________________ बत्थ . 945 - अभिधानराजेन्द्रः - भाग 6 वत्थ अथ विस्तरार्थं बिभणिषुराहदुविहं च होइ वत्थं, जायगवत्थं निमंतणाए य। णिमतणवत्थं ठप्पं, जायणवत्थं तु वोच्छामि // 651|| द्विविधं भवति वस्त्रं याञ्चावस्त्रम्, निमन्त्रणावस्त्रं च। तत्रा निमन्त्रणावस्त्र स्थाप्यम्, पश्चादभिधास्यते इत्यर्थः, याञ्चावस्त्रं पुनः साम्प्रतमेव वक्ष्यामि। यथाप्रतिज्ञातमेव निर्वाहयतिनाम ठवणावत्थं, दय्ववत्थं च भाववत्थं च। एसो खलु वत्थस्स, निक्खेवो चउविहो होइ॥६५२॥ इत्यादिका–“एवं तु गविद्येसुं, आयरिया देंति जस्सर्जनत्थिासमभागेसु कएसुव, अह राइणिया' भवे बीओ॥१॥" इति पर्यन्ताः षट्चत्वारिशग्दाथाः पीठिकायां वस्त्रकल्पिकद्वारे तथैवात्र दृष्टव्याः। उपसंहारन्नाहएयं जायणवत्थं, भणियं एत्तो निमंतणं वोच्छं। पच्छा दुगपरिसुद्धं, पुणरवि पुच्छेजिमा मेरा / / 653 / / एतद्याञ्चावस्त्रं भणितम्, इत ऊर्ध्वं निमन्त्रणावस्त्रं वक्ष्यामि, तच तथा--कस्यैतद्वस्त्रं किं वा नित्यनिवसनीयादि-कमिद्मासीदिति पृच्छाद्वयेन परिशुद्धं भवति, तदा पुनरपि तृतीयया पृच्छया पृच्छेत्। तत्राचेयं वक्ष्यमाणा मर्यादासामाचारी। तामेवाहविउसग्गजोगसंघा-डए य नाइअकुले तिविहपुच्छा। कस्स इमं किञ्च इम, कस्स व कज्जे लहुगआणा / / 654 // व्युत्सर्गो नाम-उपयोगसंबन्धिकायोत्सर्गः,तं कृत्वा यस्य च योग इति भणित्वा संघाटकेन भिक्षार्थ निर्गतस्ततो भोगिककुले उपलक्षणत्वादन्यत्रापि यथा प्रधाने कुल प्रविष्टः कयाचिदीश्वरया महतासंभ्रमेण भत्कपानेन प्रतिलाभ्य वस्त्रेण निमन्त्रितः, तत्र त्रिविधा पृच्छा प्रयोत्कव्या, तद्यथा कस्य सत्वमिदं वस्त्रम्, किं चेदमासीत्, अनेन पृच्छाद्वयेनपरिशुद्धं यथा भवति तथा राष्टव्यम्। कस्य वा कार्यस्य हेतोः प्रयच्छसीति यद्येवं न पृच्छति ततश्चत्द रो लघवः, आज्ञादयश्च दोषाः। तानभिधित्सुराह - मिच्छत्त सोच संका, विराहणा भोइए तर्हि गए वा। चउत्थं च वेटलंव, वत्थगदाहणं च ववहारो॥६५॥ भोगिन्या दीयमानं वस्त्रं, यदि केन कार्येण प्रयच्छसीति न पृच्छयते तदा भोगिको मिथ्यात्वं गच्छेत्। अथासौ देशान्तरं गतस्तत आगतश्य महत्तरादिमुखात् श्रुत्वा शङ्का भवति, भोगिके तत्रा स्थिते गते वा देशान्तरप्राप्ते पश्चादपेते सति विराधना वक्ष्यमाणा भवति।सा वाऽविरतिका चतुर्थ वा-मैथुनमवभाषेत, वैण्टलं-वशीकरणादिप्रायोग्य पृच्छेत्, ततश्च वक्तव्य वैण्टलमहनजानामि उपलक्षणत्वाच्चतुर्थ च सेवितु न कल्पते। ततो यदि सा वस्त्र याचेत तदा दानं कर्त्तव्यं भूयोऽपि तस्या एव तद्वरनं समर्पणीयमिति भावः। अथ तद्वस्त्रं छिन्नं वा प्राघूर्णकादीनां दत्तं वा भवेत्, सा व तदेव वस्त्रं मागयेत्, तदा राजकुलं गत्या व्यवहारः, कर्तव्य इति द्वारगाथासमासार्थः। - अथैनामेव विवरीषुराहवत्थम्मि नीणियम्मि, किं दलसि अपुच्छिऊण जइ गेण्हे। अन्नस्स भोयगस्सव, संका घडिया णु किं पुट्विं // 656 / / वस्त्रे भोगिन्या निष्काशिते सति यदि किमर्थं ददासीत्यपृष्ट च गृह्णाति तदा भोत्कुस्तदीयस्यैव भर्तुः अन्यस्य वा श्वशुरदेवरादेराशङ्का भवति, किं मन्ये एतौ परस्परं पूर्वमेव घटितौ यदेवं तूष्णीकौ दानग्रहणे कुरुतः। अथवा-किमेषा मैथुनार्थिनी भूत्वा वस्त्रमस्मै प्रयच्छन्ति, ततो वैण्टलार्थिनीति। मिच्छत्तं गच्छेजा, दिजंतं ददु भोइओ तीसे। वोच्छेयपदोसं वा, एगमणेमाण सो कुज्जा / / 657|| तद्वस्त्रं दीयमानं दृष्ट्वा तस्याः सम्बन्धी भोजको भर्ता मिथ्यात्वं गच्छेद वा यन्निस्सारं प्रवचनममीषामित्यादिप्रतिपन्नमिथ्यात्वश्च तस्य वा एकस्य साधोरनेकेषांवा साधूनां तद्-द्रव्यान्यद्रव्यवच्छेदं कुर्यात्, प्रद्वेषं वा गच्छेत्। एमेव पउच्छं-तो, इयम्मि तुसिणीयदाणगहणे तु। महतरगादीकहिए, एगतरपदोसवोच्छेदो॥६५८|| मेहुणसंकमसंके, गुरुगा मूलं च वेंटले लहुगा। संकमसंके गुरुगा, सविसेसतरापउछम्मि॥६५॥ एवमेव योषिति देशान्तरगतेऽपि भोगिके दोषा वक्तव्याः, तथा तेनभोगिकेन देशान्तरं गच्छता ये महत्तरकाः स्थापिता-स्तैरादिशब्दान्महत्तारिकया यक्षरिकया कर्मकरेण वा तयोर-विरतिकासंयतयोस्तूष्णीकदानग्रहणे दृष्टवा भोगिकस्य पूर्वं समागतस्य कथितम्, ततश्च स एकतरस्य अविरतिकायाः संयतस्यवा उपरि प्रद्वेषं गच्छेत्, प्रद्विष्टश्चाविरतिकां संयतं वा हन्यान्निष्काशयेद्वा वध्नीयाद्वा, विमानयेद्वा, व्यवच्छेदमेकस्यानेकेषां वा कुर्यात् / अत्रा मैथुनशङ्कायां चत्वारो गुरुकाः, निःशङ्किते मूलम्, वेण्टलशङ्कायां चत्वारोलघुकाः, निःशङ्कित्ते चत्वारोगुरवः सविशेषतराश्च दोषाः प्रोषिते भोगिके भवन्ति। ते च यथास्थानं प्रागेवोत्काः। एवं ता गेण्हते, गहिए दोसा पुणो इमे होति। घरगयमुवस्सए वा, ओभासइ पुच्छए वावि॥६६०।। एवं तावद् गृह्णतो दोषा उत्काः, गृहीते पुनर्वस्त्रे एते वक्ष्यमाणा दोषा भवन्ति, तस्मिन् गृहे यदा स एव साधुरन्यस्मिन् दिवसे गतो भवति, सा च अविरतिका तस्य साधोरुपाश्रये आगता भवति, तदा मैथुनमवभाषते। त्वं ममोद् भ्रामको भवः, वेण्टलं वा सा पृच्छति, कथय किमपि तादृशं वशीकरणं येन भोगिको मे वशी भवति। इदमेव स्पष्टयतिपृच्छाहीणं गहियं, आगमणं पुच्छणा निमित्तस्स। छिण्णं पिहुदायव्वं, ववहारो लब्भए तत्थ // 661 / / ग्रहणकाले केन कार्येण में प्रयच्छसीत्येवं पृच्छया हीनं वा