________________ वत्थ 561 - अभिधानराजेन्द्रः - भाग 6 वत्थ मुपधिना विसूरयथ-खेदमुग्रहथ, इत्युक्तवा यस्या उपधेरभावस्तां निवेदयन्ति। यदि पूर्वोत्पन्नो वर्तते ततो दीयते। अथ पूर्वोत्पन्नो नास्ति ततस्तस्थाभावे इयं यतना --- नाऊण यं परितं, वावारे तत्थ लद्धिसम्प। गन्धड्डे परिभुत्ते, कप्पकते दाणगहणं वा / / 478|| परीत्तं-स्तोकमभावोपलक्षणं चेदम्, ततोऽयमर्थः-परीत्तं नाम न संयतीना वस्त्राणि इति ज्ञात्वा ये तत्र लब्धिसम्पन्नाः साधवस्तान् व्यापारयेत् / यथा-आर्याः ! संयतीनां प्रायोग्याणि वस्त्राणि गवेषयत, ततस्ते वस्त्राणि गृहीत्वा गुरूणां समर्पयन्ति / तानि च गन्धाख्यानिपरिभुत्कानि भवेयुः, ततः कल्पे कृते सति दानं ग्रहणं वा कर्त्तव्यम्। किमुक्तं भवति-तानि वस्त्राणि प्रक्षाल्य सप्त दिवसानि स्थापयित्वा यदि नास्ति कोऽपि विकार उद्भुतस्ततो गणधरणे प्रवर्त्तिन्या दातव्यानि।। प्रवर्तिनीहस्ताच संयतीभिग्रहीतव्यानि इति संग्रहगाथासमासार्थः / साम्प्रतमेनामेव विवृणोति-- गुरुस्स आणाऍ गवेसिऊणं, वावारिता ते अह छंदिया वा। दुधा पमाणेण जहोइयाई, गुरूणमासंसु णिवेदयंति॥४७॥ ये व्यापरिता गुरुभिर्वस्त्रग्रहणाय प्रवर्तिताः, ये वा यथाच्छन्दिका अव्यापारिता एव गुरूणां पुरतो भणन्ति वयं वस्त्राणि गवेषयिष्यामः, आभिग्रहिका इति भावः। ते द्वयेऽपि गुरोराज्ञया वस्त्राणि द्विधाप्रमाणेनवर्णेन प्रमाणेन च यथा भगवद्भिस्तीर्थ-करैरुदितानि-भणितानि तथा गवेषयित्वा गुरूणां पादयोः पुरतस्तान्निवेदयन्ति-निक्षिपन्तीत्यर्थः। ततश्चगंधड्ड अपरिमुत्ते, विसोधिउं दें ति किमु अपडिपक्खे। गणिणी य णिवेदेजा, चतुगुरु सयदाणअट्ठाण / / 480 / / यानि गन्धाढ्यानि तानि यद्यप्यपरिभुक्तानितथापि धावित्या प्रक्ष्याल्य संयतीनां ददाति, किमुत्ति किं पुनः अप्रतिपक्षाणि परिभुक्तनीत्यर्थः, तानि सुतरां प्रक्षालनीयानीतिभावः। उपलक्षणमिदम्, तेन यद्यपि तानि गन्धाढ्यानितथापिधावनीयान्येव, धावयित्वा च सप्त दिवसानि स्थापयित्वा स्थविरः प्रावरणं कार्यते, यदि नास्ति कोऽप्यभियोगविकार-- स्ततो गणधरा गणिन्याः प्रवर्त्तिन्यास्तानि निवेदयेत् - अर्पयेदित्यर्थः / सा च संयतीनां ददाति। अथ गणधरः स्वयं तासां ददाति ततश्चतुर्गुरु, अस्थाने च शेषसंयतीभिः स्थाप्यते / शुद्धभावनाऽपि हि यदि काचिदार्थिकाविशेषो लभ्यते तथापि काचिदपरा संयती ता निरूपणाभिः प्रपातनया शङ्कां करोति,किं पुनः स्वयं वस्त्रप्रदाने। अपि चइहरह वि ताव मेहा, माणं भजति पणइणिजणस्स। किं पुण वलागसुरवा, विजुपजोदिया संता॥४१॥ इतरथाऽपि च बलाकासुरवापादिविशेषमन्तरेणापि तावन्मेघा गगनमण्डलमापूर्य गर्जयन्तः प्रणयिनीजनस्य मानवतीलोकस्य मानं भञ्जन्ति / किं पुनर्वलाकासुरवाः विद्युत्प्रद्योतिताः सन्तः, एवंविधाः सुतरां मानमुन्मूलयन्ति / एवमप्यतिप्रौढा-समर्थां वाऽहमिति कृत्वा अस्माकं मानभङ्गं पुराऽपि करोति। साम्प्रतंतुगुरुभिः स्वयं पूजितः सन् करोत्य-विशेषतः करिष्यतीतिशेषासाध्यश्चिन्तयेयुः। दुल्लभवत्थे वसिया, आसण्णणियाण वा वि णिबंधं / पुच्छंतजं थेरा, वत्थपमाणं च वण्णं च // 45 // अथ स देशो दुर्लभवस्त्रो भवेत् ततो ये व्यापारितास्तैरपि न लब्धानि वस्त्राणि, अथवा-यैर्निजैः सज्ञातिकस्ता निमन्त्रि-तास्ते समासन्नाः अतीव प्रत्यासन्नाः-अतीव प्रत्यासन्नसंबन्धास्ततो न तन्निर्बन्धोऽप्रमाणीकर्तुं शक्यते, एवमादौ कारणे समुत्पन्ने आचार्या आर्या-प्रवर्तिनी वस्त्रस्य प्रमाणं वर्ण न पृच्छन्ति, कीदृशैर्वस्वैयूयं निमन्त्रिताः, किंवा तेषां प्रमाणम्। ततः संयत्योबुवतेसेयं च सिंधवण्णं, अहवा महलं च ततियगं वत्थं / तस्सेव होति गहणं, विवज्जए भाव जाणित्ता 483|| एक वस्त्रं श्वेतं-शरदिन्दुसुधावदातम्, द्वितीयं सैन्धववर्णपाण्डुरम्। अथवाशब्दो वर्णप्रकारान्तरताद्योतकः / तृतीयं परिमलितत्वान्मलिनम्, प्रमाणमपिच तस्य वस्त्रस्य ईदृशम-स्तीति ताभिरुत्के गुरुभिस्तत्र गत्वा तस्यै वस्त्रस्य ग्रहणं कर्त्तव्यम्। अथ ते गृहस्थास्तत्र गतानामाचार्याणामन्यानि वस्त्राणि दर्शयन्तितत एवं विपर्यये भावं भद्रकप्रान्तगतमभिप्रायं ज्ञात्वा ग्रहणं कर्त्तव्यं न था। इदमेव स्पष्टयन्नाहपुव्वगता ते पडिच्छह, अम्हे विय पस्सुता तहिं गंतुं। गुरुआगमणकर्धेता, णीणावेंता गते तम्मि॥४८४|| सूरयः प्रवर्तिनीं भणन्ति-यूयं तत्रा पूर्वगताः प्रतीक्षत वयमपि युष्माकामनुमार्गत एवागच्छामः। ततस्तास्तत्रा गृहस्थकुले गत्वा गुरूणामागमनं कथयन्ति। ततस्तास्मिन् गुरावा-गते संयत्यो भणन्ति-निष्काशयत तानि वस्त्राणि यैर्वयं निमन्त्रिताः, एवमुक्ते यदि तान्येव दर्शयन्ति ततो गृह्णन्ति। ___ अथान्यानि ततः सूरिभिरिदं वक्तव्यम्अन्नं इदं ति पुट्ठा, भणंति किह तुज्झ तारिसं देमो। इति भद्दे पंतेसु तु, भणंति सीसं ण तं एतं // 48 // येन भवद्भिः संयत्यो निमन्त्रिता नेदं तद्वस्त्रम्, किंतु प्रमाणेन वर्णेन वा अन्यादृशत्वेन अन्यदिदमिति पृष्टाः सन्तो ते गृहस्था यदि भद्रकास्तत इदं भणन्ति-कथं वयं युष्माकं स्वयमेवागतानां तादृशं सामान्य वर्णादियुक्तं प्रयच्छामिः, इदंतुततो विशिष्टतरवण्र्णादिगुणोपेतम्, अत इदं गृहीत् इति भद्रका ब्रूयुः। ये तु प्रान्तास्तेषु सूरयः शीर्ष धूनयन्ति। इदं वचनं बुवते येन संयत्या निमन्त्रितास्तदिदं वस्त्रं न भवति। एवमुक्ते ते चिन्तयेयु:बहु जाणिया ण सक्का, तं वेउं तेसि जाणिओ भावं / णिच्छंति महएस तु, पहभावेसु गेण्हति // 416||