________________ वत्थ 152- अमिधानराजेन्द्रः - भाग 6 वत्थ क्षेत्रकालविभागस्तं-प्राप्तानि प्रथमसमवसरणोद्देशप्राप्तानि, चेत्यानिवस्त्राणि प्रतिगृहीतुम, किमुक्तं भवति-इह साधवो यत्रा वर्षावासं चिकीर्षवस्तत्क्षेत्रां यावताऽपि प्राप्नुवन्ति प्राप्ता वा परं नाद्याप्याषाढपूर्णिमा लगतितावत् कल्पन्तेवस्त्राणि परिग्रहीतुम्।अथवर्षावासप्रायोग्य क्षेत्र प्राप्ताः आषाढपूर्णिमा च संजाता तत इत्यन्तं क्षेत्राकालविभागं प्राप्तानि तु कल्पन्ते-इति सूत्रसंक्षेपार्थः। ____ साम्प्रतं विस्तरार्थमभिधित्सुः प्रेर्यमुत्थापयन्नाह - पठमंसि समोसरणे, उद्देसकडं ण कप्पती जस्स। तस्सव किं कप्पंती, उग्गमदोसा उ अवसेंसा॥५४८|| इह परः प्रस्तुतसूत्रस्योपरि परम्पराघातमनन्तरोक्तमर्थम-नवबुद्धयमानः प्रेरयति / नतु च सूत्रो 'उद्देसपत्ताई' ति यत्पदं तस्यायमर्थः / उद्देशनमुद्देशः औद्देशिकाख्यो द्वितीय उदग्मदोषस्तं प्राप्तानि वस्त्राणि न कल्पन्ते, एतचनयुज्यते, यतो यस्य साधोः प्रथमसमवसरणे उद्देशकृतं वस्त्रादि न कल्पते तस्य च शेषाः कर्मादयः पञ्चदशोदग्मदोषाः किं कल्पन्ते ? यदेवमुद्देशकृतमेव प्रतिषिध्यते। पर एव सूरीणामभिप्रायमाशङ्क्य परिहरतिउद्देसग्गहणेण व, उग्गमदोसा उसवे जति गहिता। उप्पादणादिसेसा, तम्हा कप्पंति किं दोसा ||4|| अथैकग्रहणे तज्जातीयग्रहणामतिन्यायादुद्देशग्रहणेन सर्वेऽप्यदुग्मदोषा गृहीताः। एवं तर्हि उत्पादनादयः शेषा दोषाः किं कल्पन्ते येनोदग्मदोषा एव गृह्यन्ते। पर एवाचार्य शिक्षयमाण इदमाहअहवा उहिस्सकता, एसणदोसा विहोति गहिता तु। आदीयंतग्गहणे, गहिया उप्पादणा वितहिं // 54 // अथवा यस्मादोषणादोष अपि साधूनुद्दिश्य-प्रणिधाय कृताः, अत उद्देशग्रहणेन तेऽपि गृहीताः / एवं चाद्यस्योदग्मदोषकलापस्यान्यस्य चैषणादोषजालस्य ग्रहणे उत्पादना दोषा अपि गृहीता अत्रा मन्तव्याः। आद्यन्तग्रहणे मध्यस्यापि ग्रहण-मिति न्यायात्। अतोवाचत्वारिंशदपि दोषान कल्पन्ते इति सिद्धम्। एवमाचार्यस्याकृत्यमाशङ्कय दूषणान्तरमाह -- एए अतस्स दोसा, उडुबद्धे जं च कप्पते घेत्तुं / कोई भणिज दोसु वि, ण कम्पत्ति सुत्तं तु सूएति // 551 / / / यथैवं सामाक्षिप्ता द्वाचत्वारिंशदपि दोषाः प्रथमसमव-सरणे प्रतिषिद्धास्तर्हि ऋतुबद्धाख्ये द्वितीयसमवसरणे एते सर्वेऽपि दोषास्तस्य साधोः कल्पन्ते? यथाऽनौव सूत्रो अभिहितम्-कल्पन्ते द्वितीयसमवसरणे उद्देशप्राप्तानि चेलानि प्रतिग्रहीतुमतोऽपि ज्ञाप्यते द्वितीयसमवसरणे द्वाचत्वारिंशद्दोषदुष्टमपि कल्पते, एवं कश्चित्परो भणेत्। तत्र सूरिराहद्वयोरपि समवसरणयोर्न कल्पते / योऽपि परः प्राह यद्ययं द्वितीयेऽपि समवसरणे प्रतिषेधयथ तन्न युज्यते / यतः श्रुतं सूत्रामेव कल्पते इति ब्रुवाणमनुज्ञां सूत्रयति। अपि वा एवं सुत्तविरोधो, दोचम्मिय कप्पतीतिजं मणितं / सुत्तणिवातो जम्मि तु, तं पुण वोच्छं समासेणं / / 552 / / एवं भवतां सूत्रोण समं विरोधः प्राप्रोति, यतः सूत्रे द्वितीये समवसरणे कल्पत इति भणितम् / अथ गुरुराह-सर्वमप्येतदाकाशकसुममिव लक्ष्यते। सूत्राभिप्रायमनवबुध्यैव यथा प्रलपनात्। कः पुनः सूत्राभिप्राय इति चेदत आह-यस्मिन्नर्थे सूत्रास्य निपतोऽवतारस्तं शृणु समासेनसंक्षेपेण वक्ष्येऽहम्समा सरणे उद्देसे, छविधिपत्ताण दोण्ह पडिसेधो। अप्पत्ताण उगहणं, उवधिस्स उसातिरेगस्स।।५५३|| प्रथमसमवसरणज्येष्ठवग्रहोवर्षावासइतिचैकार्थम, द्वितीयसमवसरणम्। ऋतुबद्ध इति चैकार्थम्, तत्र यउद्देशस्तद्विषयः षविधो निक्षेपः कर्तव्यः। 'पत्ताण दुण्ह पडिसेहो' त्ति आर्षत्वाद्विभक्तिव्यत्ययः, द्वाभ्यां-क्षेत्रकालाभ्यां प्राप्तनां वस्त्रादिग्रहणे प्रतिषेधो भवति, अप्राप्तानां तु सातिरेकस्योपधेर्ग्रहणं भवतीति नियुक्तिगाथासमासार्थः। (अथ विस्तरार्थ 'उदेस' शब्दे द्वितीयभागे 765 पृष्ठे गतः।) तत्रा क्षेत्रोद्देशेन कालोद्देशेन वाऽधिकारः। शेषास्त विनेयव्युत्पादनार्थमुच्चारितार्थसदृशा इति कृत्वा प्ररुपिताः, तदत्र परेण यदुदग्मौद्देशिकं प्रतिपादितं तत्राधिकृतमिति स्थितम् अथ प्राप्तनामिति पदं व्याख्याति-- खित्तेण य कालेण य, पत्तापत्ताण हुँति चउमङ्गो। दोहि विपत्तो ततिओ, पढमो बितिओ य एक्कणं // 557|| क्षेत्रोण कालेण च प्राप्तनां चतुर्भङ्गी भवति। क्षेत्रोण प्राप्ता न कालेन 1, कालेन प्राप्ता न क्षेत्रेण 2, क्षेत्रोण कालेन च 3, प्राप्ताः, नापि क्षेत्रण नापि कालेन 4, अत्रा तृतीयो भङ्गो द्वाभ्यामपि क्षेत्रकालाभ्यां प्राप्तः / चतुर्थः पुनरुभाभ्यामप्यप्राप्तः। अथामूनेव भङ्गान् भावयतिवासखित्तपुरोक्खड-उडुबद्धठियाणखेत्तओ पत्तो। अद्धाणमादिएहिं,दुल्लभखित्ते चवीओ उ॥५५८|| वर्षाक्षेत्रो पुरस्कृतं प्रथमत ऋतुबद्धकाले स्थितानां क्षेत्रतः प्राप्ता इति प्रथमो भङ्गो भवति। इयमत्रा भावना-ऋतुबद्धे चरमो मासकल्पो यत्र कृतः। अन्यच वर्षावासप्रायोग्य क्षेत्रं नास्तिततस्तत्रैववर्षावासं कर्तुकाम आषाढपूर्णिमामद्याप्यप्राप्नुवन्तः प्राप्ता न काल इत्याद्यो भङ्गो भवति, अध्वप्रतिपन्नतादिभिः कारणैर्दुर्लभ वा वर्षावासप्रायोग्ये क्षेत्रे अपान्तराल एव आषाढ-पूर्णिमा संजाता एवं द्वितीयो भङ्गो भवति। आसाढपुण्णिमाए, ठिया उदोहिं पिहोंति पत्ताउ। तत्थेव य पडिसिज्झइ, गहणं ण उसेसभनेसु // 55 वर्षाक्षेत्र आषाढपूर्णिमायां ये स्थिता ते द्वाभ्यामपि क्षेत्रकालाभ्यां प्राप्ता भवन्ति, आषाढपूर्णिमामासप्राप्तनामन्तरा अध्वनि वर्तमानानाम ऋतुबद्धे मासकल्पे भवा अन्यत्रा क्षेत्रे स्थितानां चतुर्थो भङ्गो भवति। अथ ततत्रैव तृतीयभङ्ग एववस्त्रादीनांग्रहणंप्रतिषिध्यते, नशेषेषु-प्रथमद्वितीयचतुर्थभनेषु एकत्तरेण द्वाभ्यांवा अप्राप्तत्वात्। एतेन 'दोहपडिसेहो त्ति व्याख्यातम्।अ