________________ वणप्फइ 805 - अभिधानराजेन्द्रः - भाग 6 वणप्फइ प्रज्वालनात, तैलविधानं-तिलातसीसर्पपेङ्गुदीज्योतिष्मती करजादिभिः, उद्योतो-वर्तितृणचूडाकाष्ठादिभिरिति।। एवमेतान्युपभोगस्थानानि प्रतिपाद्य तुदपसंजिहीर्षुराह -- एएहि कारणेहि, हिंसंति वणस्सई बहू जीवे / सायं गवेसमाणा, परस्स दुक्खं उदीरेंति॥१४॥ एतैर्गाथाद्वयोपात्तैः कारणैः-प्रयोजनैर्हिसन्ति व्यापादयन्ति प्रत्येकसाधारणवनस्पतिजीवान् बहून् वनस्पतिसमारम्भिणः पुरुषाः, किं भूतास्त इति दर्शयति-सात-सुखं तदन्वषिणः परस्य च वनस्पत्याघेकेन्द्रियादे१खं बाधामुत्पादयन्ति। साम्प्रतं शस्त्रमुच्यते-तच द्विधा द्रव्यभावभेदात्द्रव्यशस्वमपि समासविभागभेदात् द्विधैव तत्र समासद्रव्यशस्त्राभिधित्सयाऽऽहकप्पणि-कुहाणि-यसियग-दत्ति-कुद्दालि-वासि फरसूय। सत्थं वणस्सईए, हत्था पाया मुहं अम्गी / / 149ll कल्प्यते-छिद्यते यया सा कल्पनी शस्त्राविशेषः, कुठारी प्रसिद्धैव, अशियगं दानं, दात्रिका-प्रसिद्धा, कुद्दालकवासि परशवश्च, एते वनस्पतेः शस्त्रम्। तथा हस्तपादमुखाग्यश्च इत्येतत्सामान्यशस्त्रमिति। विभागशस्त्रााभिधित्सयाऽऽह --- किंची सकायसत्थं, किंची परकाय तदुभयं किंची। एयं तु दव्वसत्थं, भावे य असंजमो सत्थं // 150|| किंचित् स्वकायशस्त्र लकुटादि, किंचिच्च परकायशस्त्रं पाषाणग्नयादि, तथामयशस्व-दात्रदात्रिकाकुठारादि, एतद् द्रव्यशस्त्रम्, भावशस्त्र पुनरसंयम्। दुष्णणिहितमनोवाक्काय लक्षण इति। सकलभिर्युक्त्यर्थपरिसमाप्तिं प्रचिकटयिषयाऽऽहसेसाइंदाराई, ताइं जाई हवंति पुढवीए। एवं वणस्सईए, निज्जुत्ती कित्तिया एसा // 151 // उत्कव्यतिरित्कशेषाणि तान्येव द्वाराणि यानि पृथिव्यामभि हितानि ततस्तद्वाराभिधानाद्वनस्पतौ नियुक्तिः कीर्तिताव्या वर्णितेति। आचा० १श्रु०१ अ०५ उ०। ('आहार' शब्दे द्वितीयभागे 462 पृष्ठे तदाहारप्रकारः / ) सांप्रतं सूत्रानुगमेऽ स्खलितादिगुणोपेतं सूत्रमुचारणीयम् तचेदम्तंणो करिस्यामि समुट्ठाण, मत्तामइमं, अभयं विदित्ता, तंजेणो करए, एसोवरए, एत्थोवरए, एस अणगारे त्ति पवुबई। (सू०३९) अस्य चानन्तरपरम्परादिसूत्रौः सम्बन्धः प्राग्वद्वाच्यः उक्तं प्राक् 'सातन्वेषिणो हि वनस्पतिजन्तूनां दुःखमुदीरयन्ति, ततश्च तन्मूलमेव दुःखगहने संसारसागरे भ्राम्यन्ति सत्त्वाः इत्येवं विदितकटुकविपाकः समस्तवनस्पतिसत्त्वविपयविमर्दनिवृतिमान्यन्तिकीमात्मनिदर्शयन्नाह तत्-वनस्पतीनां दुःख महं दृष्टप्रत्यपायो न करिष्ये, यदिवा-तद्दुःखोत्पतिनिमित्त भूतं वनस्पतावारम्भं छेदनभेदनादिरूपं नो करिष्ये / मनोवाकायैः तथाऽपरैर्न कारयिष्णे, तथा कुर्वतश्चान्यान्ननुमंस्ये, किं कृत्वेति दर्शयति-सर्वज्ञोपदिष्टमार्गानुसृत्या, सम्यक् प्रव्रज्योत्थानेनोत्थाय समुत्थाय, प्रव्रज्यां प्रतिपद्येत्यर्थः, तदेवं वर्जित सकलसावद्यारम्भकलापः संस्तद्वनवनस्पतिदुःखं तदारम्भंवा नो करिष्यामीति, अनेन च संयमक्रिया दर्शिता, न च क्रियात एव मोक्षावाप्तिः, किं तर्हि ? ज्ञानक्रियाभ्याम्, तदुत्कम्-"नाणं किरियारहियं, किरियामेत्तं चादोऽवि एगन्ता। न समत्था दाउंजे, जम्ममरणदुक्खदाहाई।।१।।" यत एवमतो विशिष्टमोक्ष कारणभूतज्ञानप्रतिपिपादयिषयाऽऽह- 'भत्ता मइम' मत्वाज्ञात्या-अवबुध्य यथावत् जीवान्, मतिरस्यास्तीति मतिमान्मतिमानेवोपदेशा) भवतीत्यतस्तद् द्वारेणैव शिष्यामन्त्राणम्, हे मतिमन् ! प्रवज्यां प्रतिपद्य जीवादिपदार्थाश्च ज्ञात्वा मोक्ष मवाप्नोतीति, सम्यग् ज्ञानपूर्विका हि क्रियाफलवतीति दर्शितं भवति / पुनरौवाह- 'अभयं विदित्ता' अविद्यामानं भयमस्मिन् सत्त्वानामित्यभयः-संयमः, सच सप्तदशविधानस्तंचाभयं सर्वभूतपरिपालनात्मकं संसारसागरान्निहिकं विदित्वा वनस्पत्यारम्भान्निवृत्तिर्विधेयेति। एतदेव दर्शयितुमाह - 'तं जे नो करए' इत्यादि, तं-वनस्पत्यारम्भं यो विदिततदारम्भ कटुकविपाकः नो कुर्यात् तस्य प्रतिविशिष्टेष्टफलावाप्ति नान्यस्यान्धमूढया प्रवर्तमानस्य, अभिलषितविप्रकृष्टस्थान प्राप्तिप्रवृत्तान्धक्रियाव्याघातवदिति मन्तव्यम् ज्ञानमपि क्रियाहीनं न मोक्षाय, गृहान्तर्दह्यमाननिनङ पङ्गुचक्षुर्ज्ञान वदिति, एवं ज्ञात्वा अभ्युपेत्य च तत्परिहाराः कर्त्तव्य इति दर्शितं भवति। एवं यः सम्यग्ज्ञानपूर्विकां निवृत्तिं करोतिएव समस्तारम्भनिवृत्त इति दर्शयति-'एसोवरए ति एष एव सर्वस्मादारम्भावनस्पतिविषयादुपरतो यो यथावज्ज्ञात्वाऽऽ रम्भं न करोतीति, स पुनरेवविधनिवृत्तिमाक्कि शाक्यादिष्वपि संभवत्युतेहैव प्रवचन इति दर्शयति-'एत्थोवरए' त्ति एतस्मिन्नेव जैनेन्द्र प्रवचने परमार्थत उपरतो नान्यत्र / यथा प्रतिज्ञातनिरवद्यानुष्ठायित्वादुपरतव्यपदेशभाग्भवति, नशेषाः शाक्यादयः, तद्विपरीतत्वात् / एष एव च सम्पूर्णानगार व्यपदेशमश्नुते इति दर्शयति- 'एस अणगारे त्ति पवुच्चइ एषो ऽतिक्रान्तसूत्रार्थव्यवस्थितः, अविद्यमानागारोऽनगारः प्रकर्षण उच्यतेप्रोच्यते इति, किं कृतः प्रकर्षः, अनगारव्यपदेशकारण भूतगुणकलापसंबन्धकृतः प्रकर्षः, इतिशब्दोऽनगारव्यपदेश कारणपरिसमाप्तिद्योती, एतावदनगारलक्षणं नान्यदिति। ये पुनः प्रोज्झितपारमार्थिकानगारगुणाः शब्दादीन्विषयानङ्गी कृत्य प्रवर्तन्ते ते तु नापेक्षन्ते वनस्पतीन् जीवान, यतो भूयांसः शब्दादयो गुणाः वनस्पतिभ्य एव निष्पद्यन्ते, शब्दादिगुणेष्वेव वर्तमाना रागद्वेषविषमविषविघूर्णमानलोललोचना नरकादि चतुर्विधगत्यन्तः पातिनो बोद्धव्यास्तदन्तः पातिन एव च शब्दा दिविष्याभिष्वङ्गिणो भवन्तीति। आचा०१ श्रु०१ अ०५ उ०। वणस्सइंन हिंसंति, मणसा वयसॉ कायसा। निविहेण करणजोएणं, संजया सुसमाहिआ॥४०॥ वणस्सइं विहिंसंतो, हिंसई अतयस्सिए।