________________ वत्थ 856 - अमिधानराजेन्द्रः- भाग 6 वत्थ र्यादिति। तस्य चैवम्भूतस्य किं स्यादित्याह--से' तस्य वस्त्रपरित्यागं कुर्वतः साधोस्तपोऽभिसमन्वागतं भवति, कायल्केशस्य तपोभेदत्वात्, उत्कंच-"पंचहि ठाणेहिं समणाणं निगंथाणं अचेलगत्ते पसत्थे भवति, तंजहा-अप्पा पडिलेहा 1 वेसासिएरूवे 2 तवे अणुमए 3 लाघवेपसत्थे 4 विउले इंदियनिगहे 5" / एतच भगवता प्रवेदितमिति दर्शयितुमाह - जमेयं भगवया पेवइयं तमेव अभिसमिचा सव्वओ सव्वत्ताए सम्मत्तमेव सममिजाणिज्जा। (सू०-२१५) यदेतद्भगवता-वीरवर्द्धमानस्वामिना प्रवेदितं तदेवाभिसमेत्य-ज्ञात्वा सर्वतः- सर्वैः प्रकारैः सर्वात्मतया सम्यक्त्वमेव समत्वं वा-सचेलाचेलावस्थयोस्तुल्यतां समभिजानीयात् आसेवनापरिज्ञया आसेवेतेति। आचा०१ श्रु०८ अ०४ उ०। (25) अचार्यानुज्ञया निर्ग्रन्थानां निर्ग्रन्थीनां वस्त्रग्रहणम्कप्पइ निग्गंथाण वा निग्गंधीण वा अहाराइणियाए चेलाई पडिम्गाहित्तए॥१६॥ अस्य सम्बन्धमाहदिटुं वत्थग्गहणं, तेसिं परिभायणे इमं सत्तं / अविणय असंविभागा, अधिकरणादीसुणेवं तु // 618 / / द्वितीयसमवसरणे दृष्ट तावद्वस्त्रग्रहणं संप्रति तेषां-वस्त्राणां परिभाजने-- विभज्य प्रदाने यो विधिस्तदभिधायकमिदं सूत्रमारभ्यते। इत्थं विभज्य प्रदाने किं प्रयोजनमिति चेदत आह-एवं यथा रत्नाधिकं वस्त्राणां विभज्य दाने अविनयोऽसंविभागोऽधिकरणादयश्च दोषा न भवन्तीत्यनेन सम्बन्धेनाया तस्यास्य (16 सूत्रस्य) व्याख्या कल्पन्ते निर्ग्रन्थीनां निर्ग्रन्थीनां वा यथारात्निकं यो यो रात्निको भवेत् रत्नैरधिकस्तदनतिक्रमेण चेलानि प्रतिग्रहीतुमिति सूत्रार्थः।। अथ नियुक्तिविस्तर:संघाडए एक-त्तो हिंडंति वंदएण जयणाए। साधारणऽणापुच्छा, अदत्तं ताइकाओ भागा॥६१६॥ संघाटकेनैकतः-एकस्यां दिशि साधवो वस्त्रग्रहणार्थ हिण्डन्ते, अथ संघाटकेन न प्राप्यते ततो वृन्देनापियतनया पर्यटन्ति। अथ साधारणं बहूनामचार्याणां सामान्यं तत् यदि तत्रापरेषामाचार्याणामनापृच्छया गृहन्ति तदा 'अदत्तं' ति साधर्मिकस्तैन्यं भवति / अतस्तानापृच्छय गृहीत्वा च तेषां वस्त्राणमेकत-एकसदृशा भागाः कर्तव्याः न विसदृशा इति ग्रहणगाथासमासार्थः। साम्प्रतमेनामेव विवणोतिनिस्साधारणखेत्ते, हिंडंतो चेव गीतसंघाडो। उप्पादयते वत्थे,असती तिगमादिवंसेणं // 620 // निस्साधारणे एकाचार्यप्रतिबद्धे क्षेत्रो गीतार्थसङ्घाटको भिक्षां हिण्डमान एव वस्त्राण्युत्पादयति, अथ संघाटकेन हिण्डमाना न प्राप्नुवन्ति तत्तत्त्रिकादिवृन्देन त्रिचतुः- पञ्चादिसाधु-समूहेनपर्यटन्त उत्पादयन्ति। साधारणक्षेत्र पुनरयं विधि: दुगमादी सामण्णे, अणुपुच्छा तिविह सोधि णवमं वा। संभोइयसामन्ने, तह चेवजहेक्कगच्छम्मि॥६२१॥ द्विकादीनां-द्वित्रिप्रभृतीनामाचार्याणां सामान्य क्षेत्रो तेषा-मनापृच्छया गृहन्तस्विविधा शोधिः-प्रायश्चित्तम्, जघन्ये पञ्चकम्, मध्यमे मासि-- कम्, उत्कृष्ट चतुर्लघवः नवमंवा सूत्रा-देशेनानवस्थाप्यम्। ते चाऽऽचार्याः परस्परं सांभोगिका स्ततः,सामान्ये क्षेत्रे वस्वग्रहणे तथैव विधिर-- वसातव्यः / एकस्मिन् गच्छे संघाटकादिक्रमेण अनन्तरगाथायामुक्तः। असांभोगिकेषु विधिमाहअमणुण्ण कुलविरेगो, साही पडिवसह मूलगामे वा। अहवा जो जं लाभी, ठायंति जहा समाधीए॥६२२॥ अमनोज्ञा-असांभोगिकास्तैः सह यत् क्षेत्रं साधारणं तत्र कुलादीनां विरेको-विभजनं कर्तव्यम्, यथा-एतेषु कुलेषु युष्माभिर्वस्त्राणि ग्रहीतव्यानि, एतेषु पुनरस्माभिः / यद्वाअस्यां साहिकायां गृहपत्किरूपायां भवद्भिः, अस्यां पुनरस्माभिः / अथवा-प्रतिवृषभग्रामेषु यूयं ग्रहीष्यथ, वयं भूलग्रामे ग्रहीष्यामः / मूलग्रामे वा यूयम्, वयं प्रतिवृषभग्रामेषु, अथवा-यो यद्वस्त्रं कुलादौ पर्यटन् लाभी-लप्स्यते, तेन तस्य ग्रहणं कर्तव्यम् / एतेषामन्यतमेन प्रकारेण व्यवस्था स्थापयित्वा यथा समाधिना तत्र तिष्ठन्ति। एवं साधारणाऽसाधारणे क्षेत्रो वस्त्राणि गृहीत्वा किं कर्तव्यमित्याहवत्थेहिं आणिंते-हि तिज रातिणिं तिहिं वसभा। अदाणे गुरुणो लहु-गासेसे लहु इमे होति // 623 / / / वस्त्रेषु समानीतेषु ये वृषभास्ते यथारत्नाधिकंतत्र वस्त्राणि प्रयच्छन्ति / यदितत्र गुरूणां प्रथमतो वस्त्रदानं न कुर्वन्ति तदा चतुर्लघुकः,शेषाणां यथा रत्नाधिकं विभज्य न प्रयच्छन्ति लघुमासः। ते च रत्नाधिका इमे वक्ष्यमाणा भवन्तिा तत्रा गुरूणां यादृशानि वस्त्राणि दीयन्ते। तदेतत्प्रति पादयतिविदुक्खमा जे मणोऽणुकूला, जे यो व जुखंति असंथरंतो। गुरुस्ससाणुग्गहमप्पिणित्ता, ____ भायंति सेसाणि उझंझहीणा // 624 // साधुभिर्यथाविधि गृहीत्वा भूयांसि वासांसि वृषभाणां समर्पितानि, ततो वृषभा 'विदु' त्ति विदित्वा सुन्दरा सुन्दरताविभाग विज्ञाय यानि क्षमाणिदृढानि यानि च मनोऽनुकूलानि गुरूणां मनसोऽभिरुचितानि यानि वा संस्तरन्तिगच्छे गुरुपरिभुत्कान्यपि शेषसाधूनामुपयुज्यन्ते, तानि गुरुः सानुग्रहम-सविशेषं यथा भवति एवमर्पयित्वा शेषाणि वस्वाणि झञ्झाकलहस्तेन हीना-विरहिताः सन्तो यथारत्नाधिक परिभाजयन्ति। अथ तानेव रत्नाधिकानाहउवसंपज गिलाणे, परिनसुतसोयअत्थवयजाती। तवभासालद्धीए, ओमे दुविहस्स अरिहाओ // 625 / /