________________ वत्थ 843 - अमिधानराजेन्द्रः - भाग 6 वत्थ अथ भ्रष्टश्रमणच्छन्नद्वारद्वयमाहजइ रज्जाओ भट्ठो, किं चीरेहिं पि पिच्छ एयाणिं। अच्छिमहं साभरगा, मा हिरेजत्ति पव्वइओ // 641 / / राजपदच्युतः प्राह-यद्यहं राज्याद्दष्टः तत् किं चीरेभ्योऽपि, नैवेत्यर्थः / पश्यत-अवलोकयत एतानि मद्गृहे भूयांसिवासांसीति ब्रुवन् हस्तसंज्ञया दर्शयति। श्रमणः पृच्छन्नोऽथाह-सन्ति मम पावं बहवः 'साभरग' त्ति देशीवचनम्, रूपकास्तेऽवमा राजकुलादिना हियेरन्नित्यहं प्रव्रजितः-- शाक्यतापसपरिव्राजकाजीवकाख्यानं श्रमणानामन्यतमः संवृत्त इत्यर्थः / / अथ स्तेनको यद् ब्रूयात्, तदाहअच्छिमे घरे वि वत्था, नाहं वत्थाई साहु चोरेमि। सुद मुणिअं व तुब्मे, किं पुच्छह किं च हं तेणो // 642 / / सन्ति मे मम गृहे वस्त्राणि अत एव हे साधो ! नाहं वस्त्राणि चोरयामि, यद्वा-सुष्टु शोभनं मुणितम्-परिज्ञातं युष्माभिः, यथाऽहं स्तेनः / को नाम साधून मुक्त्वाऽपरो ज्ञास्यति, तदहं सत्यं स्तेनः, न पुनः साधूनामर्थाय चोरयामि। अथवा-यूयं किं पृच्छथ, यस्य वा तस्य वा भवतु यूयं गृहीत। यदाकिमहं स्तेनो येन यूयं कस्येति पृच्छथ। अत्रापि समाधानं प्राग्वत्। अथ कस्येति पृच्छति-प्रवृद्धामेव द्वारान्तरप्रतिपादिकामिमां गाथामाह - इत्थी-पुरिस-नपुंसग, धाई-सुण्हा य होइ बोधव्वा / बाले अवुड्डजुगले, तालायर-सावए तेणे॥६४३॥ स्त्रीपुरुपनपुंसकधात्रीस्नुषा च भवति बोद्धव्या ततो बाल-युगलं वृद्धयुगलं तालाभिश्चरन्तीति तालाचरा-नटाः सेवकः स्तेनश्च प्रतीतः, इति द्वारगाथासमानार्थः। व्यासार्थं प्रतिद्वारं बिभणिषुराहतिविहित्थी थेरेहि, भणंति मा होज तुज्झ जायाणं। मज्झिमया पइदेवर-कण्णं मा थेरमाईणं // 644|| त्रिविधा स्त्री, तद्यथा-स्थविरा, मध्यमा, कन्या च। तत्रा स्थविरादिस्त्री भणन्ति-मा भूयाजातानां-पुत्राणां सत्कमिदं वस्त्रं तेन वयं कस्येति पृच्छाम, इति योजना सर्वत्रा कर्त्तव्या / मध्यमा भण्यन्ते मा भूत्तव पतिदेवरयोः सत्कम्, कन्यां-कुमारी भणन्ति, मा भूतव स्थविरः-पिता भ्राता प्रतीतः तयोरिति। एमेव य पुरिसाण वि, पंडगपडिसेविसानि आणं ते। सामियकुलस्स धाई, सुण्हं जह मज्झिमा इत्थी // 645 / / एवमेव च यथा स्त्रीणा तथा पुरुषाणामपि स्थविरमध्यमत रुणभेदस्वैविध्यं द्रष्टव्यम्। स्थविरघुरुषो भण्यते, मा तव पुत्राणां कलत्रास्य वा सत्कं वस्वं भवेत् / मध्यमोऽभिधीयते, मा भूत्तव भ्रातृणां पत्न्या वा संबन्धि / तरुण उच्यते मा तव पितुतुि तृणां चास्वाधीनं भवेत्, पण्डको नपुंसकः 'पडिसेवित्ति अकारप्रश्लेषादप्रतिसेवी तृतीयवेदोदयरहितोऽसंल्किष्ट इत्यर्थः, तस्य ग्रहीतुं कल्पते। स चाभिधीयते माते निजानां सम्बन्धिनामिदं वस्त्रं भवेत् यः पुनस्तृतीयवेदोदयो भुक्तस्य हस्तात् गृहतां चत्वारो लघुकाः आज्ञाभङ्गादय आत्मपरोभयमुत्थाश्च दोषाः। या धात्री साऽभिधीयते, मा ते स्वामिकुलस्य स्वामिनो गृहस्य सत्कं भवेत् / स्नुषा-वधू भणन्ति, यथा मध्यमा स्वी भाणिता मा ते पत्युर्देवरस्य वा सम्बन्धि भवेत्। दोण्हं पि अजुयलाणं, जहारिहं पुच्छिऊण जइ बहुणो। गिण्हंति तओ तेसिं, मुच्छा सुद्धे अणुन्नायं // 646|| इह द्वे युगले नाम बालयुगलं वृद्धयुगलं च। बालयुगलं बालो बालिकाः, वृद्धयुगलं वृद्धो वृद्धा वा तयोर्द्वयोरपि युगलयोर्यथार्ह-यथायोग्यं स्वरूपं पृष्ट्वा प्रत्ययिकपुरुषमुखेन च निश्चित्य यदि प्रभवस्ते बालादयस्ततो गृह्णन्ति तेषां हस्तात्। अथन प्रभवस्तदा यत्पितृपुत्रादिप्रभुस्तस्य समीपे यथाऽऽपृच्छ्य किं गृह्यतांन वेति तथा शुद्धं गृह्यतां निर्विकल्पमित्यनुमत्या निःसन्दिग्धे कृते ग्रहणमनुज्ञातम्। तूपति देते मा ते, कुसीलते तेसु तूरिए माते। एमेव भोगिसेवग, तेणा उचउदिवहो इणमो॥६४७|| तूर्यपतिर्नटमहत्तरस्तास्मन् ददति भण्यते, मा ते कुशीलवानां सत्कं भवेत्, तेषु कुशीलेषु ददत्सुमा युष्माकं तूर्यिकस्य तूर्यपतेर्भवेत्, एवमेवतूर्यपतिकुशीलेषूत्क प्रकारेणैव भोगिकसैवयोरपि वाच्यम्, यदि सेवकोददाति तदा वक्तव्यम्, मा ते भोगिकस्य स्वामिनः स्वाधीनं भवेत्। भोगिके दातरि वाच्यम्, मा युष्माकं सेवकस्य सम्बन्धि भवतु / स्तेन स्वरूपमाह-स्तेनः पुनश्चतुर्विधोऽय वक्ष्यमाणलक्षणः। चातुर्विध्यमेवाहसग्गामपरग्गामे, सदेस परदेस होइ उड्डाओ। मूलं छेओ छम्मा समेव गुरुगा य चत्तारि॥६४८|| यस्मिन् ग्रामे साधवः स्थिताः सन्ति स स्वग्रामस्तस्मिन यः स्तैन्य करोति स स्वग्रामस्तेनः, तदपेक्षया अपरस्मिन् ग्रामे स्तैन्यं कुर्वन् परग्रामस्तेनः / स्वदेशे-विवक्षितसाधुविहारविषयभूते विषये चौर्य स्वदेशस्तेनः, तदपेक्षया अपरत्र देशे चौरिकां विदधानः परदेशस्तेनः। एतेषु गृह्णतामुड्डाहः प्रवचना-लाघवं भवति, अहो अमीलुब्धशिरामणयस्तपस्विनो यदेवं स्तेनाहतानि वस्त्राणि गृह्णानाः राजविरुद्धमपि तथाऽपेक्षन्ते इति / तेषु प्रायश्चित्तमाह - 'मूलमि' त्यादि स्यग्रामस्तेने गृह्णतां मूलम्, परग्रामस्तेने छेदः, स्वदेशस्तेने षण्मास गुरुकाः, पर-दशस्तेने चत्वारो गुरुकाः, यथाक्रमदूरतरमस्तैन्यदोषत्वादिति भावः / तदेवं व्याख्याता 'इत्थीपुरिस' इत्यादिद्वारगाथा! तद्व-याख्याने च समर्थितं कस्येति पृच्छाद्वारम्। अथ किमासीदिति पृच्छाद्वारमाहएवं पुच्छा सुद्धे, किं आसि इमं तु जंतु परिभुत्तं / किं होहिइ त्ति अह तं, कत्थासि अपुच्छणे लहुगा // 646 // एवं-अमुना प्रकारेण कस्येति पृच्छया शुद्धे निदोषे निर्णीत सति यत्परिभुत्कम भुत्कपूर्वतत्पृच्छयते, किमिदं वस्त्रमासीत्युष्माकंकीदृशमुपयोगमागतवदित्यर्थः, यत्पुनरिह अपरिभुक्तंतत्पृच्छयते, किमेतद्भविष्यतीति'क