________________ मज्ज 61 - अभिधानराजेन्द्रः - भाग 6 मज्ज सच्चित्तनाशनम्, तथा सन्धाने जलमिश्रितबहुद्रव्यसंस्थापने ये दोषा जीवसंसक्त्यादयस्ते विद्यन्ते तत्र तत्संधानदोषवत्, यद्येवविध मद्यं, तत्र पद्ये (न) नास्ति दोषो दूषणं कर्मबन्धादित्येवं वदत इति गम्यते। साहसं धाष्यम् / अथवातत्र मद्ये गुडधातक्यादिसंधानरूपे न दोषोऽस्ति पापप्राप्तिलक्षणः। क इवेत्याह-सन्धानदोषवत् काञ्जिकाऽऽदिसन्धानदोषवत् / अयमभिप्रायः, यथा-आरनालाऽऽदौ सन्धानवति पीयमाने कर्मबन्धलक्षणो दोषो नास्त्येवं मद्येऽपि दोषो नास्तीति, एतद्वदतस्तस्य च साहसत्यं, चित्तभ्रमनिबन्धनानामतिबहूनां मद्यपानदोषाणां प्रत्यक्षत एवोपलभ्यमानत्वात। यथोक्तम् "वैरूप्य व्याधिपिण्डः स्वजनपरिभवः कार्यकालतिपातो, विद्वेषो ज्ञाननाशः स्मृतिमतिहरण विप्रयोगश्च सद्भिः। पारुष्यं नीचसेवा कुलबलतुलना धर्मकामार्थहानिः, कष्ट भोः षोडशैते निरुपचयकरा मद्यपानस्य दोषाः / / '' इति। अथवा क्यिन्तस्ते दर्शयिष्यन्त इत्याहकिं चेह बहुनोक्तेन, प्रत्यक्षेणैव दृश्यते। दोषोऽस्य वर्तमानेऽपि, तथा भण्डनलक्षणः॥२॥ किमिति प्रतिषेधे, ततश्च न किञ्चित्प्रयोजनमित्यर्थः स्यात्, वाशब्दोऽयथार्थः / इह मद्यपानदूषणविषये, बहुना-प्रभूतेन, उक्तेन भणितेन, 'मद्य पुनः प्रमादाङ्गम्' (1) इत्यादिना यतः प्रत्यक्षेणैव, एवशब्दस्यापिशब्दार्थत्वादध्यक्षप्रमाणेनापि, न केवलमनुमानाऽऽदिना, दृश्यते उपलभ्यते, दोषो दूषणम् अस्य मद्यपानस्य, वर्तमानेऽपि काले, न केवलमतीतकाले द्वारकावतीदाहाऽऽदि श्रूयते, तथा तत्प्रकारं सदसिमञ्जसवचनप्रसरमुपपतत्प्रभूतप्रहरणप्रहारमुपरममाणनरविसर यदण्डन संग्रामस्तदेव लक्षणं रूपं यस्य स तथेति // 2 // न केवलं प्रत्यक्षगोचरा मद्यपानस्य दोषाः, श्रुतगोचरा अप्रीत्येतद्दर्शयितुमाहश्रूयते च ऋषिर्मद्यात्, प्राप्तज्योतिर्महातपाः। स्वर्गाङ्ग नाभिराक्षिप्तो, मूर्खवन्निधनं गतः।।६।। श्रूयते च पुराणकथासु आकर्ण्यते च, न केवलं भण्डनमेव दृश्यते / कोऽसौ श्रूयते ? इत्याह-ऋषिमुनिर्विसन्धिश्चेह (?) विशेषलक्षणान्मद्यात्-सीधुनः सकाशान्निधनं गत इति संबन्धः / किंविशिष्टोऽसावित्याह-प्राप्तमवाप्तं ज्योतिस्तेजो ज्ञानरूपमष्टविधमहर्द्धिरूपं वायेन स प्राप्तज्योतिः कथमित्याह-यतो महातपाः।पुनः किम्भूतः? सन्नित्याहस्वर्गाङ्गनाभिः नाकनितम्बिनीभिराक्षिप्त आवर्जितः सन् मूर्खव बालिश इव, निधनं विनाशं गतः प्राप्त इति // 3 // एतदेव दर्शयन् श्लोकपञ्चकमाहकश्चिद् ऋषिस्तपस्तेपे, भीत इन्द्रः सुरस्त्रियः। क्षोभाय प्रेषयामास, तस्याऽऽगत्य च तास्तकम्।।४।। विनयेन समाराध्य, वरदाभिमुखं स्थितम् / जगुर्मद्यं तथा हिंसां, सेवस्वाऽब्रह्म वेच्छया / / 5 / / स एवं गदितस्ताभि-योर्नरकहेतुताम्। आलोच्य मद्यरूपं च, शुद्धकारणपूर्वकम् // 6 // मद्यं प्रपद्य तद्रोगा-नष्टधर्मस्थितिर्मदात्। विदेशार्थमजं हत्वा, सर्वमेव चकार सः / / 7 / / ततश्च भ्रष्टसामर्थ्यः, स मृत्वा दुर्गतिं गतः। इत्थं दोषाऽऽकरो मद्यं, विज्ञेयं धर्मचारिमिः ||8|| एषा गमनिका-कश्चित् कोऽप्यनिर्दिष्टनामा ऋषिर्बालतपस्वी किल महाटव्यां वसन तपः-अनशनाऽऽदिकम् अतिघोरं तपस्तेपे तप्यते स्म दिव्यं वर्षसहसं यावत्, ततो भवीतो महत्तपोऽनेन कृतं मामितो नाकिनिकायनायकपपदाद् पातयिष्यतीति भावनया भयमुपगत इन्द्रः शतमखः, ततः सुरस्त्रियः नाकिनितम्बिनीस्तिलोत्तमाप्रमुखाः क्षोभाय क्षोभणनिमित्तं तस्येत्यस्येह संबन्धात्तस्य-ऋषेः प्रेषयामास स्वर्गात्तवाटव्यां प्रेषितवान् / ताश्च तत्तेजसा तद्वनप्रवेशं कर्तुमशक्नुवन्त्यो वनादहिस्तदभिमुखहृतविकसितकुसुमप्रकारा मस्तकन्यस्तहस्तकमलसंपुटमतिप्रणम्य तद्रतगुणगानप्रधाननृत्यप्रबन्धं विदधुः / ततोऽसौ तदाक्षिप्तान्तः करणश्चित्रलिखित इव बभूव / ततस्तत्समीपमुपजग्मुः। आगत्य सच समीपीभूय च ताः सुरस्त्रियः तकम्- ऋषिम्॥४॥ विनयेन विविधचाटुवचनाञ्जलिकरणपादपतनाऽऽदिना समाराध्य प्रसन्नमानसं विधाय वरस्याभिलषितार्थस्य दानं वरदानं तस्य अभिमुखस्तं स्थितं सञ्जातं जगुर्नानाविधशपथदानपुरस्सरमुक्तवत्यो, यदुत मद्यं मधु, तथेति समुच्चये, हिंसां प्राणिवधं, सेवस्व भजस्व, अब्रह्म वा मैथुन वा वाशब्दो विकल्पार्थः, इच्छया इष्ट्या यदेते तदित्यर्थः / / 5 / / स ऋषिरेवमनेन प्रकारेण गदितोऽभिहितसताभिः सुरस्त्रीभिर्द्धयोहिंसाऽब्रह्मणोनरकहेतुता निरयबन्धनताम् आलोच्य स्वशास्त्रानुसारेण निश्चित्य, तथा मद्यरूपं मदिरास्वभावं, चशब्द आलोच्येति क्रियाऽनुकर्षणार्थः / किंविधमित्याह-शुद्धानि निर्दोषाणि कारणानि निमित्तानि गुडधातकीजलप्रभृतीनि, पूर्व मद्यावस्थायाः प्राकाले यस्य तत्तथा।।६।। ततो मद्य मदिरां प्रपद्य तत्पास्यामीत्यङ्गीकृत्य, तस्य विचित्रचित्रमणिखण्डमण्डिततपनीयभाजनन्यस्तस्य सौरभ्यातिशयसमाकृष्टषट्पदपटलावनगगनमण्डलस्य करणषट्चरणचक्रलाम्पट्यप्रकृष्टताकारकस्य ताभिः ससम्भ्रममुपनीतस्य मद्यस्य भोग आसेवनं तद्भोगसतस्मात् नष्टा धर्मस्य कुशलानुष्ठानलक्षणस्य स्थितिर्व्यवस्था यस्यसतथा; ततश्च मदाचित्तविच्युतिलक्षणाद्विदंशाथ मद्यपानोपदंशार्थमजं छागं हत्वा विनाश्य सर्वमेय निरवशेषमपि यत्ताभिरभिहितमनभिहितं च पापमजपिशितपचननिमित्तमिन्धनार्थमाराध्यदेवतादारुमयप्रतिमास्फोटनऽऽदितचकार कृतवान् स इत्यसावृषिः / 7 / ततश्च मद्याऽऽसेवनानन्तरं पुनर्भष्टसागो निहततपोवीर्यः स ऋषिर्मृत्वा प्राणान् परित्यज्य दुर्गतिं नरकरूपां गतः प्राप्त इति दृष्टान्तः / अथ प्रकृतयोजनायाऽऽहइत्थमनेनोक्तप्रकारेण दोषाऽऽकरो दूषणोत्पत्तिभूमिमा मदिरा विज्ञेय ज्ञातव्यं धर्मचारिभिः कुशलानुष्ठानसेवाशीलैरिति / / 8 / हा०१६ अष्ट०। मद्येऽपि प्रकटो दोषः, श्रीहीनाशाऽऽदिरैहिकः। सन्धानजीवमिश्रत्वा-न्महानामुष्मिकोऽपि च / / 17|| मद्येऽपीति-मद्येऽपि मन्धुन्यपि प्रकटो दोषः; श्रीलक्ष्मीः, हील जा आदिना विवे काऽऽदिग्रहः तन्नाशादैहिक इहै व विपाकप्रदर्शकः तथाऽऽमुष्मिकोऽपि परभवे विपाकप्रदर्शकोऽपि,