________________ वत्थ ५३५-अमिधानराजेन्द्रः - भाग 6 वत्थ मध्यमानि छित्त्वा सीवित्वा च उत्कृष्टं करोति-चतुर्लधु, जघन्यं करोति पञ्चकम्। जघन्यानि सीवित्वा उत्कृष्टं करोति चतुर्लघु, मध्यमं करोति मासलघु इति / एवं यत्करोति तन्निष्पन्नमेव प्रायश्चित्तमापद्यते न पुनः छिद्यमानसीव्यमानवसनिष्पन्नम्-अन्येऽप्याज्ञाभङ्गादयो दोषाः द्रष्टव्याः, न वरं विराधना द्विधा-संयमविराधना, आत्मविराधना च / संयमविराधना-वने छिद्यमाने सीव्यमाने वा तद्गता षटपदिकादयो विनाशमापद्यन्ते। आत्मविराधना-हस्तोपघातादिका। तथा यावद्वस्त्र छिद्यते सीव्यते वा तावत्सूत्रार्थपरिमन्थ इत्यादयो दोषा अभ्यूह्य वक्तव्याः। यत एवं दोषजालमुपढौकते ततः करणाभावे छेदनसीवनादि न कर्त्तव्यम् / कारणे तु यतनया कुर्वाणः शुद्धः / बृ०१ उ०१ प्रक०। (5) कियडूरं गवेषणायां वस्त्रस्य गन्तव्यम्से भिक्खू वा भिक्खूणी वा परं अद्धजोयणमेराए वत्थपडियाए णो अभिसंधारिज गमणाए। (सू०-१४२) से भिक्खू वा भिक्खुणी वा से जं पुण अस्सिं पडियाए एणं साहम्मियं समुद्दिस्स पाणाई जहा पिंडेसणाए भाणियव्वं / / एवं बहवे साहम्मिया एणं साहम्मिणिं / बहवे साहम्मिणीओ बहवे समणमाहण० तहेव पुरिसंतर कडाजहा पिंडसणाए। (सू०-१४३) 'से' इत्यादि स भिक्षुर्वस्त्रार्थमड़योजनात् परतो गमनाय मनो न विदध्यादिति सूत्राद्वयमाधाकर्मिकोद्देशेन पिण्डैषणाव न्नेयमिति। आचा० 2 श्रु०१ चू०५ अ० 1 उ०। (6) अथ वस्त्रस्य गवेषणे कति प्रतिमा गच्छवासिनां कति गच्छ निर्गतानामित्यत आहउद्दिद्वपेहि अन्तर, उज्झियधम्मे चउत्थए होइ। चउपडिमा गच्छजिण, दोण्हग्गहभिग्गहण्णयरं॥६१५।। इहयद्वस्वं गुरुसमक्षमुद्दिष्ट-प्रतिज्ञातं यथा-अमुकंजघन्य मध्यममुत्कृष्ट वा आनेप्य तदेव गृहिभ्यो याचमानस्योद्दिष्ट वस्त्रमिति प्रथमा। तथा'पेहि त्ति प्रेक्षा-आलोकनम् तत्पुरस्सरं यद्वस्त्र याच्यते तत्प्रेक्षावस्त्रम्, तथाऽभिनवं वस्त्रयुगलं परिधाय प्रावृत्त्य च पुरातन स्थापयितुकामो न तावदद्यापि स्थापयति इत्यत्रान्तरा-अपान्तराले यद्याच्यते तदन्तरावस्त्रम्, तथा उज्झियं' उज्झितं परित्याग इत्यर्थः, धर्मशब्दश्च यद्यपि "धर्मोपमेयोपमापुण्यस्वभावाचारधनवसु सत्सङ्गेऽर्हत्यहिंसादौन्यायोपनिषदोरपी" ति वचनादनेकैष्वर्थेषु रूढः, तथा पही-प्रकृतत्वात् स्वभावार्थो द्रष्टव्यः। तत उज्झितमेव धर्मः स्वभावो यस्यतदुज्झितधर्म परित्यागार्ह मित्यर्थः, एतच वस्वैषणासूत्रकप्रमाण्याचतर्थमेव चतुर्थक भवति, एताश्चतस्त्रः प्रतिमाप्रतिपत्तयोः-वस्त्रस्य ग्रहणप्रकारा इत्यर्थः / 'गच्छ' ति सूचकत्वात्सूत्रस्य गच्छवासिनामेताश्च तस्रोऽपि भवन्ति, जिणे' त्ति जिनकल्पिकानां यावजीवं द्वयो रूपरितनयोः आार्यादया ग्रहण स्वीकार आग्रहो द्वयोरेवैतर्यो ग्रहणं नाधस्तनयोर्द्वयोरित्यर्थः / तत्राप्यन्तरस्यामभिग्रहः, किमुक्तं भवति-यदा तृतीयस्या ग्रहणं न तदा चतुर्थ्याम्, यदा चतुर्थ्यां न तदा तृतीयस्यामिति नियुक्तिगाथासमासार्थः। अथैनामेव विवृणोतिउद्दिट्ठतिगेगयरं, पेहा पुण ददु एरिसं भणइ। अन्ननियत्थच्छुरिए, इतरऽवणिंतो उतइयाए॥६१६|| उद्दिष्ट-गुरुसमक्षं प्रतिज्ञातं यत् जघन्यमध्यमोत्कृष्टलक्षण स्य त्रिकस्यैकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियनिष्पन्नवस्वत्रिकस्य वा एकतर तदेव वादृष्टं सन्धाव्यमानमुद्दिष्टमिति भाविता प्रथमा प्रतिमा / अथ द्वितीया भाव्यते-'पेहा पुण' त्ति प्रेक्षावस्त्रं यदि पुनरिदम्, यथा कोऽपि साधुः कस्याप्यागारिणः सत्कं वस्त्रं दृष्टवा भणति यादृशमेतद्वस्त्रं दृश्यते तादृशमिदं मे प्रयच्छति भणन् तदेव वस्त्रं हस्तप्रान्तेन दर्शयति तत् प्रेक्षायोत्तरीयवस्त्र युगलद्वारेण प्ररूपणा कर्तव्या, तथा-श्रीमदाचाराने द्वितीये श्रुतस्कन्धे प्रथम अध्ययने प्रमोद्देशके सूत्रामिदम् - "अहावरा तच्चा पडिमा से भिक्खू वा भिक्खुणी वा से जं पुण वत्थं जाणेज्जा, तं जहा-अंतरिज्जगं वा उत्तरिज्जगं वा" अथ किमिदमन्तरीयं किं वा उत्तरीयम् ? उच्यते-अन्तरीयं नाम निवसनं परिधानमित्यर्थः, उत्तरीयं नाम प्रावरणं प्रच्छदपटीत्यर्थः, अथवा-अन्तरीयं यच्छय्यायामधस्तनं वस्त्रमास्तीर्यते, उत्तरीयं पुनः यत्तदुपरि प्रस्तीर्यते तस्मिन्नन्त रीयोत्तरीयवस्त्रयुगले-अन्यस्मिन्नभिनवे नियच्छति निवसिते परिहिते वृत्ते वा इत्यर्थः, द्वितीयव्याख्याना पेक्षया शय्याया उपरि 'अच्छुरिय' त्ति अस्तीर्णे इतरत् पुराणमन्तरीयोत्तरी युगलम् अपनयतश्चानयितुमना इत्यत्रान्तरा यन्मार्ग्यते तदन्तरावस्त्रमिति तृतीया प्रतिमा। संप्रति चतुर्थी व्याख्यानयतिदव्वाई उज्झियद-व्वओ उ मूलं मए न घेत्तव्वं / दोहि वि भावनिसिद्ध, तमुज्झिओ भट्ठणो भट्ट / / 617 / / इह चतुर्थी प्रतिमा उज्झितधर्मवस्त्रं गवेषणीयंतचतुर्दा द्रव्यो ज्झितम्, आदिशब्दात्क्षेत्रकालभावोज्झितपरिग्रहः। तत्र द्रव्यो ज्झितम्, यथाकेनचिदगारिणा प्रतिज्ञातं मया स्थूलवस्त्रं न ग्रहीतव्यम्, अन्यदा तस्य तदेव केनापि वयस्यादिनोपढौकितम्, सचब्रूते-पर्याप्तमेतेन नाहं गृह्णामि, इतरोऽपि ब्रूते-ममाप्यलमेतेन नाहमात्मना दत्तं पुनः स्वीकरोमि इत्येवं द्वाभ्यामपि दायकग्राहकाभ्यां भावतः परमार्थतोऽपि स्पृष्ट परित्यत्कममुष्मिन् देशकाले यदि जिनकल्पिकादिसाधुरव भाषितमनवभाषितं वा लभते तदा द्रव्योज्झितं ज्ञातव्यम्। इह चावभाषितं-याचितम्, अनवभाषितं वस्त्रं विना याचनेन स्वयमेव ताभ्यां प्रदत्तम्। अथ क्षेत्रोज्झितमाह - अमुगिच्चगं न मुंजे, उवणीयं तं च केणई तस्स। जं उज्झे कप्पडिया, सदेसबहुवत्थदेसे वा // 618 // 'अमुगिचगं' अमुकदेशोद्भवं वस्वं न भुजे-नपरिधानप्रावरणोपभोगमानयामि, तथाऽज्ञातविषयांद्भवं वस्त्रं मया न परिभोक्त व्यमिति केनचित्प्रतिज्ञा कृता भवेत्, अथ कदाचित्तस्य 'तं च' ति चशब्दस्यावधारणार्थत्वात्त देवापनीतमुपढौकितं केनचित्ततः पूर्वोक्तनीत्या ताभ्यामुभाभ्यामपि परित्यक्त क्षेत्र प्रधान्यविवक्षया क्षेत्रोज्झितं ज्ञात