SearchBrowseAboutContactDonate
Page Preview
Page 881
Loading...
Download File
Download File
Page Text
________________ वत्थ 857 - अभिधानराजेन्द्रः - भाग 6 वत्थ 'उवसंपज्ज ति यस्तत्र प्रथमतया उपसंपदं प्रतिपद्यते। ग्लानो-मन्दः / सच द्विधा आगाढोऽनागाढश्च। यस्तुपरिमितोपधिः 'सुत' त्ति बहुश्रुतः 'सोयअत्थ ति यो व्याख्यानमण्डल्या उत्थितानां सूत्रार्थश्रोतव्ये ज्येष्ठतया व्यवहियते 'जाइ'त्ति जातिस्थविरः षष्टिवर्षपर्यायः 'तव' त्ति तपस्वी 'भास' ति य आभाषिकः स्वदेशभाषायामभिज्ञः 'लद्धीए' त्ति यस्यलब्ध्या वस्त्राणिलभ्यन्ते, एतेषामुपसंपद्यमानादीनां यथाक्रमं दत्त्वा ततोयो यः पर्यायरत्नाधिकः ससप्रथमं गृहति'ओमि त्ति अवमरात्निकः पश्चाद् गृहाति। एते यथाक्रम द्विविधिस्य उपधेरौपग्राहकोपधेश्च ग्रहणे अर्हाः-योग्या मन्तव्याः। एएसि परूवणया, जाय विणा तेहि होति परिहाणी। अहवा एक्कक्कस्य उ, अद्धोक्कतिक्कमो होति // 626|| एतेषामुपसंपद्यमानादीनां प्ररूपणा-व्याख्या कर्तव्या, साचानन्तरमेव कृता / यद्येतेषां यथाक्रमं वृषभान प्रयच्छन्ति ततो या तेषां तैर्वस्वैर्विना परिहाणिः संयमविराधनादिका भवति तन्निष्पन्नं प्रायश्चित्तम्। अथवाएकैकस्यौपसंपद्यमानादेः प्रत्येकं ग्लानादिविषयोऽयमर्धापक्रन्तिक्रमो भवति। तद्यथाउवसंपज्जगिलाणो, अगिलाणो वाऽविदोण्णि वि गिलाणे। तत्थ वि य जो परित्तो, एस गमो सेसगेसं पि॥६२७॥ उपसंपद्यमानो द्विविधः-- ग्लानोऽग्लानश्च / तत्र यो ग्लान स्तस्य दातव्यम्। अथ द्वावपि ग्लानावग्लानौवा, ततो यस्तत्र परीत्तोपधिस्तस्मै दातव्यमेवमेष गमः-प्रकारः शेषेष्वपि बहुश्रुतादिपदेषु मन्तव्यः। तद्यथाद्वावपि परीत्तोपधी अपरीत्तोपधी वा ततो यो बहुश्रुतस्तस्मै देयम्। अथ | द्वावपि बहुश्रुतौ ततो यश्चिन्तनिकाकारकस्तस्मै दातव्यम्। अथद्वावपि चिन्तनिकाकारको ततो यस्तत्रा जातिस्थाविरस्तस्य दातव्यम् / अथ द्वावपि जातिस्थविरौ ततो यस्तपस्वी तस्य दातव्यम् / अथोभावपि तपस्विनौ ततो यो भाषिकस्तस्मै दातव्यम् / अथ द्वावप्यभाषिको भाषिकौ वा ततो यो लब्धिमान् तस्मै प्रदातव्यम्। प्रकारान्तरेण यथारत्नाधिकपरिपाटिमाह --- आयरिएय गिलाणे, परित्त-पूया-पवत्ति-थेर-गणी। सुत-भासा-लद्धिवओ, ओमे परियागरातिणिए।।६२८|| आचार्यस्य पूर्व विशिष्टानि वस्त्राणि दत्त्वा ततो ग्लानस्य दातव्यानि, ततः परीत्तोपधेस्ततः 'पूर्य' त्ति चूर्ण्यभिप्रायेण पूजनार्हस्य उपाध्यायस्य, बृहद्भाष्याभिप्रायेण तु पूजनार्हस्य गुरुसंबन्धिपितृत्व्यादेः, ततः प्रवर्तिनस्तदनन्तरं स्थविरस्य, ततो 'गणि' त्ति गणावच्छेदकस्य, ततः श्रुतसम्पन्नस्य, ततो भाषिकस्य, ततोलब्धिमतः, यथाक्रमं दातव्यम्। अर्धापक्रान्तिचारणिका प्राग्वत् कर्तव्या। तदनन्तरं योयः पर्यायरात्निकः तस्य प्रथमम्, अवमरात्निकस्य तु पश्चाद् यथाक्रमं दातव्यम् / एवं | तावत्संघाटकेनानीतानां विधिरुक्तः। ___ अथ वृन्देनानीतानां यो विधिस्तभिधित्सुराहणेगेहिं आणियाणं, परित्त परियाग खुभिय पिंडेता। आवलिया मण्डलिया, लुद्धस्स य संमता अक्खा / / 629 / / अनेकैः साधुभिरानीतानां, वस्त्राणां पारभाजनविधिरुच्यते, आचार्यादिक्रमेण परीत्तोपधीनां यावत् दत्त्वा ततो ये पर्यायरात्निकास्तेषामहिण्डमानानामपि प्रथमतो दातव्यम्। तत्रा च यैस्तानि वस्त्राणि समानीतानि ते पिण्डित्वा-संभूय क्षुभितं क्षोभे कुर्वीरन् कलहमिति यावत्, ब्रुवीरन्। "आवलिकया मण्डलिकया वा' विभजनं विधीयतां, "लुद्धस्स य संमता अक्ख' त्ति कस्यापि पुनर्लुब्धस्य अक्षान्पातयित्वा वस्त्रविभजनभिमतमेष संग्रहगाथासंक्षेपार्थः / साम्प्रतमेनामेव विवरीषुराहगेण्हंतु पुजा गुरवो जदिलं, सवं भणामऽम्ह वि एयदिटुं, अणुण्णसंवट्टियऽकझसङ्गा, गिण्हन्ति जं अत्तिन तं सहामो॥६३०॥ अहिण्डमानानां वस्त्रेषु दीयमानेषु ये वस्त्राणामानेतारस्ते बुवीरन् / 'जदिट्ठ' मनोऽनुकूलं वस्त्रं गुरवो गृह्णन्ति तत्ते सकलगच्छस्वामितया पूज्या इति कृत्या गृह्णन्तु। यद्गुरूणामुत्कृष्ट वस्तु दीयते तत्.सत्यमवितथमिति वयमपि भणामः / न केवलं वचसैव भणामः, किंतुमनसाऽप्यस्माकमेतदिष्टमेव। परमनुष्णेनभिक्षापरिभ्रमणाभावादुष्णलमनाभावेन सवर्तितानिवर्तुलीभूतानि अत एवाकळशानि अङ्गानि पाणिपादपृष्ठोदरप्रभृतीनि येषां ते अनुष्णसंवर्तिताऽकर्कशाङ्गा, एवंविधाः सन्तो यदन्ये अहिण्डमानाः प्रथमं गृह्णन्ति न तद्वयं सहामहे। आगंतुगमादीणं, जइ दायव्वाइँ तो किणं अम्हे। कम्हारभिक्खुयाणं, गाहिजामेण गइमसिग्घा / / 631 // आगन्तुका-उपसंपत्तारस्तेषामादिशब्दाद्-ग्लानादीनां च यदि दातव्यानि वस्त्राणि ततः 'किण' त्ति केन कारणेन वयं कर्मकारभिक्षुकाणां देवद्रोणीवाहकभिक्षुविशेषाणां गतिमश्लाघ्या-निन्दनीयां ग्राह्यामहे / किमुक्तं भवति-यदि नामास्मदा-नीतानां वस्त्राणामेते आगन्तुकादयः स्वामिभावं भजन्ते, ततः कि मेवं वयं देवद्राणीवाहकभिक्षुकवन्मुधैव वस्त्राद्यानयनकर्म कार्यामहे इति वस्त्राण्यानेतारश्चिन्तयेयुः। ततःविविचमाणे अहवा विरके, खोभं विदित्ता बहुगाण तत्थ। ओमेण कारिंति गुरुटिवरेगं, विमज्झिमो जो व तहिं पटू य / / 632 // एवं विविच्यमाने, अथवा-विरक्ते उपकरणे बहूनामनन्तरोत्कं क्षोभं विदित्वा यस्तत्रावमः सर्वेषामपि पर्यायलधुर्यो वा दिमध्यमोऽपि तत्र वस्त्रविभजने पटुः कुशलस्तेन गुरवो विभजनं कारयन्ति।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy