________________ वत्थ 837- अभिधानराजेन्द्रः - भाग 6 वत्थ नीति सर्वसंख्यया जाते द्वे सहस्रे / एते च न करोतीत्यनेन पदेन लब्धे। एवम्-'न, कारवेइ इत्यनेन 'नो अणु मन्नइ' इत्यनेन च प्रत्येकं लभ्येते इति, सर्वमीलने जातानिषट् सहस्राणि, तानि लब्धानि मनोयोगेन एवं वाग्यागेन काययोगेना पीते सर्वसंख्यया जातान्यष्टादशसहस्राणि / एतैरष्टादशभिः शीलाङ्गसहसैनित्यप्रावृताः साधवोऽवतिष्ठन्ते।तत एतानि भाववस्त्रम्। 'दव्वे पगइ मित्यादी अत्र द्रव्यवसेणाधिकारो यतस्तत् द्रव्यवस्त्रं तदर्थायभाववस्त्राय भवति भाववस्त्रस्योप ग्रहं करोतीत्यर्थः। (४)ततः प्रकृतमत्र द्रव्यवस्त्रेणपुणरवि दवे तिविहं, जहण्णगं मज्झिमं च उक्कोसं। एककं तत्थ तिहा, अहाकडऽप्पं सपरिकम्मं // 611 / / यत् द्रव्यवस्त्रमेकेन्द्रियादिनिष्पन्नतया त्रिविधमुक्तं तत्पुनर पि प्रत्येक त्रिधा,तद्यथा-जघन्यं मध्यममुत्कृटंचाता कार्या सिकम्-जघन्यम्मुखपोत्तिकादि, मध्यमम्-पढलकादि, उत्कृष्टम्-कल्पादि,एवं शेषे अपि कौशेयकादिके यथायोग भावनीये / एतेषामेकैकं त्रिधा-त्रिप्रकारम्, तद्यथा-यथाकृत मल्पपरिकर्म, सपरिकर्म च। एषामुत्पादने यथोत्कविध्यकरणे प्रायश्चित्तमाहचाउम्मसक्कोसे, मासियमज्झे य पञ्च य जहन्ने। वोचत्थगहणकरणे, तत्थ वि सट्ठाण पच्छित्तं // 612 / / उत्कृष्ट-उत्कृष्टवस्त्रविषये विपर्यस्तग्रहणे च - विपर्यासन ग्रहणे प्रायश्चित्तं चतुर्मासाः, मध्यमे मासिकम्, जघन्ये पञ्चरात्रिनं दिवानि / इयमत्र भावना-उत्कृष्टस्य यथाकृतस्य वस्त्रस्योत्पादनाय निर्गतस्तस्य विषये योगमकृत्वा यद्यल्पपरिकर्मोत्कृष्ट गृह्णाति तदा तस्य प्रायश्चित्तं चतुर्लधु, यदा किल यथाकृतं योगे कृतेऽपिन लभ्यते तदाऽल्पपरिकर्म ग्रहीतव्यं नान्यदा न तु विपर्यय इत्युक्तरूपं प्रायश्चित्तम्। यथोत्कृष्टमेव सपरिकर्म गृह्णाति तदाऽपि चतुर्लघु। अथ यथाकृतमुत्कृष्ट वस्त्रं कृतेऽपि न लब्धं तत उत्कृष्टस्याल्परिकर्मणो मार्गणं कर्त्तव्यमेव, तत्करणाय निर्गतस्तस्य योगमकृत्वा सपरिकर्मोत्कृष्ट वस्त्र माददानस्य चतुर्लधु, एव मुत्कृष्टविषये त्रीणि चतुर्लधुकानि। तथा मध्यमस्य वस्त्रस्योपादनाय निर्गतस्तस्य योगमकृत्वाऽल्पपरिकर्म मध्यमं गृह्णाति तदा मासलघु / अथ सपरिकर्म मध्यमं गृह्णाति तदाऽपि मासलघु, यदा यथाकृतं न लभ्यते तदाल्पऽपरिकर्म मध्यमं याचनीयमिति वचनतो यथाकृतेऽस्य योगे कृतेऽस्यालाभे अल्पपरिकर्मण उत्पादनाय निर्गतस्यस्य विषये योगमकृत्वा यदि सपरिकर्म मध्यमं गृह्णाति तदाऽपि मासलधु, एवं मध्यमविषये त्रीणि मासिकानि। तथा जघन्यस्य यथाकृतस्योत्पादनाय निर्गतस्तस्य योगमकृत्वाऽल्पपरिकर्म जघन्यं गृह्याति तदा रात्रिन्द्रियवपञ्चकम्, अथ सपरिकर्म जधन्यमाददाति तदापि पञ्चकम्, यदाऽनुयोगे कृतेऽपि यथा कृतं न लभ्यते तदाऽल्पपरिकर्म मार्गयितव्यमिति तस्योत्पादनाय निर्गतस्तद्विषये योगमकृत्वा सपरिकर्म गृह्वानस्य पञ्चकमेवंजघन्यविषये त्रीणि पञ्चकानि। एतन्त्र प्रायश्चित्तमधिकस्य विषये योगाकरणे, योगेतु कृते लाभाभावत स्तथा ग्रहणेऽपि दोषाभावः / तथाहि-यथाकृताय | निर्गतस्तच्च योगे कृतेऽपि न लब्धं ततोऽल्पपरिकर्मापि गृह्णन्, शुद्धः, अल्पपरिकर्मणोवा निर्गतस्तस्य योगे कृतेऽप्यलभ्यमानः सपरिकर्म गृह्णन् शुद्धः न केवलमेतत्, विपर्यस्तग्रहणे प्रायश्चित्तं किं कृत्वोत्कृष्टादिविपर्यस्तग्रहणे स्वस्थानमपि, तद्यथा-उत्कृष्ट स्योत्पादनाय निर्गतो मध्यम गृह्णाति मासिकम्, जघन्यं गृह्णाति रात्रिन्दिवपञ्चकम्, मध्यमस्य निर्गत उत्कृष्टं गृह्णाति चतुर्लघुजघन्यं गृह्णाति पञ्चकम्। जघन्यस्य निर्गत उत्कृष्ट गुह्वाति मासलघु / सर्वत्र चाज्ञादयो दोषाः / तदेवं ग्रहणे प्रायश्चित्तं स्वस्थानमुक्तम्। एवं करणेऽपि-उत्कृष्टादिकरणेऽपि स्वस्थान प्रायश्चितमवसातव्यम्। तद्यथा-उत्कृष्ट वस्त्रं छित्वा सीवित्वा चमध्यमकं करोति मासलघु, जघन्यं करोति रात्रिंदिवपञ्चकम्। जघन्यं सीवित्वा छित्त्वा वा उत्कृष्ट करोति चतुर्लघु मध्यमं करोति मासिकम् / यत एवं स्वस्थान प्रायश्चितं ततो विपर्यस्तग्रहणकरणे न विधेये। बृ० 1 उ० 1 प्रक०। साम्प्रतं वस्त्रकल्पिको भाव्यते, तत्रापि गाथाचतुष्टयं श्रीमलयगिरिणैव व्याख्या तमितः प्रभृति विव्रियते / तत्रा यदुत्कमनन्तरगाथायाम् - "वोच्चत्थगहणकरणे तत्थ वि सहाणपच्छित्तं" ति। तदेव भावयतिजोगमकाउमहागडे,जो गिण्हइ दोन्नि तेसु वा चरिमं / लहुगा उ तिन्नि मज्झ-म्मि मासिआ अंतिमे पंच // 613 // योगम्-व्यापारमुद्यममकृत्वा यथाकृते-यथाकृतवस्त्रविषयं साधुः द्वे अल्पपरिकर्मसपरिकर्मणी गृह्णाति, तद्यथा-यथा कृत स्यार्थाय निर्गतस्तस्य योगमकृत्वा प्रथममेवाल्पपरिकर्मस सपरिकर्मणोर्योगमकृत्वा प्रथममत एव तयोरल्पपरिकर्मस परिकर्मणोर्मध्ये चरमम् अन्त्यं सपरिकर्म गृह्णाति, तस्यैतेषु त्रिषु स्थानेषु उत्कृष्टमध्यजघन्यान्यधिकृत्य यथाक्रमं प्रायश्चित्तम्, तद्यथा-उत्कृष्ट त्रिषु स्थानेषु कायश्चतुर्लघवः, मध्यमे त्रीणि मासिकानि, अन्तिमे जघन्ये त्रीणि पञ्चरात्रि न्दिवानि। अत्र च भावना पूर्वगाथायां कृतेति न भूयो भाव्यते। उत्कं यथाकृतादिविपर्यासग्रहणे प्रायश्चित्तम्। संप्रत्युत्कृष्टादिविषये विपर्यासेन ग्रहणे च तदाहएगयरनिग्गओ वा, अन्नं गिहिज्ज तत्थ सट्ठाणं। छित्तूण सीविऊणं, जं कुणइ तगंण जं छिंदे // 614|| जघन्यादीनामेकतरस्यार्थाय निर्गतो वाशब्दो वैपरीत्ये स च प्रकारान्तरद्योतेन / अन्यत् येन न प्रयोजनं तत् गृण्हीयात्ततः स्वस्थाने प्रायश्चित्तम्, तद्यथा--उत्कृष्टस्य निर्गतो मध्यमं गृह्णाति मासिकम्, जघन्यं गृह्णाति पञ्चकम्।मध्यमस्य निर्गतः उत्कृष्ट गृह्णाति चतुर्लघु, जघन्यं गृह्णाति पञ्चकम् / जघन्यस्य निर्गत उत्कृष्ट गृह्णाति चतुर्लघु, मध्यमं गृह्णाति मासलघु / तथा आज्ञाभङ्गादयश्च दोषाः / यत्तेन विवक्षितवस्त्रेण कार्य तस्यान्येनाप्रतिपूरणम्, जघन्येन प्रयोजनेसमापतिते मध्यमो त्कृष्टायोगुह्यमाणयोरतिरिक्तोपकरणदोषस्तथोत्कृष्टादिकं छित्त्वा सीवित्वा वा यन्मध्यमादिकंकरोति, गतंतन्निष्पन्नप्रायश्चित्तम्।पुनर्यच्छिनत्ति तन्निप्पन्नम्। तथाहि-उत्कृष्ट छित्त्वा मध्यमं करोतिमासलघु, जघन्यं करोति पञ्चकम्।