________________ वत्ति 835 - अमिधानराजेन्द्रः - भाग 6 वत्थ . कासिकम् तिरीडो-वृक्षविशेषस्तस्य यः पट्टो वल्कलक्षणं तन्निष्पन्नं तिरीडपट्टकं नाम पञ्चकम्। एष सूत्रसंक्षेपार्थः। अथ विस्तरार्थं भाष्यकारो विभणियुराहजंगमजायं जंगिय, तं पुण विगलिंदियं व पंचिदी। एकेकं पिय एत्तो, होति विभागेण गविहं // 6 // जङ्गमेभ्यो जातं जाङ्गिकम्, तत्पुनः विकलेन्द्रियनिष्पन्न पञ्चेन्द्रियं वा अनयोर्मध्ये एकैकमपि विभागेन विद्यमानमनेक विधं भवति। तद्यथापट्ट सुवन्नमलए, अंसुगचीणंसुके य विगलिंदी। उण्णोट्टियमियलोमे, कुतवे किट्टेअ पंचिदी॥६॥ 'पट्ट' ति पट्टसूाजम् 'सुवन्न' त्ति सुवर्णवर्ण सूत्रं केषां चित् कृमीणां भवति, तन्निष्पन्नं सुवर्णसूत्रजम्, मलयोनाम देशस्तत्सभवं मलयजम्, अंशुकः-लक्ष्णपट्टः तन्निष्पन्न मंशुकम्, चीनांशुको नाम कोशिकरोमाणि तस्माद्यातं चीनां शुकम्, यद्वा-चीनो नाम जनपदस्तत्रा श्लक्ष्णतरः पट्टस्तस्माद्यातं चीनांशुकम् / एतानि विकलेन्द्रियनिष्पन्नानि / तथा और्णिकम्, औष्ट्रकम् उष्ट्ररोमजं चेति प्रतीतानि / कुतपोजिणं किट्ट तेषामेवा रोमादीनामवयवस्तन्निष्पन्नं वस्त्रा मपि किट्टम् एतानि पञ्चेन्द्रियनिष्पन्नानि द्रष्टव्यानि। अथ भाङ्गिकादीनि चत्वार्यप्येकगाथया व्याचष्टेअतसीवंसीमादिए, भनियं साणकं तु सणवक्के / पोत्तय कप्पासमयं, तिरीडरुक्खा तिरीडपट्टो॥६॥ अतसीमयं वा 'सि' त्ति वंशकरीलस्य मध्याद्यन्निष्पद्यते पट्टा एवमादिकं, भाङ्गिकम् यत्पुनः सनवृक्षवल्कात् जातं तद्वस्त्रं सानकम्, 'पोतकं कासिमयम्, तिरीडवृक्षवल्काजातं तिरीडा पट्टकम्। पञ्च परूवेऊणं, पत्तेयं गेण्हमाणसंतम्मि। कप्पासिगा य दोणि उ, उण्णिय एक्को य परिभोगे॥६६|| एवं पञ्च वस्त्राणि प्ररूप्य सम्प्रति ग्रहणविधिभिधीयते प्रत्येकमेकैकस्य साधोः प्रयोग्याणि वस्त्राणिं गृहृतः सविद्यमाने लाभे द्वौ कल्पी कार्यासिकौ, एकस्त्वौर्णिक इत्येवं यत्राः कल्पाः ग्रहीतव्याः, परिभोगश्यामीषां वक्ष्यमाणविधिना विधातव्यः। यथा पुरातनगाथा। अथैनामेव विवृणोतिएकोन्नि सोत्ति दुनी, तिण्णि विगेणिहज ओण्णिए लहुओ। पाउरमाणा चेवं, अंतो मज्झे व जति ओण्णि // 67 / / एक ओर्णिकः कल्पो, द्वौ वा सौत्रिको प्रत्येक ग्रहीतव्यौ। अथ श्रीनपि कल्पते, सौत्रिकानौर्णिकान् वा गृह्णाति ततो मासलघु, प्रावृण्वन्नपि यद्येकमौणिकं प्रावृणोति तत एवमेव मास लघु, अन्तश्च शरीरनन्तरितं मध्ये तावद् द्वयोः सौत्रिकयोमध्ये भागे यद्यौर्णिकं प्रावृणोति तदापि मासलघु। इदमेव भावयतिअभिंतरं च बाहिं, बाहिं अभिंतरं करेमाणे / परिभोगविवचासे, आवजइ मासियं लहुयं // 6 // अभ्यन्तरपरिभोग्यं सौत्रिकं कल्पं बहि कुर्वन् प्रावृण्वन् बहिः परिभोग्य चौर्णिकमभ्यन्तरं कुर्वन् परिभोगव्यत्यासं करोतितत्र चापद्यतेमासिक लघुकम्। अतः सौत्रिकमन्तः प्रावृणुयात् और्णिणकं तुबहिः, एष विधिपरिभोग उच्यते अथ विधीयमाने गुणानुपदर्शयतिछप्पझ्यपणगरक्खा, भूसा उज्झायणा य परिहरिया। सीतत्ताणं च कतं,खोम्मिय अम्भितरेणं व // 6 // और्णिके ह्यन्तः परिभुज्यमाने षट्पादिकाः संगच्छेरन्, ततः सौत्रिकमन्तः प्रावृण्वता षट् पदिका रक्षिता भवन्ति, और्णिकं चान्तः परिभुज्यमानं मलीमासं भवति, ता च पनकः संसज्यते, अतो विधिपरिभोगेपनकस्यापि रक्षा कृता भवति, सौत्रिकेण च बहिः प्रावृत्तेन विभूषा न भवेत्, तथा वस्त्रमहर्निश मपि परिभुज्यमानं न मलीमसम्भवति, कन्दली तु परिभुज्यमाना मलीमसा जायते, मलीमसतया चदुर्गन्धा। अतो विधिपरिभोगे'उज्झायणा' दुर्गन्धतः साऽपि परिहृता, सौत्रिककल्पगर्भया च कम्बलिकया प्राब्रियमाणया शीतत्राणं कृतं स्यात्, एतेन कारणकलापेन क्षौमिकं कासिकं वस्त्रमभ्यन्तरे प्रावरणीयम्। अथ कासिकं न प्राप्यते ततः किं कर्तव्यमित्याहकप्पासियस्स असती, वागयपट्टे य कोसिवारे य। असती य उण्णियस्स, वागतकोसेयपट्टे य॥७॥ कासिकस्याभावे - वल्कजम्, तस्याभावे पट्टवस्त्रम्, तद प्राप्ती कौशिकवस्त्रमपि ग्रहीतव्यम्, अथौर्णिकं न प्राप्यते तत और्णिकस्य स्थाने प्रथमं वल्कजम्, ततः-कौशेयम्, ततः पट्टमपि ग्राह्यम्, यद्वा--- पट्टशब्दे नात्र तिरीटपत्रकमुच्यते। चशब्दादतसौवंशमयमपि ग्रहीतव्यम्। अथ प्रावरणे गणनाविधिमाह - ण उण्णिय पाउरते तु एकं, दोण्णी जतो खोम्मिय उणियं च। दो सुत्ति अंतो बहि उण्णिती तो, दुगाहि ओण्णी व बहिं परेणं / / 71 / / और्णिक कल्पमेकं न प्रावृणुते अर्थादापन्नं सौत्रिकमपि प्रावृणुयात्, यदा तुद्वौ कल्पौ प्रावृणोति तदा क्षौमिकमन्तः, द्वितीयं पुनरौर्णिकं बहिः प्रावृणुयात्। त्रिषु कल्पेषु प्रावरी तुमिष्टषु द्वौ सौत्रिकावन्तः एकं चौर्णिक बहिः प्रावृणुयात्, अथौर्णिकान् द्वयादीनपि प्रावरीतुमिच्छति, ततो त्रिप्रभृतयोऽप्यौर्णिका बहिः सौत्रिकात्परतः प्रावरणीयाः / अथ वस्त्रग्रहणे विधिमाहपञ्चण्डं वत्थाणं, परिवामिगए य होइ गहणं तु। उप्परिवाडीगहणे, पच्छित्ते, मग्गणा होइ॥७२।। पञ्चानां जङ्गिकादीनां वस्त्राणां परिपाट्या ग्रहणं कर्तव्यम्, परिपाटी नाम कासकमौर्णिकं च, तदभावे वल्कजपट्टका दिकमित्यादिरनन्तरोक्तः क्रमः, तमुल्लङ्ध्योत्परिपाट्या ग्रहणे प्रायश्चित्तस्य मार्गणा भवति, तद्यथा-जघन्यमुपधिमुत्परिपाट्या गृह्णाति पञ्च रात्रिन्दिवानि, मध्यमे मासलघु उत्कृष्ट चतुर्गुरूकम्।