SearchBrowseAboutContactDonate
Page Preview
Page 856
Loading...
Download File
Download File
Page Text
________________ वत्तव्वया 532- अभिधानराजेन्द्रः - भाग 6 वत्तव्वया ससमयवत्तव्वया, परसमयवत्तव्वया, ससमयपरसमयवत्तव्वया। से किं तं ससमयवत्तव्वया ? 2 जत्थ णं ससमए आधविजइ पण्णविजइ परूविज्जइ दंसिज्जइ निदंसिज्जइ उवदंसिजइ सेतं ससमयवत्तव्वया / से किं तं परसमयवत्तव्वया ? परसमयवत्त व्वया जत्थ णं परसमए आघविजइ 0 जाव उवदंसिजइ, सेतं परसमयवत्तव्वया।से किं तं ससमयपरसमयवत्तव्वया ? ससमयपरसमयवत्तव्वया? ससमयपरसमयवत्तव्वया जत्थणं ससमए परसमए आधविजइ० जाव उवदंसिज्जइ, सेतं ससमय परसमयवत्तव्वया / (सू०-१५१) 'से किं तं वत्तव्वया' इत्यादि, तत्राध्ययनादिषु प्रत्यवयवं यथासम्भवं प्रतिनियतार्थकथनं वक्तव्यता इयं च त्रिविधा स्वसमयादिभेदात्, तत्र यस्यां णमिति वाक्यालङ्कारे स्वसमयः-स्वसिद्धान्तः आख्यायते यथा पञ्च अस्तिकायाः, तद्यथा-धर्मास्तिकाय इत्यादि, तथा प्रज्ञाप्यते यथा गतिलक्षणो धर्मास्तिकाय इत्यादि, तथा-प्ररूप्यते यथास एवासंख्यातप्रदेशात्मकादिस्वरूपः, तथा दर्शाते दृष्टान्तद्वारेण यथा मत्स्यानां गत्युपष्टम्भकंजलमित्यादि, तथा निर्दिश्यते उपनयद्वारेण यथातथैवैषोऽपि जीवपुद्रलानां गत्युपष्टम्भक इत्यादि, तदेवं दिग्मात्रप्रदर्शनेन व्याख्यातमिदम्, सूत्राविरोधतोऽन्यथाऽपि व्याख्येयमिति। सेयं स्वसमयवक्तव्यता / परसमयवक्तव्यता तु यस्यां परसमय आख्यायत इत्यादि, यथा सूत्रकृताङ्गप्रथमाध्ययने"सन्ति पञ्च महब्भूया, इहमेगेसि आहिया। पुढवी आऊ तेऊ (य), वाऊ आगासपञ्चमा।।१।। एए पञ्च महब्भूया, तेब्भो एगो त्ति आहिया। अह तेसिं विणासेणं, विणासो होइ देहिणो // 2 // " इत्यादि, अस्य च श्लोकद्वयस्य सूत्रकृदवृत्तिकारलिखित एवायं भावार्थः / एकेषां नास्तिकानां स्वकीयाप्तेन आहितान्याख्याता नि इह लोके सन्तिविद्यन्ते पञ्च समस्तलोके व्यापकत्वान्महाभूतानि तान्येवाह - पृथिवीत्यादि पञ्चभूतव्यतिरिक्तजीवनिषेधार्थमाह - 'एए पंचे' त्यादि एतानि-अनन्तरोक्तानि पृथिव्यादानि यानि पञ्च महाभूतानि 'तेभ्य' इतितेभ्यः कायाकारपरिणतेभ्यः एक:-कश्चित्किञ्चिद्रूपो भूताव्यतिरिक्तः आत्मा भवति, नतु भूतव्य तिरिक्तः परलोकयायीत्येवं ते 'आहिय' त्ति आख्यातवन्तः। अथ तेषां भूतानां विनाशेन देहिनो-जीवस्य विनाशा भवति तदव्यतिरिक्तवात्देवेत्येवं लोकायतभतप्रतिपादरनपरत्वात् पर समयवक्तव्यतेयमुच्यते-आख्यायते इत्यादि।पदानांतु विभागः पूर्वोक्त नुसारेण स्वबुद्धया कार्यः / सेयं परसमयवक्तव्यता / स्वसमयपरसमयवक्तव्यता पुनया स्वसमयः परसमयश्च आख्यायते, यथा-- "आगारमावसन्ता वा, आरण्णा वावि पव्वया। इमं दरिसणमावन्ना, सव्वदुक्खा विमुचई॥१॥" इत्यादि, व्याख्याआगारं-गृहं तत्राऽऽवसन्ता गृहस्था इत्यर्थः, आरण्या वातापसादयः 'पव्वइय' त्ति प्रद्रजिताश्चशाक्यादयः इदम्-अस्मदीयं मतमापन्ना --- आश्रिताः सर्वदुःखेभ्यो विमुच्यन्त इत्येवं यदासाख्यादयः प्रतिपादयन्ति | तदेवं परसमयवक्तव्यता, यदा तु जैनास्तदा स्वसमयवक्तव्यता, ततश्चासौ स्वसमयपरसमयवक्तव्यतोच्यते। अथवक्तव्यतामेव नयैर्विचारयन्नाहइयाणिं को णओ कं वत्तव्वयं इच्छइ ? तत्थ णेगम संगहवद हारा तिविहं वत्तव्वयं इच्छंति, तंजहा-ससमयवत्तव्वयं परसमयवत्तव्वयं ससमयपरसमयवत्तव्वयं, उजुसुओ दुविहं वत्तय्वयं इच्छइ, तं जहा-ससमयवत्तव्वयं परसमयवत्तव्वयं,तत्थणंजा साससमयवत्तव्वयासाससमयं पविट्ठा,जासा परसमयवत्तव्वया सा परसमयं पविट्ठा, तम्हा दुविहा वत्तव्वया, नत्थि तिविहा वत्तव्वया, तिणि सद्दणया एग ससमयक्त्तव्वयं इच्छंति, नत्थि परसमय वत्तव्वया, कम्हा ? जम्हा परसमए अणढे अहेऊ असन्मावे अकिरिए उम्मग्गे अणुवरसे मिच्छादसणमिति कट्ट, तम्हा सव्वा ससमयवत्तव्वया, णत्थि परसमयवत्तव्वया णत्थि ससमयपरसमयदत्तव्वया। सेतं वत्तवया। (सू०-१५१) 'इयाणिं को नओ' इत्यादि, अत्रा नैगमव्यवहारौ त्रिविधामपि वक्तव्यतामिच्छतः, नैगमस्यानेकगमत्वाद् व्यवहार (पर) स्य तु लोकव्यवहारपरत्वाल्लोके च सर्वप्रकाराणां रूढत्वादिति भावः / ऋजुसूत्रस्तु विशुद्धतरत्वादनाद्यामेव द्विविधां वक्तव्यतामिच्छति, स्वपरसमयवक्तव्यतानभ्युपगमे युक्तिमाह'तत्थ णं जा सा' इत्यादि, तृतीयव्यक्तव्यताभेदेयाऽसौ स्वसमयवक्तव्यतागीयतेसा स्वसमयं प्रविष्टा, कोऽर्थः ? प्रथमे वक्तव्यताभेदे अन्तर्भूता इत्यर्थः / या तु परसमय वक्तव्यता सा परसमयं प्रविष्टा / इदमत्र हृदयम्-द्वितीये वक्तव्यताभेदे अन्तविता इत्यर्थः, ततश्चोभयरूपवक्तव्यतायाः प्रस्तुतनयमतेऽसत्वात् द्विविधैव वक्तव्यता न त्रिविधेति भावः / संग्रहस्तु सामान्यवादिनैगमान्तर्गतत्वेन विवक्षितत्वात् सूत्रागतिवैचित्र्यादा न पृथगुक्त इति / त्रयः शब्दनयाः-- शब्दसमभिरूढवंभूताः शुद्धतमत्वादेकां स्व समयवक्तव्यतामिच्छन्ति, नास्ति परसमयवक्तव्यता इति मन्यन्ते, कस्मादित्याह -- यस्मात्परसमयोऽनर्थः, इत्यादि। इत्थं चेह योजना कार्यानास्ति परसमयवक्तव्यता, परसमय स्यानर्थत्वादित्यादि, अनर्थत्वं परसमयस्य नास्येवात्मेयनर्थ प्रतिपादकत्वाद, आत्मनो नास्तित्वस्य चानर्थत्वमात्माभावे तत्प्रतिषेधानुपपत्तेः। उक्तंच-"जो चिंतेइ सरीरे, नत्थि अहं स एव होइ जीवो ति।नहुजीवम्मि असंते, संसयउप्पायओ अण्णो॥१॥" इत्याद्यन्यदप्यभ्यूह्यम् / अहेतुत्त्वं च परसमयस्य हेत्वाभासबलेन प्रवृत्तेः, यथा नास्त्येवात्मा अत्यन्तानुपलब्धेः / हेत्वाभासश्चायं ज्ञानादेस्तद्गुणस्योपलब्धेः, उक्तं च - 'नाणाईणं गुणाणं, अणुभवओ होइ जंतुणो सत्ता। जहरूवाइ गुणाणं, उवलंभाओधडाईणं // 1 // " इत्यादि प्रागेवोक्तमिति। असद्धावत्वंचैकान्तक्षणभङ्गासद्भूतार्थाभिधायकत्वाद, एकान्तक्षण भङ्गादेश्चासद्भूतत्वं युक्तिविरोधात्तथाहि- "धम्मा धम्मुवएसो, कयाकयं परभवाइगमणं च। सव्या वि हु लोयठिइँ, नघडइ एगंतखिणयम्मि॥१॥" इत्यादि, अक्रियात्वंचैकान्तशून्यताप्रतिपादनात, सर्वशून्यतायांच क्रियावतोऽभावेन क्रियया असंभवाद्, उक्तंच-'सव्वं सुन्नति जयं, पडियन्नंजेहि तेऽवि
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy