________________ वत्थ ८४७-अभिधानराजेन्द्रः - भाग 6 वत्थ द्वितीयमपि वारमवग्रहोऽनुज्ञापितव्य इति सूत्रो युदत्कं केचिदाचार्या गृहस्थादिष्विमं द्वितीयमवग्रहमिच्छन्ति, कथमित्याह 'सावय' इत्यादि यः श्रावको वस्त्रं ददाति स वक्तव्यो हे श्रावक! कथम् ? एतद्वस्त्रं गृहीत्वा गुरूणांसमीपेतावन्नयामः यद्याचार्या एते ग्रहीष्यन्ति ततो भूयोऽप्यागम्य / भवतः समीपे द्वितीयं वारमवग्रहमनुज्ञापयिष्याम इति, आचार्या वस्त्रं न ग्रहीष्यन्ति ततस्तेषां वस्त्रस्यानिच्छायां भवेत् एवेदं प्रत्याहरिष्यामः। इहरा परिद्ववणिया, तस्य व पच्चप्पिणंति अहिगरणं / गिहिगहणे अहियरणं, सो वा दट्टण वोच्छेदं // 670|| इतरथा यद्येवंन विधीयतेततो दर्शितमपि वस्त्रं यदा आचार्यान गृहीयुस्तदा परिष्ठापनिकादोषः, अथ न परिष्ठा-पयन्ति ततोऽप्रातिहारिकं गृहीत्वा भूयस्तस्यैव गृहस्थस्य प्रत्यर्पयतां परिभोगधावनादिकमधिकरणमुपजायते। अथ तत्परिष्ठापितं वस्त्रं कोऽपि गृही गृह्णाति ततोऽप्यधिकरणमेव, सवा दाता तद्वस्त्रं परिष्ठापितमन्यगृहस्थगृहीतं वा दृष्टवा तद्-द्रव्यान्यद्रव्यव्यवच्छेदम्, एकस्यानेकेषां वा साधूनां कुर्यात्। __अथ सूरिः परोक्तं दूषयन्नाह - चोयग ! गुरुपडिसिद्धे, तहिं पउच्छे धरिज दिन्नंसु / धारणपण्णे अहिगरणं, गेण्हज्ज सयं व पडिणीतं / / 671 / / हे नोदक ! एवं क्रियमाणे तेएव प्रागुत्कदोषा भवन्ति। तथाहि-तद्वस्त्रमानीय गुरूणामर्पितं तेन चाचार्याणां न प्रयोजनं ततस्तैः प्रतिषिद्धम्, तब वस्त्रं यावत्तस्य दायकस्य प्रत्यर्प्यते तावदसौ ग्रामान्तरं प्रोषितः / प्रोषितेच तस्मिन् यदि तद्वस्वं धारयति-परिभुड्ते इत्यर्थः, तदा अदत्तादानम्, अथ तस्य सत्कं भणित्वाधारयति तदाऽधिकरणम्, आत्मार्थिनं कृत्वाधारयति अथाप्यधिकरणम्। अतिरिक्तोपकरण स्यापरिभोग्यतया अधिकरणत्वात् / अथ तद्वस्त्रम् उज्झति-परिष्ठापयतीत्यर्थः तथाऽपि गृहिगृहीतोऽधिकरणं परिष्ठापनादोषाः, अथवा-प्रतिनीतं तद्वस्त्रं स्वयमेवात्मना गृह्वीयात्, न प्रतिदद्यादिति भावः। तस्मादेष नयुत्को द्वितीयावग्रहः / बृ०१ उ०३ प्रक०। (14) धौतस्य प्रतापनविधिमधिकृत्याहसे मिक्खू वा भिक्खुणी वा अभिकंखिज्ज वत्थं आयावित्तए वा पयावित्तए वा तहप्पगारं वत्थं नो अणंतरहियाए 0 जाव पुढवीए संताणए आयावित्तए वा पयावित्तए वा / से भिक्खू वा मिक्खुणी वा अभिकंखिज्ज वत्थं आयावित्तए वा पयावित्तए वा तहप्पगार वत्थं थूणंसि वा गिहेलुगंसि वा उसुयालंसि वा कामजलंसि वा अन्नयरे तहप्पगारे अंतलिक्खजाए दुब्बद्धे दुन्निक्खित्ते अणिकंपे चलाचले नो आयावित्तए वा नो पयावित्तए वा, से भिक्खू वा भिक्खुरी वा अभिकंखिज्ज वत्थं आयावित्तए वापयावित्तए वा तहप्पगारं वत्थं कुकियंसि वा भित्तंसि वा सिलंसि वा लेलुंसि वा अन्नयरे वा तहप्पगारं अंतलिक्खजाए 0 जाव नो आयाविज वा पायाविज्ज वा / / से मिक्खू वा भिक्खुणी वा वत्थं आयावित्तए वापयावित्तए वा तहप्पगारंवत्थं खंधसि वा मंचंसि वा मालंसि वा पासायंसि वा हम्मियतलंसि वा अन्नयरे वा तहप्पगारं अंतलिक्खजाए नो आयाविज्ज वा नो पयाविज वा।। से भिक्खू वा भिक्खुणी वा तमायाए एगतमवकमिला 2 अहे झामथंडिलंसि वा 0 जाव अन्नयरंसि वा तहप्पगारंसि थंडिल्लंसि पडिले हिय 2 पमज्जिय 2 तओ संजयामेव वत्थं आयाविज वा पयाविज वा एवं खलु० तस्स भिक्खुस्स वा 2 सामग्गियं वत्थेसणाए (सू०-१४८)त्ति बेमि॥ स भिक्षुरव्यवहितायां भूमौ वस्त्रं नाताफ्येदिति / किञ्चस भिक्षुर्यद्यभिकाजयेद्वस्वमातापयितुंततःस्थूणादौ चलाचले स्थूणादिवस्त्रपतनभयानातापयेत्, तत्र गिहेलुकः-उम्बरः उसुयालं-उदूरखलम् कामजलंस्नानपीठमिति। स भिक्षुर्भिनिशिलादौ पतनादिभयाद्वस्त्रं नातापयेदिति। स भिक्षुः स्कन्धमञ्चकप्रासादादावन्तरिक्षजाते वस्त्र पतनादिभयादेव नातापयेदिति / यथा चातापयेत्तथा चाह-स भिक्षुस्तद्वस्वमादाय स्थण्डिलादि प्रत्युपेक्ष्य चक्षुषा प्रमृज्य च रजोहरणादिना तत आतापनादिकं कुर्यादिति, एततस्य भिक्षोः सामग्यमिति। आचा०२ श्रु०१चू० 5 अ०१ उ०। (15) धरणविधिरभिधीयते, इत्यनेन सम्बन्धेनायातस्यादयो "द्देशकस्यादिसूत्रम् - से भिक्खू वा भिक्खुणी वा अहेसणिज्जाइं वत्थाई जाइजा अहापरिग्गहियाइं वत्थाई घारिज्जा नो धोइज्जा नो रएज्जा नो धोयरइत्ताई वत्थाई धारिज अपलिउंचमाणो गामंतरेसु 0 ओमचेलिए, एवं खलु वत्थधारिस्स सामग्मियं / / से भिक्खू वा भिक्खुणी वा गाहावइकुलं पविसिउकामे सव्वं चीवरमायाए गाहावइकुलं निक्खमिज्ज वा पविसिज वा, एवं बहियविहारभूमि वा वियारभूमिं वा गामाणुगामं वा दूइजिज्जा, अह पुण एवं जाणेज्जा तिव्वदेसियं वा वासं वासमाणं पेहाए जहा पिंडेसणाए नवरं सव्वं चीवरमायाए। (सू०-१५६) स भिक्षुः यथैषणीयानि-अपरिकर्माणि वस्त्राणि याचेत तथा परिगृहीतानिच धारयेत्, नतत्र किञ्चित्कुर्यादिति दर्शयति, तद्यथा-नतद्वस्त्रं गृहीतं सत् प्रक्षालयेत् नापि रञ्जयेत्, तथा नापि वाकुशिकतया धौतरत्कानिधारयेत्, तथाभूतानि नगृहीयादित्यर्थः, तथाभूताधौतारस्कवस्त्रधारी च ग्रामान्तरे गच्छन् 'अपलिउंचमाणो' त्ति अगोपयन् सुखेनैव गच्छेद, यतोऽसौ-अवमचेलिक:-असारवस्त्रधारी, इत्येतत्तस्य भिक्षोर्वस्वधारिणः सामायं-सम्पूर्णो भिक्षुभावः यदेवंभूतवस्त्रधारणमिति। एतच्च सूत्रां जिनकल्पिकोद्देशन द्रष्टव्यं, वस्त्रधारित्वविशेषणाद् गच्छान्ततिऽपि चाविरुद्धमिति। किञ्च-'से' इत्यादि पिण्डैषणावन्नेयम्, नवरं तत्र सर्वमुपधिम्, अत्र तु सर्वं चीवरमादायेति विशेषः।