________________ वत्थ 654 - अभिधानराजेन्द्रः - भाग 6 वत्थ वदेकमपि दिनंपरिहत्य वस्त्रग्रहण कार्यम्। व्याख्यातं प्रथमस-मवसरणसूत्रम् / बृ०३ उ०! जे भिक्खू पढमसमोसरणुद्देसपत्ताइंचीवराइं पडिग्गाहेइ पडिग्गाहंत वा साइज्जइ // 53 // नि० चू०१० उ०। (23) ऋतुबद्ध वस्त्रग्रहणमिति द्वितीयसमवसरणसूत्रां व्याख्याति- | विइयम्मि समोसरणे, मासा उकोसगा दुवे हॉति। ओमंथगपरिहाणी, पञ्च य पञ्चेव य जहण्णे // 607 / / द्वितीयं समवरणं नाम ऋतुबद्धकालस्तत्र मासकल्पेन स्थिता वस्त्रादिकमुपकरणमुत्पादयन्ति, मासकल्पानन्तरं च तत्रा द्रौ मासावुत्कर्षतः परिहर्तव्यौ भवतः। कारणे तु तथैवासुखपरिहाराय पञ्च दिनानिहापयता सावन्नेयं यावत् जघन्यत एकं दिनं परिहर्तव्यम्। अमुमेवार्थं स्फुटतरमाहअपरिहरंतस्सेते, दोसा ते चैव कारणे गहणं / बालवुड्डाउले गच्छं, अगती दस पञ्च एको य॥६०८|| यत्रा क्षेत्रो मासकल्पः कृतस्तत्र द्वौ मारायपरिहारतस्त एव दोषा मन्तव्याः, ये वर्षावासे मासद्वयमपि परिहरत उत्काः , कारण तु ग्रहणं कर्तव्यम्। कथमित्याह-बालवृद्धाकुले गच्छेवस्त्राभावेपञ्चकपरिहाण्या एकैकपरिहाण्या वा तावद्वत्कव्यं यावद्दश वा पञ्च वा एको वा दिवसः परिहर्तव्यः। यत्रा संविनासकल्पे वर्षाकल्पः कृतस्तत्रा मासद्वयादुपरि पञ्चसु दिवसेष्वपूर्णेषु अन्येषां न कल्पते किंचिदपि ग्रहीतुम्। यो गृह्णाति तस्य दोषानुपदर्शयतिकरणाणुपालयाणं, भगवतो आणं पडिच्छमाणाणं / जो अंतरा उगेण्हति, तहाणारोवणमदत्तं // 606 / कारणस्य-पिण्डविशुद्ध्यादेः अनु-पश्चात् पूर्वऋषिपरंपरा क्रमेण पालकाः कारणानुपालकास्तेषां करणस्य च चरणावि-नाभावित्वाचरणानुपालकानामित्यपि द्रष्टव्यम्, एतेन शीतल-विहारतादोषस्तेषां परिहतो भवति। भगवतोवर्द्धमानस्वामिनोया आज्ञा तांतथेति प्रतिपत्त्या प्रतीच्छताम्, अनेन यथाच्छन्दतादोषास्तेषां नास्तीत्युक्तं भवति, एवंविधानां साधूनां क्षेत्रामन्तरा तैरगृहीते उपकरणे यो वस्त्रादि गृह्णाति, तस्य ततस्थानारोपण प्रायश्चित्तम्। तद्यथा-उत्कृष्ट चतुर्लघः, मध्यमे मासिकम्, जघन्ये पञ्चकम्। सूत्रादेशेन वा साधर्गिकस्तैन्यामिति कृत्वा अनवस्थाप्यम्, 'अदत्तं' ति भगवता नानुज्ञातमिति कृत्वा तीर्थकरदत्तमपि न भवति। उवरिं पञ्चमपुण्णे, गहणमदत्तं गत त्ति गेण्हति / अणपुच्छा दुप्पुच्छा, तं पुण्णगत त्ति गेण्हति॥६१०॥ परक्षेत्रो द्वयोसियोरुपरिपञ्चसु दिनेषु अपूर्णेषु यदि ग्रहणं करोति तदा अदत्तादानदोषः प्रसज्यते / अथ जानन्ति गता अन्यदेशं क्षेत्रस्वामिनः ततोऽपूर्णेष्वपि पञ्चरात्रिंदिवसेषु गृहन्ति। अथ शङ्कितं ततो न गृह्णन्ति / अथ ते परदेशं न गतास्ततो यद्यनापृच्छया वा वस्त्रं गृह्णन्ति ततस्तथैवादत्तादा-नदोषं प्राप्नुवन्ति / यत एवमतस्तद्वस्त्रादिकमुपकरणं गता | निःशङ्कितमन्यदेशं क्षेत्रिका इति विज्ञाय पूर्णे मासद्वये गृह्णन्ति / अत्रानापृच्छा नाम क्षेत्राकैर्वस्त्रग्रहणं कृतं नवेति न पृच्छति / दुष्पृच्छा पुनरविधिना प्रच्छनम्। सा चेयम्गोवालवच्छवाला, कासगआदेस बालवुड्डाय। अविधी विधी तु सावग, महत्तरधुवम्मि लिंगत्था // 611 / / ये गोपालवत्सपालकर्षकाः प्रभाते निर्गताः सन्तो भूयः ग्राम प्रविशन्ति तत्रादेशाः प्राघूर्णिका अन्यग्रामादायाता ये बालवृद्धादयोऽत्यन्तमुग्धा विस्मरणशीलाश्च तान् पृच्छति, किं श्रमणैः कृतं वस्त्रग्रहणं भवति ? एषा अविधिपृच्छा / विधि-पृच्छा पुनरियम्-श्रावका वा महत्तरा वा पृच्छनीयाः / येषु साधूनां वस्त्रग्रहणसंभवो भवति, ये वा धुवकर्मिका लोहकाररथकारादयो ये वा लिङ्गधारिणस्तान् पृच्छति, वस्त्रादिग्रहणं साधुभिः कृतं न वेति। परक्षेत्रो वस्त्रग़ातिधिमभिधित्सुराहगंतूण पुच्छिऊण य, तेसिं वयणे गवेसणा होति / तेसागतेसु सुद्धे-सु जत्तियं सेस अग्गहणं // 612 / / क्षेत्रस्वामिनां समीपे गत्वा गिधिवदापृच्छय तेषां साधूनां वचने अनुज्ञायां तदीये क्षेत्रो गवेषणा कर्तव्या भवति। अथन ज्ञायते ते कुत्रापि गता अमीभिः साधुभिस्तत्र वस्त्रग्रहणं कियदपि कृतम्, तेच क्षेत्रस्वामिन आगताः। ततस्तेषु शुद्धेषु विधिना आगतेषु यावद्वस्त्रादि गृहीतं तावत्तेषां प्रत्यर्पयितव्यम्। इदमेव सविशेषमाह -- उप्पन्नकारणा गं-तु पुच्छिउँ तेहि देण्ह गेण्हंति। तेसागतेसु सुद्धे-सु जत्तियं सेस अग्गहणं // 613|| बालवृद्ध शैक्षादीनां शीतपरितापनालक्षणे वस्त्रग्रहणकारणे उत्पन्ने स्वक्षेत्र वस्त्रदुर्लभता सम्यग् निश्चित्य परक्षेत्रे वस्त्र-ग्रहणं कर्तुं कामाः क्षेत्रास्वामिनामन्तिके गत्वा पृष्टवा च तैर्दत्तमभ्यनुज्ञातं यावत्प्रमाणं वस्त्रादि तावदेवं गृह्णन्ति, नातिरित्कम्। अथ न ज्ञायन्ते कुत्रापि गतास्ततो विधिपृच्छया उपकरणे गृहीते यदिते क्षेत्रकाः शुद्धाः सभागच्छेयुः, ततः शुद्धेषु तेष्वागतेषुततो यावद्गृहीतं तावत्तेषां प्रत्यर्पयन्ति शेषस्य च ग्रहणम्। कथं पुनस्ते क्षेत्रिका आगताः शुद्धा अशुद्धा वा भवन्तीत्युच्यतेपडिजम्गति गिलाणं, ओसहहेऊहिँ अहव कज्जेहिं। एतेहि होति सुद्धा, अह संखडिमादि तह चेव // 614|| क्षेत्रिका मासद्वये पूर्णेऽपि अमीभिः कारणैर्न समागन्तुं शक्नुयुः / ग्लानं प्रति जाग्रतः स्थिताः, ग्लानस्य वा औषधमगदं तन्मीलनहेतोः स्थिताः, कुलगणसङ्घकार्येषुवा व्यापृताः, एवमादिभिः कारणैरनागच्छन्तःशुद्धाः। अथ संखडिनिमित्तं स्थिता जिकादिषु वा प्रतिवध्यमाना आगताः ततः तथैव मासद्वयं यावत्तदीयं क्षेत्राम, उपरि तु पञ्चरात्रां न ते प्रभवस्ततो यत्तैस्ता क्षेत्र गृहीतं तद्गृहीतसेवन क्षेत्रिकाणाम्।