________________ वत्थ ५५०-अभिधानराजेन्द्रः - भाग 6 वत्थ यत इति व्युत्पत्तेयवश्यकमभिधीयते; तस्य शोधिः-शोधिने कार्य वस्त्राणामुत्पादनाय गतानां भविष्यति नवेति प्रथममेधाववश्यक शोधनीयमित्यर्थः, अखलंत' त्ति उत्तिष्ठतां पादयोः शिरसि वा स्खलनं यथा न भवति तथो-स्थातव्यम्।यद्वा गुरु-वचनमस्खलद्भिरविकुट्टयद्वित्थातव्यम् सममिति सर्वैरपि समकमुत्थानं कर्त्तव्यं न पुनरेके उत्थिताः प्रतीक्षन्ते, अन्येऽद्याप्यु पविष्टाः / अथवा समकं सर्वैरुपयोगसम्बन्धी कायोत्सर्गः कर्तव्यः, दण्डकाः कायोत्सर्गादारभ्य यावन्नाद्यापि प्रथमलाभस्तावन्न भूमौस्थापयितव्याः। अपरे पुनर्यावदावृत्त्य न प्रतिश्रयमागताः तावदिति ब्रुवते / पृच्छति शिष्यः, किं निमित्तं कायोत्सर्गः क्रियते किं देवतांराधनार्थं यदसावाराधिता सती वस्त्राण्युत्पादयति ? आहोश्वित् तत्कायोत्सर्गप्रभावादेव वस्त्राणां भूयान् लाभो भूयादिति लाभनिमित्तम् / अत्र सूरिः प्रत्युत्तरयति- 'न' त्ति न भवति तदेवताराधननिमित्तं किंतूपयोगनिमित्तम्, उपयोजनमुपयोगाश्चिन्ता विमर्श इत्यनर्थान्तरम् / स च गणना प्रमाणेन प्रमाणप्रमाणेन या, किंप्रमाणं वस्त्रं ग्रहीतव्यं को वा याचितः सन् ध्रुवमवश्यं दास्यति यो ज्ञायते निश्चितमेष दास्यति स एव प्रथमं याच्यते। (8) अथ प्रथमं कायोत्सर्गः केनोत्सारणीयः? इति उच्यतेरायणिओ उस्सारे, तस्सऽसतोमो वि गीतों लद्धीओ। अगीतो विसलद्धिओ, मग्गइ इअरे परिच्छंति // 626|| यो रात्रिको रत्नाधिकः सोऽपि यदि सलब्धिकस्तदा स एव प्रथम कार्योत्सर्गमुत्सारयति, तस्य रत्नाधिकस्य सलब्धि कस्य असतिअभावे अवमोऽपिपर्यायलघुरपि गीतार्थो यः सलब्धिकः स प्रथम पारयत्ति / अथ नास्ति गीतार्थः सलब्धिकस्तत आह-अगीतार्थोऽपि यः सलब्धिकः स प्रथमं पारयति, स एव वाऽग्रणीत्वं कुर्वन् वस्त्राणि मार्गयति इतरे गीतार्थाः परीक्षन्ते-किं कल्पतं न वेत्येवं पृष्ठतो लगा वस्यैषणा-विधि विचारयन्तीत्यर्थः। (E) अनन्तरोदितसामाचारीवैपरीत्यकरणे प्रायश्चित्तमाहउस्सग्गाई वितह,खलंत अण्णोण्णओ य लहुओ उ। उग्गमविप्परिणामो, ओभावणसावगं न तओ॥६२७।। उत्सर्गः-कायोत्सर्गस्तमादिं कृत्वा सर्वेषु पदेषु समाचारी वितथा कुर्वाणस्य लघुमासः गयश्चित्तम्, तद्यथा- कायोत्सर्ग न कुर्वन्ति, आवश्यकं न शोधयन्ति, यमकसमकं कायोत्सर्ग न कुर्वन्ति, दण्डकं भूमौ लगयन्ति, पृथक् पृथक् गुरूणामादेशं मार्गयन्ति, 'इच्छाकारेण संदिसहे तिन भणन्ति, आचार्याः 'लाभो' तिन भणन्ति, साधवः 'किं गिण्हामो त्ति न भणन्ति, आचार्या 'जहगहियं पुव्वसाहूहिं' तिन भणंति, साधवः 'जस्स य जोग' न भणन्ति, एतेषु सर्वेषु असमाचारीनिष्पन्न मासलघु, आवश्यिकीं न कुर्वन्ति, लघुरात्रिन्दिवपञ्चकम् / 'खलंत' त्ति स्खलन्तः उत्तिष्ठन्ति गुरुवचनं वा स्खलयन्ति मासलघु। अण्णेण्ण उ' ति अन्योन्यतश्च व्रजन्ति न परस्परामवङ्कया ऋजुश्रेण्या तत्रापि लघुको मासः, इत्थं सामाचारी सम्पूर्णां कृत्वा निर्गताः श्रावकमवभाषन्ते मासलघु / ये तस्मिन्नवभाष्यमाणे बहवो दोषास्तानेवाह- 'उग्गम' इत्यादि, कोऽपि श्रावकः साधुभिर्वस्त्रं याचितः। स चिन्तयति - अहो अमी महात्मानस्तावद्यतस्ततः कारणं विना न वस्त्राणि याचन्ते, न वा गृहन्ति, मद्भाग्यसंभारप्रेरिता एव सन्तोषपोषित वपुषोऽपि मामित्थं याचन्ते तत्प्रयच्छामि यथेच्छममीषां वस्त्राणि, मम पुनरन्यान्यपि भविष्यन्तीति विभाव्य सर्वाण्यपि हर्षप्रकर्षारूढः प्रदद्यात् / ततोऽभिनववस्त्रनिर्मापणक्रयणादि-नोग्दमदोषा भवेयुः, विपरिणामो वा नवधर्मणः कस्यचिदुपास कस्य स्यात्, यथा हुं-ज्ञातममीषां श्रमणानां रहस्यम्--य एतेषामुपासको भवति तमेवमेव याञ्चाभिरुद्ध जयन्तीति ततश्चाधर्म प्रतिपद्यते / यद्वा-'ओहावणा' अप्रभाजना भवेत् / इयमत्र भावनातस्य-श्रावकस्य कदाचिद्वस्त्राणि न भवेयुः, तदा मिथ्यादृष्टयो अबीरन् - अहो अमीषां प्रतिबोधप्रसादः, यदेतद्योग्यान्यप्येतदीयोपासका वस्त्राणि न संपाद्यन्ते। लोको वा ब्रूयात्-यद्येतेषां स्वकीया अपि श्रावका नप्रयच्छन्ति तदाऽन्यः को नाम दास्यतीति ततः श्रावकं नावभाषेत। दाउंच उड्डुरुस्से, फासुचरियं तु सेसयं देइ। भावियकुलओभासण, नीणिइ कस्से य किं आसी॥६२८|| स श्रावकी लोकलज्जया तदानीं दत्त्वा च 'उड्डुरुस्से त्ति प्रद्वेषं यायात्, किमेतैरेतदपि न ज्ञातं श्रावकस्य यत् वस्त्रादि स्वाधीना तदयाचितमेव ददाति किं तेन याचितेन, अतः परं न गच्छाम्यमीषां सकाशमिति / यत एतेदोषास्ततः श्रावकं नाव-भाषेतेतिपूर्वगाथाया-अन्त्यपदेन संबन्धः। यस्मादुपास-कस्येषा समाचारी यत्प्राशुकमेषणीयमुद्ररितमधिकं वस्त्रं तत् स्वयमेवायाचितोऽपि निमन्त्र्य ददाति तेन तं मुक्त्वा यान्यान्यानि भावितानि साधुसंसर्गवासितानि सम्यक्त्वाद्य-व्युत्पन्नमतीनि यथा भद्रकाणि कुलानितेष्वेव भाषणं कर्त्तव्यम्। कथमिति चेदुच्यते-तत्रायः प्रमाणभूतः पुरुषस्तं स्वधर्म लाभयित्या बुवते, श्रावक ! साधवस्तव सकाशमागताः सन्ति प्रयोजनमस्माकमीद्दशैर्वस्त्रैरिति, यदि पुनर्धस्यस्त्वं श्लाध्यं ते जन्मजीवितमनय॑म् सुपात्राय वस्त्रपात्रादिदानमिति तद्गुण- विकत्थनवस्त्रदानफलोत्कीर्तनादि करोति, तदा मासलघु। ततः सयाच्यमान एवं ब्रूयात अहो मे धन्यता यस्य गृहाङ्गणं जङ्गमा इव कल्पपादपा अमी भगवन्तः स्वपादपल्लवैः पवित्रितवन्तः इत्यभिधाय स्वयमन्येन वा गृहमध्यावस्त्र-मानयेत, आनाययेद्रा, तत्तस्मिन् 'नीणिइ' ति आनीते पृछयते-कस्यैतद्वस्त्रम्, किंवा आसीत्। उपलक्षणत्वात् किं भविष्यति। क च स्थापितमासीत्। यदि कस्यैतदिति न पृच्छन्ति तदा मासिकम्। बृ०१ उ०१ प्रक० / प्रति०।। (10) सांप्रतं वस्त्रग्रहणाभिग्रहविशेषमधिकृत्याहइचे इयाई आयतणाई उवाइक म्म अहा भिक्खू जाणे जा चउहिं पडिमाहिं वत्थं एसित्तए, तत्थ खलु इमा पढमा पडिमा, से भिक्खू वा भिक्खुणी वा उहिसिय वत्थं जाएज्जा, तं जहा-जङ्गियं वा भङ्गियं वा साणयं