________________ वत्थ 854 - अभिधानराजेन्द्रः - भाग 6 वत्थ स्थासि' त्ति क पेटायां-मञ्जूषायामपरस्मिन् वा स्थाने इदमासीत्, तत्र यदि पेटायां किं पृथिव्यादिषु सकायेषु पेटा प्रतिष्ठिता अप्रतिष्ठिता वा, इत्याधुपयुज्य वाच्यम्-कस्येदं किमासीत्, कुत्रासीत्, किं भविष्यतीत्यप्रच्छने चतसृणामपि पृच्छानामकरणे प्रत्येकं चत्वारो लघुकाः। तत्रा किमासीदिति पृष्ट ते गृहस्था अभिदध्यु:निचनियंसण-मजण-छणुस्सवे रायदारिए चेव। सुत्तत्थजाणिएणं, चउपरियट्टे तओ गहणं॥६५०|| नित्यनिवसनं नित्योपभोग्यमेतदासीत् मज्जनकं नाम स्नानान्तरं यत्परिधीयते धौतवस्त्रमित्यर्थः तदासीत् / तथा क्षणः-प्रतिनियतः कौमुदीशक्रमहार्दिकः, उत्सवः-पुनरनियतो नामकरणचूडाकरणपाणिग्रहणदिकः / अथवा-यत्र पकान्नविशेषः क्रियते स क्षणः, या तुपक्वान्नं विनाऽपरो भत्क विशेषः स उत्सवः। क्षणे उत्सवे च परिभुज्यते यत्तत्क्षणोत्सविकं तद्वाऽऽसीत्। तथा राजामात्यमहतमादिभवनेषु गच्छदभिर्यत् परिभुज्यते तदराजद्वारिकं तद्वाऽऽसीत्। तौवमुत्के सूत्रार्थज्ञेन गीतार्थेन चतुर्णानित्यनिवसनीयादीनां परिवर्तनानां वस्त्रयुगलानां समाहारश्चतु: परिवर्तनं यथा दृश्यं परिवर्तनमेकतरं वा वस्त्रं ददाति तादृशे अन्यस्मिन् व्याप्रियमाणे सति ततो ग्रहणं कर्तव्यम्। एतदेव भावयतिचिनियंसणियं ति य, अण्णस्सइ पच्छकम्म वहणाई। अत्थि व हंते धिप्पइ, इयरफुसद्धो य गए ययी // 651 // यदि गृहस्थो ब्रूयात् नित्यनिवसनीयमिदमासीत् ततो यदि तस्यापरं नित्यनिवसनीयमस्ति ततः कल्पते, यतोऽन्यस्य नित्यनिवसनीयस्यासत्यभावे पश्चात्कर्मवहनादयो दोषा भवन्ति, पश्चात्-विवक्षितवस्त्रग्रहणानन्तरं कर्माभिनववस्त्रस्य कारापणं-पश्चात्कर्म, वहनं नामअव्याप्रियमाणं वस्त्रं तद्बह-मानकं क्रियते, आदिग्रहणात्-क्रीतकृतप्रामित्यादयो दोषाः, अतो यद्यपरं नित्यनिवसनीयमिति तदपि यदि 'वहमानं व्याप्रियमाणं तदा गृह्यात्। कुत इत्याह-इतरस्मिन् अवहमाने स्प-शनाधौतप्रक्षालनादयो दोषाः / इयमत्र भावना-यद् वहमानं तस्योपभोगार्थमप्कायेनोपस्पर्शनं कुर्यात्, धावनं वा विदध्यात्, तस्य परिभोगप्रारम्भमुद्दिश्य प्रक्षालनं वा कुर्यात्, आदिग्रहणात्-धूपनवासनादीनि वा विदधीत। यत एवं ततोऽन्यस्मिन् वहमाने ग्रहीतव्यम्। अपरिभुत्कमधिकृत्य किमेतद् भविष्यतीति पृष्टः सन्नेचं ब्रूयातहोहिइ व नियंसणियं, अण्णासइगहणपच्छकम्माई। अत्थिन वेविउ गिण्हइ, तहि तुल्लपवाहणा दोसा // 652 / / वाशब्दः परिभुत्कापरिभुत्कस्य पक्षान्तरद्योतकः, भविष्यति नित्यनिवसनीयमेतदित्यभिहिते यद्यपरं तादृशं नास्ति ततोऽन्यस्य तादृशस्यासति ग्रहणे एव पश्चात्कर्मादयो दोषाः। अथास्त्यन्यत् तादृशं ततः कल्पते, तच यद्यपि नवम-वहमानकं तथापि गृह्णाति, कुत इत्याह - तुल्कस्ता प्रवहना दोषाः। किमुक्तं भवति-यदि साधवो गृहन्ति न गृहन्ति वा तथापि स गृहीतयोरपरिभुत्कवस्त्रयोरेकतरमात्मप्रयोगेणैव प्रवहयिष्यति ततः साधूनां गृह्ण तामपि न कश्चिदोष इति। एमेव मजणाई, पुच्छा सुद्धे तु सव्वओ पेहा। मणिमाई दाइंति वि, असिह सेहस्सुवादाणं // 653|| एवमेव यथा नित्यनिवसनीयमभिहितं तथा मजनिकक्षणोत्सविकराजद्वारिकाण्यभिधातव्यानि, यदा पृच्छया शुद्धमिति निर्धारितं तदा सर्वतः-समन्तात् प्रेक्षेत-निभालयेत्, प्रेक्ष्यमाणे च यदि मण्यादिकं-- मणिहिरण्यसुवर्णादिकं किञ्चिदर्थजातमुपनिबद्धमुपलभ्यते तदा भण्यन्ते गृहस्थाः। यथा-निरीक्षध्वं समन्तादपि वस्त्रमिदम्, यदि निरीक्षमाणैस्तैः स्वयमेव दृष्टं तदालष्टम, नो चेत् ततः साधवो 'दाइंति'त्ति दर्शयन्ति इदं यौष्माकीणं किमप्युपनिबद्धमस्ति। आहैवमभिधीयमाने कथमधिकरणे दोषो न भवतीत्युच्यते, अल्पीयानेवायं दोषः, अशिष्ट-अकथिते पुनः शैक्षस्यावधावितुकामस्य तत् द्रव्यमुपादानं भवेत् गृहीतत्वात् प्रव्रजेदित्यर्थः आगारिणो वा महान्तमुड्डाहं कुर्युः, यथा वस्त्रेण सार्द्ध स्तनितमस्मद्रव्यमेभिः श्रमणैः, तत एवं प्रभूततरो दोषो मा भूदिति कथ्यते। उपसंहरन्नाहएवं तु गविट्ठेसुं, आयरिया दिति जस्स जं नत्थि। समभागेसु कएसुव, जह राइणिया भवे बीओ।।६५४|| एवमुत्कप्रकारेणैव वस्त्रेषु गवेषितेषु यथासंभवं लब्धेषु च गुरुणां समीपमागम्य यथावदालोच्य वस्त्राणि विधिवद्दर्शयति, ततः आचार्या यस्य साधोर्यजघन्यं मध्यमम् उत्कृष्टं वा वस्त्रं नास्ति तस्मै तहदतीति प्रथमः प्रकारः। पश्चार्धे द्वितीयस्सः समेषुतुल्येषु भागेषु कृतेषु साधूनां संख्यामनुमाय प्रेमाशङ्कतया वस्त्रेषु विभङ्गेष्विति भावः / वाशब्दः प्रकारान्तर द्योतेन यथा रत्नाधिकः तस्मै प्रथमं दीयते इत्ययं भवेत् द्वितीयो दानप्रकारः, इत्युक्तो वस्वकल्पिकः / बृ० 1 उ०१ प्रक० / नि० चू०। दर्श०। पं०भा०। पं० चू०। (13) साम्प्रतमुत्तरगुणानधिकृत्याहसे भिक्खू वा भिक्खुणी वा से जं पुण वत्थं जाणेज्जा असंजए भिक्खुपडियाए कीयं वा धोयं वा रत्तं वा घट्ट वा मटुं वा संमटुं सम्पूधमित्तं वा तहप्पगारं वत्थं अपुरिसंतरकडं० जाव णो पडिग्गाहेजा अह पुण एवं जाणेजा पुरिसंतरकडं 0 जाव पडिग्गाहेजा। (सू०-१४४) 'से' इत्यादि, साधुप्रतिज्ञया-साधुमुद्दिश्य गृहस्थेन क्रीतधौतादिकं वस्त्रमपुरुषान्तरकृतं न प्रतिगृह्णीयात्, पुरुषान्तरस्वीकृततुगृह्णीयादिति पिण्डार्थः। आचा०२ श्रु०१चू०५ अ०१उ०।याञ्चावस्वं निमन्त्रणावस्त्रं वा याचेत इति / (''निग्गंथा णं च गाहावइकुलं" 36 इत्यादि सूत्रम्-'उवहि' शब्दे द्वितीयभागे 1078 पृष्ठेसामान्यतो व्याख्यातम्।)