________________ वत्थ 836 - अभिधानराजेन्द्रः - भाग 6 वत्थ एतदेव भावयतेअलंभकम्मस्त तु अप्पकम्म, भावेय तस्सावि तु जं सकम्भ एवं अकाउंचउरो उमासो, भवंति वत्थे परिवाडिहीणे 73 / तच्छेदनसीवनसन्धानादेरेकमपि परिकर्म यत्र न भवति, तद्यथाकृतम्। यस्य तुदशिका वा केवलं छेत्तव्या, सन्धानं वा द्वयोः खण्डयोर्विधेयम्, बुनने वा केवलं छेत्तव्या, सन्धानं वा द्वयोः खण्डयोर्विधेयम्, बुननं वा कर्तव्यम्, तदल्पपरिकर्म / यत् बहुधा छिद्यमानं संधीयमानतयाप्रमाणप्राप्तं भवति, यद्वा बहुधा सीवितव्यम्, तद्वस्त्रं बहुकर्मोच्यते,ता प्रथमं यथा कृतं मार्गयितव्यम्, तस्याभावे यत्सत्कर्म तस्याप्यभावे बहुपरि कर्माकम् / अथैवंविधं योगमकृत्वा प्रथममेवाल्पपरिकर्म बहु परिकर्म वा गृण्हाति ततश्चत्वारो मासा लघवः / तुशब्दो विशेषणे / तल्लब्धश्चायमर्थः-उत्कृष्टवस्त्रां यथाकृतादिविपर्या सग्रहणे चतुर्लघवः, मध्यमस्य विपर्यासे मासिकम्, जघन्यस्य व्यत्यासे पञ्चकम्, एवं परिपाटीहीने यथोत्कग्रहणक्रमरहिते वस्त्रे गृहमाणे प्रायश्चित्तम्। अथ द्वितीयपदमाहअद्धाणमाईसु उ कारणेसुं, कुज्जा अलंभम्मि उ उकम्मं पि। गेलनमादीसु विवज्जियं वा, ऽसती य कुज्जा खलु खुम्मियस्स। अध्वा-विप्रकृष्टो मार्गस्तं प्रपन्नानां ततोवा निर्गतानां दुर्लभ वस्त्रं भवेत् एवमादिषु कारणेषु वस्त्रस्यालाभे उत्क्रममपि कुर्यात्, ग्लानत्वानात्मवशतादिषु कारणेषु विपर्ययमपि कुर्यात्, अन्तः परिभोग्य बहिः परिभोग्य वा अन्तः प्रावृणुयादिति भावः। क्षौमिकस्य वा कल्पस्याभाव खल्वेकमाणिक प्रावृणुयात्। बृ०२ उ०। पं० भा०ा पं० चू० / से भिक्खू वा भिक्खुणी वा अभिकंखेज्जा वत्थं एसित्तए, से जं पुण वत्थं जाणेजा, तं जहा-जंगियं वा भंगियं वा साणियं वा पोत्तयं वा खोमियं वा तूलकडं वा, तहप्पगारंवत्थं वा जे णिग्गंथे तरूणे जुगवं बलवं अप्पायं के थिरसंघयणे से एगंवत्थं धारेखा, णो बितियं / जा णिग्गंथी सा चत्तारि संघाडीओ धारेला / एवं दुहत्थवित्थारं, दो तिहत्थवित्थाराओ, एगं चउहत्थ वित्थारं, तहप्पगारेहिं वत्थेहिं असंधिजमाणेहिं / अह पच्छा एगमेगं संसीविजा। (सू०-१४१) स भिक्षुरभिकाझे द्वस्त्रमन्तेष्टुं ता यत् पुनरेवंभूतं वस्त्रं जानीयत्तद्यथा'जंगियं' ति जङ्गमोष्ट्राधूर्णानिष्पन्नम्, तथा भनियं' ति नानाभङ्गिकविकलेन्द्रियलालानिष्पन्नम्, तथा-'साणयं तिशण्डवल्कलनिष्पनम्, 'पोत्तगं' ति ताड्यादिपत्रा सङ्घातनिष्पन्नम्, 'खोमियं' ति कासिकम् 'तूलकडं' ति अर्कादितूलनिष्पन्नम्, एवं तथाप्रकारमन्यदपि वस्त्र धारयेदित्यु त्तरेण संबन्धः / येन साधुना यावन्ति धारणीयानि तदर्शयति-तत्रयस्तरूणो निर्ग्रन्थः-साधुर्योवनेवर्तते, बलवान, समर्थः अल्पातङ्क:-अरोगी स्थिरसंहननः--दृढकायः दृढधृतिश्च, स एवंभूतः साधुरेकं वस्त्रम्-प्रावरणं त्वकत्राणार्थं धारयेन्नो द्वितीयमिति। यदपरमाचार्यादिकृते विभर्ति तस्य स्वयं परिभोगन कुरुते। यः पुनरियो दुर्बलो वृद्धो वा यावदल्पसंहननः स यथासमाधि ह्यादिकमपि धारयेदिति, जिनकल्पिकस्तुयथा प्रतिज्ञमेव धारयेतन तत्रापवादोऽस्ति। या पुननिन्थी साचतस्त्रः सङ्घाटिका धारयेत्, तद्यथा-एकां द्विहस्तपरिमाणं या प्रतिश्रये तिष्ठन्ती प्रावृणोति, द्वे त्रिहस्तपरिमाणे, तौका मुजवला भिक्षाकाले प्रावृणोति, अपरांबहिभूमिगमनावर इति, तथा अपरांचतुर्हस्तविस्तरां समवसरणादौ सर्वशरीरप्रच्छादि का प्रावृणोति, तस्याश्च यथाकृतायां अलाभे अथपश्चादेक मेकेन सार्द्ध सीव्येदिति। आचा०२ श्रु०१चू०५ अ०१उ०। (3) सम्प्रतिवस्त्रकल्पिकमभिधित्सुराहनामं ठवणा वत्थं, दव्वे भावे य होइ नायव्वं / एसो खलु वत्थस्स उ, निक्खेवो चउविहो होइ॥६०६॥ वस्त्रंखलुचतुर्विधम्, तद्यथा-नामवस्त्रम्, स्थापनावस्त्रम्, द्रव्यवस्त्रम्, भाववस्त्रं च। एष खलु वस्त्रस्य निक्षेपश्चतुर्विधो भवति। तत्र नामस्थापने प्रतीते। द्रव्यवस्त्रमाहदव्वे तिविहं एगिं-दियविगलपचिंदिएहि निष्फन्न।य सीलंगाई भावे, दव्वे पगयं तदट्ठाए।।६१०। द्रव्यवस्वं त्रिविधम्, तद्यथा-एकेन्द्रियनिष्पन्नं विकलेन्द्रिय निष्पन्नं पञ्चेन्द्रियनिष्पन्नं च। तत्रौकेन्द्रियनिष्पन्न कार्पासिकादि, विकलेन्द्रियनिष्पन्नं कौशेयकादि, पञ्चेन्द्रिय निष्पन्नमौर्णिकौष्ट्रिकादि भावेभाववस्त्रमष्टादशशीलाङ्ग सहस्राणि। अथ कान्यष्टादशशीलाङ्गसहस्राणीति ? उच्यतेकरणे जाग सण्णा-इंदियभोमादिसमणधम्मे य। सीलंगसहस्साणं, एता उ भवे समुप्पत्ती। अस्या अक्षरगमनिका करणं त्रिविधम्, तद्यथा-करणम्, कारापणम्, अनुमोदनं च / त्रिविधो योगो-मनोयोगो, वाग्योगोः, काययोगश्च / संज्ञाश्चतस्त्रः, तद्यथा-आहारसंज्ञा भयसंज्ञा, मैथुनसंज्ञा, परिग्रहसंज्ञा च। इन्द्रियाणि पञ्च, तद्यथा-श्रोत्रेन्द्रियम्, चक्षुरिन्द्रियम्, घ्राणेन्द्रियम्, जिह्वेन्द्रियम्, स्पर्शनेन्द्रियम्। भोमादी' ति भौमः पृथिवी कायविषयसमारम्भः आदिशब्दाद् अप्कायसमारम्भः तेजस्कायसमारम्भः वायुकायसमारम्भः द्वीन्द्रियसमारम्भ स्त्रीन्द्रियसभारम्भश्चतुरिन्द्रियसमारम्भः पञ्चेन्द्रियसमारम्भो जीवकायसमारम्भश्च / श्रमणधर्मोऽपि दशधा क्षान्तिमार्दव मार्जवमलोभतातपः सत्यसंयमस्त्यागोऽकिञ्चनता ब्रह्मचर्य ञ्चाणतैः स्थानैरष्टादशानां शीलाङ्गसहस्राणामुत्पत्तिस्तद्यथा - "नकरेइ सयं साहू, मणसा आहारसन्नउवउत्तो। सोइंदियसंवरणो, पुढविजिएखंति सम्पन्नो॥१॥न करेइ सयंसाहू, मणसा आहारसन्नउवउत्तो। सोइंदियसंवरणो, पुढविजिएखंति सम्पन्नो॥१॥नकरेइ सयंसाहू, मणसा आहारसन्नउवउत्तो। सो इंदियसंवर णो, पुढविजिए मद्दवपवत्तं / 2 / " एवं तावद्वक्तव्यं यावद्दशम्यां गाथायां 'बंभचेरगए' इति, एते दशभङ्गाः पृथिवी कायसमारम्भपरिहारेण लब्धाः / एवमप्कायादिपरिहारेणापि प्रत्येकं दश दश लभ्यन्ते इति सङ्कलनया जातं शतम् / एतच श्रोत्रेन्द्रियेण लब्धमेवं शैवेरपि इन्द्रियैः प्रत्येकं शतं लभ्यते, इति जातानि पञ्च शतानि। एतानि चाहारसंज्ञोपयुत्केन लब्धानि, एवं शेषाभिरपि संज्ञाभिः प्रत्येकं पञ्चशता