आर्यि कायाः प्रयच्छन्ससुतरां शङ्कयत इति भावः। तत्रा शङ्कायां चतुर्गुरु, चतुर्थार्थमेवेति निःशङ्किते मूलम्, एवं मिथ्यात्वं शङ्कादयश्च दोषा भवेयुः। विराधना चसंयमात्मविषया अभ्यूह्य वक्तव्या। (26) लोभद्वारमभियोगद्वारं चाहणामिजइ थोवेणं, जचसुवण्णं च सारणी वावि। अभियोगिययवत्थेणं, कडिजइ पट्टए जातं // 468|| यथा जात्यं सुवर्ण सारणी वा कुल्या स्तोकेनापि प्रत्यनेन नाम्यते तथा संयत्यपि स्तोकेनापि वस्वादिप्रदानेन मान्यते।यद्वा-तद्वस्त्रं केनापि विद्यामन्त्रादिबलेनाभियोगिकं वशीकरणकर्म कृतमस्ति, ततस्तेन स आकृष्यते येन कार्मणं कृतं तदभिमुखं नीयते / पट्टकेन वाऽा जातंदृष्टान्तो भवति, सच यथा प्रथमोद्देशके। अथ गौरवादिद्वारद्वयं युगपदाहवत्थेहि वचमाणी, दाएंती बावि उयह वत्थे में। मच्छरियाओ बेंती, घिरत्थु वत्थाण तो तुझं // 466 / / हिंडयमाणसछंदा, णेव सयं गेण्हिमो ण पभवामो। ण य जं जणो वियाणति, कम्मं जाणामों तं काउं॥४७०|| काचिदार्यिका तुच्छतया गौरवमसहिष्णुर्वस्त्रेभ्यो व्रजन्ती आत्मानं ख्यापयति-अहमीद्दशानि ईदृशानि वस्त्राणि गृहीत्वा समागमिष्यामि। यद्वा-स्वयमानीतानि वस्वाणि दर्शयन्तीब्रूयात्, 'उयह पश्यत मदीयानि वस्त्राणि इति। तत इतराः संयत्यो मत्सरिता ब्रुवते। धिगस्तु भवदीवानि वस्त्राणि भवन्ती च यदेवमात्मानं कथयसि।अपिच-यथा यूयं स्वच्छन्दाः पर्यटथ, नतथा वयं हिण्डामः। नैवचस्वयं गृह्णीमः। नचात्मानंप्रभवामःप्रकर्षण श्लाघामहे / न च यत् कुण्डलादिकं कर्म कर्तुं युष्मादृशो जनो जानाति तद्वयं कर्तु जानीमः। जम्हा य एवमादी, दोसा तेसिं तु गिण्हमाणीणं / तम्हातासि णिसिद्धं, वत्थग्गहणं अणीसाए।।४७१॥ यस्मादेवमादयो दोषास्तासां गृह्णतीनां भवन्ति, तस्मात्ता-सामनिश्रया वस्त्रग्रहणं निषिद्धम्। परः प्राऽऽहसुत्तं निरत्थगं खलु कारणियं तं च कारणमिणं तु / असती पाउग्गे वा, मन्नक्खोवाइ जतणाए / / 472 / / यदि संयतीनामनिश्रया वस्त्रग्रहणं न कल्पते / ततः सूत्र निरर्थक प्रायोति / सूरिराह -- कारणिकं सूत्रम्, तच कारणमिदम्-न सन्ति संयतीनां वस्त्राणि, सन्ति वा परं न प्रायोग्याणि / 'मन्नक्खो वा' - महादौर्मनस्यं संज्ञातकादीनां संयतीभिर्वस्त्रे अगृह्यमाण भवति। तोयं यतना। तामेवाभिधित्सुराह - तरुणीय पव्वमाणी, नियएहि णिमंतणा य वत्थेहिं। पडिसेहणणिबंधे, लक्खण गुरुणो णिवेदेज्जा // 473|| कस्याप्याचार्यस्य पावें महर्द्धिकानां बहुजनपाक्षिकाणां प्रव्रज्या समजनि। ताश्च कियन्तमपि कालमन्यस्मिन् देशे विहृत्य सूरिभिः सार्द्ध तत्रैव समायाताः। ततो निजकैः-- संज्ञातिकैस्तासां वस्पैनिमन्त्रणा कृता, ततो न कल्पते अस्माकं वस्त्रग्रहणं कर्तुमिति प्रतिषेधः कर्तव्य। अथ गाढतरं निर्बन्धं कुर्वन्ति, तदैतद्वक्तव्यम्-अस्माकंगुरव एव वस्त्रलक्षणं जानन्ति, ततो गुरूणां निवदेयाम् इत्यनुज्ञाते तेषां निवेदयेयुः। __ इदमेव व्याख्यातिथेरा पडिच्छंति कथेमु तेसिं, जाणेति ते दिस्स अजुग्गजोग्गं / पिच्छामु ता तस्स पमाणवण्णे, तो णं कधेस्सामु तहा गुरूणं // 47 // सागाऽकडे लहुगो, गुरुगो पुण होति चिंधsकरणम्मि। गणिणी असिहॅ लहुगा, गुरुगा पुण आयनीसाए।।४७५|| स्थविरा--आचार्या अस्मत्प्रायोग्यं वस्त्र परीक्षन्ते अतः कथयामस्तेषाम, ज्ञास्यन्ति तद् दृष्टव वस्त्रमयोग्यं योग्यं वा वय परं तावदिदानी तस्य वस्त्रस्य प्रमाणं वर्णं च पश्यामः। ततो 'ण' मिति तद्वस्त्रं तथा तेन प्रमाणवर्णादिना प्रकारेण गुरूणां कथयिष्यामः। एवं यद्वस्त्र साकारत्वेन यथाऽवस्थापितं तत् साकारकृतम् , तच्च यदिन कुर्वन्ति ततो मासलघु, साकारकृतं कृत्वा प्रमाणवण्णाभ्यां चिहं न कुर्वन्ति ततो मासगुरु, यदि गणिन्या तद्वस्त्रप्रमाणादि न कथयन्ति ततश्चतुर्लघवः / अथ आत्मनिश्रया स्वयमेव गृह्णन्ति ततश्चतुर्गुरवः। अथगृहस्था एवं ब्रूयु:जइ भे रोयति गेण्हध, ण वयं गणिणिं गुरुंच जाणामो। इय विभणिया वि गणिणे, कथेंतिण य तं पडिच्छंति / / 476|| यदि 'भे भवतीनां रोचते ततो गृह्णीध्वमेतद्वस्त्रं न वयं गणिनी-प्रवर्तिनी गुरुं वाऽऽचार्य जानीमः, इत्यपि भणिताः सन्त्यः गणिन्यः सूरिणः कथयन्तिन पुनस्तद्वस्त्रं प्रतीच्छन्ति। सूरिभिश्च संयतीमुखाद्वस्त्रवृत्तान्तं श्रुत्वा इत्थं वक्तव्यम्कतरो मे णत्थुवधी, जा दिज्ज भणाहमो विसूरितो। पुवुप्पण्णो दिज्जति, तस्सऽसतीए इमा जयणा / / 477 / / भणत-प्रतिपादयत वर्षाकल्पान्तरकल्पादीनां मध्यात्कतरो 'भे' भवतीनां नास्त्युपधिर्यः साम्प्रतं दीयताम् / मा यूय