________________ वत्थ 536 - अमिधानराजेन्द्रः - भाग 6 वत्थ व्यम्, 'जं तुज्झे कप्पडिय' त्ति वाशब्दः प्रकारान्तरोपदर्शने। प्रकारान्तरेण क्षेत्रोज्झितं प्ररूप्यते इत्यर्थः / यद्वग्रजातमुज्झेयु:-परित्यजेयुः कार्पटिकाः स्वदेशं प्रति व्यावृत्त्या गच्छन्तः स्वदेशाद्वा देशान्तरं प्रस्थिता अपान्तराले बहुपापामरण्यानीं मत्वा किं तस्कराणां हेतोर्निरर्थक वस्त्रभारं वहाम इति कृत्वा यदुज्झन्ति, यद्वा बहुवस्त्रे वस्त्रपचुरे देशे ऽन्यत्सुन्दरतरंवस्वंलब्ध्वा पुरातनंपरिहरेयुः एतत्सर्यमपि क्षेत्रोज्झितम्। कालोज्झितमाह - कासाइमाइ जं पु-स्वकालजोग्गं तदन्नहिं उण्हे। होहि वि एस्सइ काले, अजोग्गयमणागयं उज्झे // 616 / / कषायेण रत्का काषायी गन्धकषायिकेत्यर्थः,सा हिस्वभावतएवातिशीतला ग्रीष्मर्तुभरेऽपि सकलसंतापनिर्वापणी शास्त्रेषु पठ्यते, यत उत्कम्-"सरसो चंदणपको, अग्घइ सरसाइ गंधकासाई। पाडुलिसिरीससमधिय-पियाइंकाले निदाहम्मि" आदिग्रहणेतशीतकालोचितवस्त्रपरिग्रहः। ततश्च काषाय्यादिकं द्वयं वस्त्र पूर्वस्मिन् ग्रीष्मादौ काले योग्यमुपयोगि तदन्यस्मिन् वर्षाकालादावुज्झेत-परित्यजेत् / इयमत्र भावना-गन्धकाषाय्यादिकं शीतवीर्यादिष्वपि भावना कार्या / अथ प्रकारान्तरेणैतदेवाह- 'होहि व' इत्यादि 'भव' इत्यादि भविष्यति वा गन्धकाषायिकामेव एष्यति-आगामिनि काले वर्षादावयोग्यमित्यभि-- संधायानागतं वर्षाकालादगिव उज्झेत दपि कालोज्झितम् / भावोज्झितमाह - लखूण अन्नवत्थे, पोराणि य ते उदेइ अन्नस्स। सो वि अनिच्छद ताई, भावुज्झिमेवमाईयं / / 620 / / कोऽपिकस्यापिपाचे लब्ध्वा-प्राप्य अन्यान्मपि अभिनवानिवस्त्राणि ततः स पुराणानि अन्यस्य कस्यचिद्ददाति सोऽपि च तानि दीयमानानि जीर्णानीति कृत्वा नेच्छति तदेतत् भावं जीर्णतापर्यायमाश्रित्योज्झितं भावोज्झितमेव मादिकं ज्ञातव्यम्। तदेवं समर्थिता तुरीयाऽपि प्रतिमा। गच्छवासिनश्चतसृभिः प्रतिमाभिर्वस्वं गवेषयन्तीत्युक्तम्। (7) तत्र परः प्रश्नयति-कया समाचाया ते गवेषयन्ति? इति उच्यतेजं जस्स नत्थि वत्थं, सो उ निवेदेइ तं पवत्तिस्स। सो विगुरुणं साहइ, निवेइ वावारए वाऽवि // 621|| तद्वर्षाकल्पान्ते कल्पादिकषायस्य साधो स्ति-न विद्यते वस्त्रं स तद्विवक्षितवस्त्राभावस्वरूपं निवेदयति प्रवर्तिनः-प्रर्वतकाभिधानस्य तृतीयपदस्थगीतार्थस्य, स हि सकलस्यापि गच्छस्य चिन्तानियुक्तः, सर्वेऽपि साधवः स्वं स्वं प्रयोजनं तस्याग्रे निवेदयन्ति / ततः सोऽपि प्रवर्तको गुरूणामाचार्याणां 'साहइ' त्ति कथयति-विज्ञपयतीत्यर्थः, यथा--भट्टारकाः ? नास्त्यमुकस्य साधोरमुकं वस्त्रमितिगच्छे चेयं सामाचारी यदुताभिग्रहीकाणामस्माभिः सकलस्यापि गच्छस्य वस्त्राणि वा पात्राणि वा पूरणीयानि, अपरेण वा येन प्रयोजनमिति प्रतिपन्नाभिग्रहाः। तेषामाचार्यो निवेदयति, यथा आर्याः। नास्त्यमुकस्यामुकंवस्त्र तेऽप्यनु- | ग्रहोऽप्यस्माकमित्या भिधाय स्वाभिग्रहपरिपालनाय स्वयमेवोत्पादयन्ति। अथ न संप्रत्याभिग्रहिकाः ततः स यदि वस्वार्थ साधुः स्वयमसमर्थः उत्पादयितुंततोऽन्यं वस्त्रोत्पादनसमर्थ गुरवो व्यापारयेयुः, यथावस्त्राणि गवेषया वाशब्दः पक्षान्तरद्योतने, अपिः संभावनायाम्। तत्राभिग्रहिकेण व्यापारितेन वा केन विधिना वस्त्रमुत्पाद यितव्यम् ? उच्यतेभिक्खं चिय हिंडता, उप्यायंतऽसइ बिइअ-पढमासु। एवं पि अलग्मते, संघाडेक्केकवावारे॥६२२।। सूत्रपौरुषीमर्थपौरुषीं च कृत्वा भिक्षामेव हिण्डमाना वस्त्र मुत्पादयन्ति / अथ भिक्षामटन्तो न लभेरन् ततः-असति-अलाभे, द्वितीयस्यां पौरुष्यामर्थग्रहणं हापयित्वा तस्यामप्यभावे प्रथमायां सूत्रपौरुष्यामुत्पादयन्ति / अथैकः पर्यटन्न लभेत बहूनां वा साधूनामुत्पादनीयानि ततः कोविधि रित्याह-एवमेव सूत्रपौरुषीहापनेऽप्ये कसंघाटकेनालभ्यमाने बहूनां चोत्पादयितव्ये संघाटकमेकैकं व्यापारयेत्, तेऽपि तथैव याचन्ते 'भिक्खं चिअहिंडता' इत्यादि। अथ तथापि न प्राप्नुयु स्ततो वृन्दसाध्यानि कार्याणीति वचनात् वृन्देन पर्यटन्ति। आह चएवं पि अलब्मते, मुत्तूण गणिं तु सेसगा हिंडे। गुरुगमणे गुरुओह-मभियोगे सेहहीला य॥६२३॥ एवमपि बहुभिः संघाटकैरप्यलभ्यमाने गणिनमाचार्यमेकं मुक्तवा शेषः सर्वेऽपि वृन्देन हिण्डन्ते, यदि गुरवः स्वयमेवपर्यटन्ति तदा तेषां गुरुणां गमने चत्वारो गुरुकाः 'ओहमि' त्ति यदमी आचार्या अपि सन्त एवमितरभिक्षुवत्पर्यटन्ति नूनमेतेषा माचार्यकमपीदृशमेवेति महतां गुरुणामपभ्राजनाभवेत्। तथा काचिदविरतिका सर्वाङ्गीणलावण्यश्रियाऽलंकृतमाचार्य मवलोक्य मदनपरवशा सती 'अभियोग' त्ति कार्मणं कुर्यात्, अन्यतीर्थिका वा आचार्याणां प्रतापमसहमाना विषप्रयोगं प्रयुजीरन् अवभाषितेषु शिष्माणामाचार्यविषया हीलास्यात्, दृष्टवा आचार्याणां लब्धीः स्वयमपि याचमानाः श्रीवराण्यपिन लभन्तेयस्मादेते दोषास्तस्मादाचार्यैर्न पर्यटनीयम्, शेषाः सर्वेऽपि पर्यटन्तिसवे वा गीयत्था, मीसा व जहन्न एकगीयत्थो। इक्कस्स वि असईए, करिति तो कप्पियं एवं / / 624|| तेच वृन्देन पर्यटन्तः सर्वेऽपिगीतार्थाः केचनागीतार्थाःन प्राप्यन्तेतदा जघन्यत एको गीतार्थः सर्वेषामगीतार्थानामग्रणी भूय पर्यटति, अथ नास्त्याचार्य मुक्तवा परः कोऽपि गीतार्थस्तत एकस्याऽपि गीतार्थस्याऽ. सत्यभावे यः प्रगल्भः सलब्धिकश्च तमेकं वस्वैषणमुत्सर्गापवादसहित कथयित्वा कल्पिकं कुर्वन्ति गुरव इति। अथ तैः केन विधिना गन्तव्यम् ? उच्यतेआवस्स सोहिअखलं-तसमगउस्सग्ग दंडगन भूमी। पुच्छा देवपलंभे न, किं पमाणं धुवं दाहि // 625 / / इह समयपरिभाषया कायिकी संज्ञा व्युत्सर्जनमवश्यं किं --