________________ वत्थ 556 - अमिधानराजेन्द्रः - भाग 6 वत्थ वीति-एवमेव शेषाण्यपि मदानीतानि वस्त्राणि यतीनां प्रयच्छत, ततो गुरुभिरसावुच्यते-स्वयमेवामूनि अम्बराणि देहि / यस्तवात्रा संयतो रोचते वस्त्रदानयोग्यतया रुचिगोचरीभवति, इत्यमुना प्रकारेण वन्दित:-- प्रार्थितः पूर्वं छन्दितो यस्य रोचते, तस्मै दातव्यानीत्येवमनुज्ञातच्छन्दः / ततः प्रेषितो-मुक्कलितः सन् स क्षपकस्तत्रावसरे ऋषीणामम्यराणि प्रयच्छति / इह सर्वत्रापि लकारादेशो 'रसेलशौ' / / 8 / 4 / 288 / इति मागधाभाषालक्षणवशात्। ततश्चखमएण आणियाणं, दिज्जंतेगस्स वारणे वयणं / गहणं तुमं न याणसि, तिविदिय पुच्छा ततो कहणं // 653 / / / क्षपकेणनीतानां तेनैव दीयमानानां वस्त्राणां कस्थपिल्लुब्धस्य वारणे वचनम्, एवममीषां रत्नाधिकानां दीयमानानि मा यावन्न समागमिष्यन्तीति बुझ्या वस्त्रग्राहक साधून मा आर्या गृहीध्वमित्येयं कोऽपि निवारितवानि ति भावः / ततः क्षपक प्राह-किं मदीयानि वस्त्राणि न ग्राह्यन्ते। इतरः प्राह-ग्रहणमेव यावत् त्वं न जानीयाः। क्षपको ब्रवीतिजानमि इत्थम् / इतरो भणति-यद्येवं ततः कीदृशम्, क्षपक आह - 'वंदित्ता विन पुच्छा' येनाहं कथयामि ततस्तेन क्षपको वन्दित्वा पृष्टः सन् कथयितुमारब्धवान् / 603 उ०। (इतोऽग्रे एतद्वत्कव्यता 'गहण' शब्दे तृतीयभागे 856 पृष्ठे गता।) निग्रन्थ्या प्रवर्तिनीनिश्रया चैलानि ग्रहीतव्यानि-- निग्गंथीए गाहावइकुलं पिंडवायपडियाए अणुपविट्ठाए चेलट्टे समुप्पजेजा, नो से कप्पइ अप्पणो नीसाए चेलाई पडिग्गाहित्ताए, कप्पइसे पवित्तिणीनीसाए चेलं पडिग्गाहित्तए॥१३॥ णो जत्थ पवित्तिणी समाणी सियाजे तत्थ समाणो आयरिए वा उवज्झाए वा पवत्तिणी वा थेरे वा गणी वा गणधरे वा गणावच्छेइए वा कप्पइसे तन्नीसाए चेलाई पडिग्गाहित्तए|१४|| अथास्य (14) सूत्रस्य कः सम्बन्ध इत्याहनियमा सचेल इत्थी, वातिजति संयमा विणा तेणं। उग्गहणमाइ चेला, ण गेण्हणा तेण जोगा य॥४६१॥ नियमाद्-अवश्यतया स्त्री-निर्ग्रन्थी सचेला भवति, तत-स्तेन चेलेन विना सा संयमाचालयते, इत्यनन्तरसूत्रे उत्कम्, तेन कारणेनावग्रहानन्तकादीना चेलानां ग्रहणे विधिरभिधीयते। अयं योगः प्रकृतसूत्रास्य सम्बन्धः। अथवा-- चेलेहि विणा दोसं,णाउंमा ताणि अप्पणा गेहे। तत्थ वि ते बिय दोसा, तव्वारणकारणासुत्तं // 462|| चेलैर्विना भिक्षामटन्त्याः संयत्याः महान् दोषो भवतीति ज्ञात्वा मा तानि चेलानि आत्मना गृह्णीयात् / कुत इत्याह-तत्राप्यात्मना चेलग्रहणेऽपि त एव दोषा भवन्ति ये पूर्व चेलस्याग्रहणे प्रागुत्काः / अतस्तद्वारणकारणात् स्वयं ग्रहण-प्रातषधार्थमिदं सूत्रामारभ्यते। इदमेव सोपयुक्तिकमाहसयगहणं पडिसेहति, चेलग्गहणं तु सव्वसो ताति। संडासातिरो वण्ही,ण उहति कुरुए य कियाई // 463 / / स्वयं ग्रहणमत्रसूत्रे सूत्रकृत्प्रतिषेधयतिन पुनः सर्वथा तासां संयतीनां चेलग्रहणम्। यतः संदशकेन तिरोहितो वहिर्गृह्यमाणो नदहति। कृत्यानि च धान्यपाकादीनि कार्याणि कुरुते, एवं सयंतीनामपि साधुभिस्तिरोहितं चेलग्रहणं न दुष्यति, कार्य च संयमपालनात्मकं करोति। अत इदमारभ्यते / अनेन सम्बन्धेनायातस्यास्य (सूत्रस्य-१३-१४) व्याख्यानिर्ग्रन्थ्या गृहपतिकुलं पिण्डपातप्रतिज्ञया अनुप्रविष्टायाः चेलेनार्थः प्रयोजनं चेलार्थः। स समुत्पद्येतान से' तस्याः कल्पते आत्मनो निश्रया चेलं प्रतिग्रहीतुं किं तु कल्पते 'से' तस्याः प्रवर्तिनीनिश्रया चेलं प्रतिग्रहीतुम्। अथन तत्र प्रवर्तिनी समाणी' सन्निहिता ततो यस्तत्राचार्यो वा उपाध्यायो वा प्रवर्तको वा स्थविरे वा गणी वा गणधरो वा गणावच्छेदको वा सन्निहितो वा भवेत्, गणीगणाधिपतिराचार्योगणधरः संयतः-परिवर्तकः। शेषाः सर्वेऽपि प्रतीताः। एतेषां निश्रया यं वा अभ्यङ्गीकृतार्थः साधुः पुरः कृत्वा विहरति। तन्निश्रया कल्पते 'से' तस्याश्चेलं प्रतिग्रहीतुमिति सूत्रासंक्षेपार्थः। अथ विस्तरार्थं भाष्यकारो बिभणिषुराहचेलट्ठ पुटवभणिते, पडिसेहो कारणे जहा महणं / णवरं पुण णाणत्तं,णीसागहणं णऽणीसाए ||464|| ' चेलार्थ पूर्व-प्रथमोद्देशके "निग्गन्थीणं केइ वत्थेण वा पाएण वा निमंतिज्ञा'' इत्यादिसूत्रो यथा भणितो यथा च तत्र संयतानां स्वयं वस्त्रग्रहणप्रतिषेधो यथा च कारणे ग्रहणमुक्तं तथैवात्रापि वक्तव्यम्। नवरं केवलं पुनरत्र नानात्वं विशेषः, वस्त्रग्रहणं ताभिर्निश्रया कर्त्तव्यं न पुनरनिश्रया। निश्रयोप-संज्ञानकादिना वस्त्रं दीयमानं प्रवर्तिन्या निवेदयति / प्रवर्तिनी गणधरस्य निवेदयति, ततो गणधरः स्वयमागत्य परीक्ष्य शुद्धं कृत्वा गृह्णाति / अथ नास्ति तत्र प्रवर्तिनी ततस्तद्वस्त्रं वर्णेन रूपेण चिन्हेन चोपलक्ष्य गणधरस्य कथयति, स चागत्य स्वयं गृह्णाति / एतन्निश्राग्रहणमुच्यते। आयरिओ गणिणीए, पवत्तिणी भिक्खुणीण कत्थेति। गुरुगा लहुगा लहुगो, तासिं अप्पडिसुणंतीणं // 46 // आचार्य एतत् सूत्रां गणिन्या न कथयति चत्वारो गुरवः / प्रवर्तिनी भिक्षुणीनां न कथयति चत्वारो लघवः, तासां भिक्षुणीनामप्रतिशृण्वन्तीनां मासलघु। ___ अथ स्वयं वस्त्रग्रहणे दोषानाहमिच्छत्ते संकादी, विराहणा लोभ आभियोगे य। तुच्छा ण सहति गारव-भंडण अट्ठाण ठवणं च / / 466|| पुरुषेण संयत्या वस्त्रं दीयमानं दृष्ट्वा अभिनवधर्माणो मिथ्यात्वं गच्छेयुः / दुर्दष्टधर्माणोऽमी इतिशङ्कादयश्च दोषाभवन्ति। विराधनाच संयमात्मविषया। लोभे हिस्तोकेनापि वस्त्रादिप्रदानेन स्त्री लोभ्यते। आभियोगे ति आभियो