________________ वत्थ ५५८-अभिधानराजेन्द्रः - भाग 6 वत्थ अथ कोऽपि लुब्ध एव कमप्यपरितुष्यन् ब्रूयात-आवलिकया मण्डलिकया वा वस्त्राणि विभज्यतां ततः को विधिरित्याहआवलियाएँ जतिह, तं दाऊणं गुरूण तो सेसं। गेण्हंति कमेण जओ, उप्परिवाडिं न पूर्येति / / 633 / / भंडलियाण विसेसो, गुरुगहिते सेसगा जहावुलु। भागे समे करेत्ता, गेण्हंति अणंतरं उभओ // 634|| आवलिका नाम ऋज्वायतश्रेण्या वस्त्राणां व्यवस्थापनं तया समभागीकृत्य वस्त्रेषु स्थापितेषु यदिष्ट वस्त्रं तत् गुरूणां दत्त्वा शेषाणि यथारत्नादिकं गृह्णन्ति यावदावलिका निष्ठामुपगच्छति / उत्परिपाट्या ग्रहणं न पूजयन्ति - न प्रशंसन्ति तीर्थकरादय इति गम्यते। मण्डलिकायामप्येवमेव नवरं तेषां विशेषोऽयमुपदर्श्यते-पूर्वं गुरुभिर्गृहीते ततः शेषाः यथावृद्धयो यः पर्यायवृद्धस्तदनतिक्रमेण समान् भागान् कृत्वा उभयोरप्याया-तलक्षणयोरनन्तरमव्यवहितं वस्त्राणि गृह्णन्ति / इयमत्र भावना -मण्डलिकया वस्त्रेषु स्थापितेषु प्रथममाचार्येण गृहीते ततो यः शेषाणां मध्ये रत्नाधिकः समण्डलिकायाधुरि स्थापितं वस्त्रं गृह्णाति। अवमरात्निकस्तुपर्यन्तस्थापितं सर्वान्तिमम्। ततोऽपि योऽवमपर्यायस्साधुभिस्स्थापितः स तदनन्तरंगृह्णाति, तदपेक्षया लघुतरपर्यन्तापावादुपान्त्यं गृह्णाति एवं तावद् गृह्णन्ति यावन्मण्डलिका निष्ठिता भवति / एवमपि विभज्यमाने कोऽपि लोभाभिभूतमानसो ब्रूयात् अक्षान् पातयित्वा यद्यस्य भागे समायाति तत्तस्य दीयताम्, एवं ब्रुवाणोऽसौ प्रज्ञापयितव्यः / कथमिति चेदुच्यतेजइ ताव दलंति गालिणो, धम्माऽधम्माविसेसबाहिला। बहुसंजयविंदमज्झके, उवकलणेऽसि किमेव मुच्छित्तो // 63|| यदितावदगारिणो धर्माधर्मविशेषबाह्या अपि मूच्छा परित्यज्य साधूनामिव चात्मीयानि वस्त्राणि दलन्ति-प्रयच्छन्ति ततो बहुसंयतवृन्दमध्यके-प्रभूतसाधुजनमध्यविभागेत्वमेवैकोपकरणे किमेवं सम्यक्परिज्ञातजिनवचनोऽपि भूछिं-तोऽसि। नैतद्भवतो युज्यत इति भावः। एवमप्युत्को यद्यसौ नोपशाम्यति ततो वक्तव्यम्अओ ! तुमं चेव करेहि मागे, ततोऽणुघिच्छामा जहकमेणं / गिण्हाहि वा जंतुह एत्थ इट्ट, विणासधम्मीसु हि किं ममत्तं // 636 // आर्य ! त्वमेव समान् भागान् कुरु ततो यथाक्रमेण वयं ग्रहीष्यामः, यदा-गृहाणं यत्तवामीषां वस्त्राणां मध्ये इष्टमभिरुचितम, विनाशधर्मीणि हि विनश्वरस्वभावानि वस्त्रादीनि वस्तूनि अतः किं नाम तेषु ममत्वं विधीयते। एवमप्युत्को यदि नोपरतः ततः को विधिरित्याहतह वि अवियस्स दाउं, विगिचणोवट्ठिए खरंटणया। अक्खेसु होति गुरुगा, लहुगा सेसेसु ठाणेसुं॥६३७॥ तथाऽप्यस्थितस्य तस्य तदभीष्ट वस्त्रं दत्त्वा विवेचन कर्त्तव्यम्। निर्गच्छ मदीयात् गच्छादिति भणनीयमिति भावः। ततो यदि भूयोऽप्युपतिष्ठते, मिथ्या मे दुष्कृतं न पुनरेवं विधास्यामीति, ततः खरण्टनी वक्ष्यमाणा कर्तव्या, प्रायश्चित्तं च दातव्यम्। किमित्याह-अक्षेषु गुरुका भवन्ति। यो ब्रवीति अक्षान् पातयित्वा विभजत तस्य चतुर्गुरुकम्। शेषेषु स्थानेषु क्षोभकरणावलिकामण्डलिका-विभाजनलक्षणेषु चतुर्लधुकम् / अथ खरण्टनामुपदर्शयतिहिरनदारं पसुपेसवगं, जदाच उज्झित्तु दमे ठितोऽसि। किलेसलहेसु इमेसु गिद्धी, जुत्तान कुत्तां तव खिंसणेवं // 638|| हिरण्यं-सुवर्णं दाराश्च-कलत्रं हिरण्यदारं, पशवश्चगोमहिषी प्रभृतयः प्रेक्षाश्च कर्मकरास्तेषां वर्गः-समूहस्तमेवमादिकं परिग्रहमुज्झित्वातृणवत् परित्यज्य यदा किल त्वमेवंविधे दमे संयमे स्थितोऽसि, तदा साम्प्रतमेतेषुवस्त्रेषुल्केशलब्धेषु-प्रभूतगृहपरिभ्रमणादिप्रयासप्राप्तेषु तव गृद्धिः कर्तुन युत्का, एवं खिंसना तस्य कर्त्तव्या। सम्मं विदित्ता समुवडियंतु, थेरासि तं चेव कदाइ देजा। अन्नेसि गाहे बहुदोसले वा, __ छोदूण तत्थेव करिति भाए।।६३९।। वत्थेव गए कोई, वत्थं लद्धं निवेयध गुरुणो। . देहि तुम चिय हणिओ, भाएइ णिगइ णिमो सो य // 640|| सम्यग् पुनः करणेन समुपस्थितं तं विदित्वास्थविरा:सूरयः कदाचित्तस्यैव तद्वस्त्रं दधुः। अथान्येषामपिबहूनां तद्वस्त्रग्रहणे ग्राहो मोहनिर्बन्धः 'बहुदोसले वा' प्रभूतदोष वानसौ यतः बहुभिः सह द्वेषवान् विरोधविधायी स बहुद्वेषवानिति, ततस्यस्य दीयमाने अन्येषा महदप्रीतिकमुपजायते, एवंविधं कारणं विचिन्त्य तत्रौव तेषु वस्त्रेषु मध्ये प्रक्षिप्य एकसदृशान् भागान् कुर्वन्ति।ततो यथा रत्नाधिकं गृह्णन्ति। एवं तावदनेके-षामानीतानां वस्त्राणां परिभाजने विधिरुक्तः। अथ क्षपकेणानीतानां तेषामेव विधिमभिधित्सुराहखमए लभ्रूण अंबले, दाउंगुरुएय सांवलित्तए। वेइ गुलुं एमेव सेसए, देह जईणं गुलूहिँ दुबई // 641 / / सयमेव य देहि अंबले, तव जे लोयइ इत्थ संजए। इय छंदिय पेसिउंतहिं, खमओ देइ निसीलअंबले॥६४२।। कोऽपि क्षपकः कुत्रापि भावितकुलादौ अम्बराणि लब्ध्वा यानि वरिष्ठानि-सर्वप्रधानानि वासांसि तानि दत्वा ततो गुरुं ब्र