________________ वत्थ 546- अमिधानराजेन्द्रः - भाग 6 वत्थ वस्त्रं गृहीतम्, गृहीते च तस्याः संयतप्रतिश्रये आगमनम्, आगता च सा पुत्रो मे भविष्यति नवेत्यादिकं निमित्तं पृच्छति, येन वाढं भोगिकस्यातिरुचिता भवामि तत्किमप्युपदिश / ततः साधुना वक्तव्यं न कल्पते कल्पते मैथुनं प्रतिसेवितुंसाधुवा विरलं निमित्तं वा नाहं जानामि, एवमुत्के यदि सा वस्त्रं भूयोऽपि मार्गयेत् ततः प्रतिदातव्यम् / अथ तेन वस्त्रेण छित्त्वा पाठाबन्धादिकं किमपि परं कृतं तन्निश्छन्नमपि तदा दातव्यम्। अथ न छिन्नं गृह्णाति ब्रवीति च मम सकलमेव प्रयच्छततो राजकुलं गत्वा व्यवहारे प्रारब्धे कारणिका अभिधातव्याः। यथा केनचिद् वृक्षस्वामिना वृक्षो विक्रीतः, क्रयकेण च मूल्यं दत्त्वा च स गृहं नीतः, ततो विक्रयकः पश्चात्तापितो भणति प्रतिग्रहणं मूल्यं प्रत्यपर्य मदीयं वृक्षम् / क्रयिकः प्राह-मया स वृक्षश्छित्त्वा पृथक काष्ठानि कृतः / अथ कथं तमेव व्रक्षमखण्डमहं ते समपयामि; एवं विवदमानौ तौ राजकुलमुपस्थितौ। ततः कथयत कारणिकाः किं स क्रयिको युष्माभि वृक्षं दाप्यते, अथवा काष्ठानि दाप्यन्ते। ततः काष्ठान्येव न पूर्वावस्थं वृक्षमिति व्यवहारो लभ्यते। पाहुण एणऽण्णेण्ण व, णीयं बहि हॉइइ हयं व डझं वा। तहिं य अणुसडाई, अन्नं वा दट्ठमोत्तूणं // 662 / / अथ वस्त्रं प्राघूणणकेनान्येन वा साधुनाऽन्यत्र नीतं भवेत् स्तेनेन वा हृतं प्रदीपनकेन वा साधुनाऽन्यत्र नीतं भवेत् स्तेनेन वा हृतं प्रदीपनकेन वादग्धम्, ता चानुशिष्ट्यादिकं कर्तव्यम्, अनुशिष्टिमि सद्भावकथनपुरस्सरप्रज्ञापना। तथाप्यनुपरतायां धर्मकथा कर्तव्या, विद्यया मन्त्रेण वा निराकरणीया। तदभावेन्यद्वस्त्रं तस्या दातव्यम्। परिदग्धं वस्त्रं मुक्ता दग्धे हृते वा न किंचिद्दीयते इति भावः / यदि सा राजकुलमुपतिष्ठते ततस्त्रापि व्यवहारो लभ्यते, दत्तादानम् नीश्वर इति। अथ दानकाले साधुना पृष्टं किं निमित्तं ददासि, तत्र सा तूष्णीका स्थितानबहिश्चेष्टया तथाविधः कोऽपि भाव उपदर्शितः परं ग्रहणानन्तर काचिदुपाश्रयमागत्य वेण्टलं पृच्छति चतुर्थमवभाषते। तथा तत्राभिधातव्यम् - न विजाणामों निमित्तं, न य मे कप्पइ पउंजिइं गिहिणो। परदारदोसकहणं, तं मम माया य भगिणी य / / 663|| वयं निमित्तं न जानीमः, न वाऽस्माकं जानतामपि गृहिणां पुरतो निमित्तं प्रयोक्तुं कल्पते, ततः संयमादिकृतिप्रसङ्गात्।या चतुर्थमवभाषते तस्याः परदारदोषकथनं क्रियते। यथा-परपुरुषपरदारप्रसत्कयोः स्त्रीपुंसयोरिहैव भवेद्दण्डनतर्जनताडनादयः / परभवेनरकगतौ गतानां तथाऽयः पुत्तलिकालिङ्गमादाय तत उवृत्तानां तिर्यग्मनुष्य भवग्रहणं भूयोऽपि नपुंसकत्व भाग्यप्रभृतयो वा। एकस्स व एकस्स व, कज्जे दिजंत गेण्हई जो उ। ते चेव तत्थ दोसा, बालम्मिय भावसंबंधो॥६६॥ एकस्य वापूर्वसम्बन्धस्य एकस्य वा-पश्चात्सम्बन्धस्य कार्ये दीयमानं वस्त्रं यः साधुर्गृह्णाति तस्य ते एव शङ्कादयः प्रागुक्ता दोषा वालेवालविषये-भावसम्बन्धो वक्ष्यमाणो भवतीति समासार्थः / अथैनामेव गाथां विवृणोति अहसा पुट्ठा-ण वत्थ बन्धेण वा सरिसमाह। संकाइया उतत्थ वि, कडगा य बहुमहिलियाणं // 665|| अथ-सा दात्री पृष्टा सती पूर्वसंबन्धेन यादृशो मम भ्राता तादृश एव त्वं वर्तसे, पश्चात्सम्बधेन तु श्वशुर इव भर्तृवत्सिद्धस्वं विलोक्यसे अतोऽहं भवतो वस्त्रं प्रयच्छामि इत्याहएव-मभ्यन्तरेण सम्बन्धकार्येण दीयमानं यदि गृह्णाति तदा एवं शङ्कादयो दोषाः, यदि तस्या अविरतिकाया वालमपत्यं किमपि विद्यते तदा स साधुस्तया सह सम्बन्धभावेन प्रतिपन्नः सन् चिन्तयति - इदं मे भागिनेयम् / अथ भर्तृतया प्रतिपन्नस्ततश्चिन्तयति-इदं मे पुत्रभाण्डम्, एवमादिको भावे बन्धो भवति, ततश्च प्रतिगमनादयो दोषाः / किञ्च-महिलिकाना बहुभिक्षणकानि कैतवानि भवन्ति, तेन देवरादिग्रहणेपायेन सम्बन्धमानीय चारित्रात् परिभ्रंशयन्तीति भावः। यत एवमतःएयद्दोसविमुकं, वत्थग्गहणं तु होइ कायव्वं / खमउ ति दुव्वलो त्तिय, धम्मो त्तिय होति निहोसं // 666|| एतैरनन्तरोक्तैर्दोषेर्विमुक्तं वस्त्रग्रहणं साधुना कर्तव्यं भवति, कथमित्याह - 'खमउ' त्ति इत्यादि, यदि सा दात्री पृष्टा सती ब्रूयात क्षपकस्तपस्वी त्वम्, अथवा दुर्बलोऽसि क्षपकतया स्वभावेन ततस्ते प्रयच्छामि, यतस्तपस्विने दीयमाने धर्मो भवतीति कृत्वा ददामि, एवं ब्रुवति दायकेन तद्वस्त्रं लभ्यमानं निर्दोष भवति। किञ्चआरम्भनियत्ताणं, अकिणंताणं अकारविंताणं / धम्मट्ठा दायव्वं, गिहिहि धम्मे य कयमणाणं / / 667 / / आरम्भ-षटकायमईस्तस्मान्निववृत्तानां अक्रीणतांवस्त्रा-दिक्रयमकुर्वाणानाम् अकारयताम् आरम्भक्रयकारणे परम-व्यापारयताम् एवंविधानां धर्मे-श्रुतचारित्रभेदभिन्ने कृतमनसां-साधूनां गृहिभि:सर्वारम्भप्रवृत्तैर्धर्मार्थ कुशलानुबन्धिपुण्योपार्जनार्थं वस्त्रपाठादिकं यथायोग्यं दातव्यमिति बुद्ध्या यत्रोपसाकादिर्वस्त्रेणपनिमन्त्रायति तस्य ग्रहीतव्यमिति प्रक्रमः। तदेवं वस्त्रमुत्पन्नं यावद्गुरुणां समीपे न गम्यते तावत्कस्यावग्रहे भवतीति। उच्यतेसंघाडए पविडे, रायणिए तह य ओमराइणिए। जं लब्मति पायोग्गं, राइणिए उग्गहो होइ / / 668 / / उपयोगे कायोत्सर्ग कृत्वा भिक्षार्थं संघाटकः प्रविष्टः तौको रात्निको द्वितीयोऽवमरालिकः / ता च यत्प्रायोग्यं संधाटकेन लभ्यते तद्यायदाचार्यपादमूलं न गम्यते तावत्सर्वं रात्निकस्यज्येष्ठार्यस्यावग्रहो भवति, ज्येष्ठार्यस्तस्य स्वामी इति भावः। अथ यदुत्कम् "कप्पइ से सागारकडं गहा य दोपि उग्गहं अणुन्नवित्ता परिहारंपरिहरित्तए"त्तितदेतत्। यथा केचिदाचार्यदेशीयाः स्वच्छन्दबुद्ध्या व्याचक्षते तथा प्रतिपादयतिदोचं पि उग्गहो त्तिय, केह गिहत्थेसु दोचमिच्छंति। सावय गुरुणो नयॉमो, अणिच्छे पच्छा हरिस्सामो॥६६६||