________________ वणप्फइ ८१७-अभिधानराजेन्द्रः - भाग 6 वणप्फइ पञ्चप्रकाराः श्रमणा भवन्ति, एतेषां च यथायोगं गृहिगृहेषु समागतानां परिवेषणे-भोजनप्रदाने क्रियमाणे सति कोऽप्याहारलम्पटः साधुर्लोभेनाहारादिलुब्धतया वनति-शाक्यादिभक्तमात्मानं दर्शयति तद्भत्कगृहिणः पुरत इति सामर्थ्यगम्यम्। इह प्रायः शाक्या गैरुका वा गृहिगृहेषु भुञ्जते ततस्तान् भुञ्जानानधिकृत्य यथा साधुर्वनीपकत्वं कुरुते तथा दर्शयतिमुंजति चित्तकम्म, ठिया व कारुणियदाणरुइणो वा। अभिकामगबहेसु वि, न नस्सई किं पुण जईसु // 446|| एवं नाम निश्चला भगवन्तोऽमी शाक्यादयो भुञ्जते यथा चित्रकर्मलिखिता इव भुञ्जाना लक्ष्यन्ते, तथा परमकारुणिका एते दानरुचयश्च, तत एतेभ्योऽवश्यं भोजनं दातव्यम् / अपि च - कामगर्दभेष्वपि मैथुने गर्दभेष्विवातिप्रसक्तेषु ब्राह्मणेष्विति गम्यते। दत्तं न नश्यति किं पुनरमीषु शाक्यादिषु एतेभ्यो दत्त मतिशयेन बहुफलमिति भावः / तस्माद्दातव्यमेतेभ्यो विशेषतः। अा दोषान् दर्शयतिमिच्छत्तथिरीकरणं, उग्गमदोसा य तेसु वा गच्छे। चडुकार दिन्नदाणा, पच्चत्थिग मा पुणो इंतु // 447|| एवं हि शाक्यादिप्रशंसने लोके मिथ्यात्वं स्थिरीकृतं भवति, तथाहिसाधवोऽप्यमून प्रशंसन्ति तस्मादेतेषां धर्मः सत्य इति। तथा यदि भक्ता भद्रका भवेयुः तत इत्थं साधुप्रशंसामुपलभ्य तद्योग्यमाधाकर्मिकादिसमाचरेयुः। ततस्तलब्धतया कदाचित् साधुवेषमपहाय तेषु शाक्यादिषु गच्छेयुः। तथा लोके चाटुकरणयुते जन्मान्तरेऽप्यदत्तदाना आहारद्यर्थं श्वान इवात्मानं दर्शयन्ति - इत्यवर्णवादः, यदि पुनः शाक्यादयः शाक्यादिभक्ता वा प्रत्यर्थिकाः-प्रत्यनीका भवेयुस्ततः प्रद्वेषतः प्रशंसावचनमवज्ञायेत्थं ब्रूयुः मा पुनस्रा भवन्त आयान्त्विति। ब्राह्मणभक्तानां पुरतो ब्राह्मणप्रशंसारूपं वनीपकत्वं यथा करोति तथा दर्शयतिलोयाणुग्गहकारिसु, भूमीदेवेसु बहुफलं दाणं / अवि नाम बंभबंधुसु, किं पुण छसम्मनिरएसु // 448|| पिण्डप्रदानादिना लोकोपकारिषु भूमिदेवेषु ब्राह्मणेषु अपि नाम ब्रह्मबन्धुष्यपि जातिमात्रब्राह्मणेष्वपि दानं दीयमानं बहुफलं भविष्यतीति भावः। संप्रति कृपणभक्तानां पुरतः कृपणप्रशंसारूपं वनीपकत्वं यथा समाचरति तथा प्रतिपादयतिकिविणेसु दुम्मणेसु य, अबंधवायंकजुंगियंगेसुं। पूयाहिज्जे लोए, दाणपडागं हरइ देंतो |449ll इह लोकः पूजाहार्यः-पूजया हियते-आवय॑ते इति पूजाहार्यः, पूजितपूजको न कोऽपि कृपणादिभ्यो ददाति, ततः कृपणेषु तथा इष्टवियोगादिना दुर्मनस्सु तथा अबान्धवेषु तथा आतङ्कोज्वरादिस्तद्योगादातङ्किनोऽप्यातङ्कास्तेषु, तथा जुङ्गिताङ्गेषुच कर्त्तितहस्तपादाद्य वयवेषु निराकाङ्कतया दददस्मिन् लोके दानपताकां हरति-गृह्यति।। साम्प्रतमतिथिभक्तानां पुरतोऽतिथिप्रशंसारूपं वनीपकत्वं यथा साधुर्विदधाति तथा दर्शयतिपाएण देइ लोगो, उवगारिसु परिचिएसु झुसिए वा। जो पुण अद्धाखिन्नं, अतिहिं पूण्इ तं दाणं / / 450|| इह प्रायेण लोक उपकारिषु, यदा-परिचितेषु यदि वा अध्युषितेआश्रिते ददाति भक्तादि, यः पुनरध्वखिन्नमतिथिं पूजयति तदेव दानं जगति प्रधानमिति शेषः।। अधुना शुनां भक्तानां पुरतः शुनकप्रशंसारूपं वनीपकत्वं कुर्वन् यत्कि तदुपदर्शयतिअवि नाम होज सुलभो, गोणाईणं तणाइ आहारो। छिच्छिक्कारहयाणं,ण हु सुलहो होइ सुणगाणं // 451 / / केलासभवणा एए, आगया गुज्झगा महि। चरंति जक्खरूवेण, पूयाऽपूया हियाऽहिया।।४५२|| अपि नाम गवादीनां तृणादिक आहारो भवेत् सुलभः, छिच्छिकारहतानांत्वमीषांशुनां न तु कदाचनाऽपि भवति सुलभः, तत एतेभ्यो यद्दीयते तदेव बहुफलमिति भावः, अपि च-नैते श्वानः श्वानः एव, किं तु गुह्यका देवविशेषाः कैलास भवनात्-कैलासपर्वतरूपादाश्रयादागत्यमहींपृथिवीं यक्ष रूपेण श्वाकृत्या चरन्ति तत एतेषां पूजाऽपूजा च यथासंख्यं हिता अहिता चेति। संप्रति ब्राह्मणादिविषयवनीपकत्वे दोषानाहएएण मज्झभावो, दिट्ठो लोए पणामहेजम्मि। एक्के के पुवुत्ता, महगपंताइणो दोसा।।४५३।। एतेन-अनेन साधुना 'मज्झ' मदीयो भावो-भक्तत्वलक्षणो दृष्टोऽवगतो लोके--ब्राह्मणादौ, किं विशिष्ट ? इत्याह - प्रणामहार्ये प्रणामः-प्रणमनं तेन, उपलक्षणमेतत् दानादिना च हार्ये-आवर्जनीये, तत एकैकस्मिन् ब्राह्मणादिविषये वनीपकत्वे पूर्वोक्ता भद्रकप्रान्तादयो दोषा भावनीयाः। किमुक्तं भवति-यदिभद्रकस्तर्हि प्रशंसावचनतो वशीकृत आधाकर्मादि कृत्वा प्रयच्छति, अथ प्रान्तस्तर्हि गृहनिष्काशनादि करोति। इह प्राक् 'साणे पुण होइ पंचमए' इत्युत्कम्, तत्रा साणग्रहणं काकादीना मुपलक्षणम्, तेन काकादिष्वपि वनीपकत्वं द्रष्टव्यम्। तथा चाऽऽहएमेव कागमाई, साणग्गहणेण सूझ्या हाति। जो वा जम्मि पसत्तो, वणइ तहिं पुट्ठऽपुट्ठो वा ||15|| एवमेव वनीपकत्यप्ररूपणाविषयत्वेन श्वग्रहणेन काकादयोऽपि सूचिता भवन्ति, ततस्तत्रापि वनीपकत्वं भावनीयम्। एतदेव व्याप्तिपुरस्सरमाह -यो वा यत्र काकादौ पूजकत्वेन प्रसत्कस्ता काकादिस्वरूपं पृष्टोऽपृष्टो वा वनतिप्रशंसाद्वारेण त्मानं भत्कं दर्शयति। सम्प्रति वनीपकत्वं कुर्वतः साधोर्युक्त्या दोषगरीयस्त्वं प्रकटयतिदाणं न होइ अफलं, पत्तमपत्तेसु सन्निजुजंतं / इय विभणिए वि दोसा, पसंसओ किं पुण अपत्ते / / 455 / /