________________ वग्गणा 794 - अभिधानराजेन्द्रः - भाग 6 दग्गु न्तरं भवतीति / अन्ये तु व्याचक्षते-अष्टौ समयान् यदा नैरन्तर्येण सिद्धिस्तदा प्रथमसमये जघन्येनैकः सिध्यत्युत्कृष्टतो द्वात्रिंशदिति, द्वितीयसमये जघन्येनैकः उत्कृष्टतोऽष्टचत्वारिंशत्, सर्वत्र जघन्येनैकः समयः, उत्कृष्टतः-"गाथार्थोऽयं भावनीयः 'बत्तीसे' त्यादि। एवमनन्तरसिद्धानां तीर्थादिना भूतभावेन प्रत्यासत्तिव्यपदेश्यत्वेन पञ्चदशविधानां वर्गणैकत्वमुक्तम्, इदानीं परम्परसिद्धानामुच्यते, तत्र- 'अपढमसमयसिद्धाण' मित्यादि, त्रयोदशसूत्री,न प्रथमसमयसिद्धाः अप्रथमसमयसिद्धाः सिद्धत्व-द्वितीयसमयवर्तिनः तेषाम्, 'एवं जाव' त्ति करणाद् 'दुसमय-सिद्धाणं तिचउपचछसत्तट्टनदससंखेज्जासंखेजसमयसिद्धाण' मिति दृश्यम्, तत्र सिद्धत्वस्य तृतीयादिषु समयेषु द्विसमयसिद्धादयः प्रोच्यन्ते, यद्वा-सामान्येनाप्रथमसमयाभिधानं विशेषतो द्विसम-याद्यभिधानमिति, अतस्तेषां वर्गणा, क्वचित् 'पढमसमयसिद्धाणं' ति पाठः, तत्र अनन्तरपरम्परसमयसिद्धलक्षणं भेदमकृत्वा प्रथमसमयसिद्धा अनन्तरसिद्धा एव व्याख्यातव्याः, द्व्यादि-समयसिद्धास्तु यथा श्रुता एवेति। इतो द्रव्यक्षेत्रकालभावानाश्रित्य पुगलवर्गणैकत्वं चिन्त्यतेपूरणगलनधर्माणः पुद्गलाः, तेचस्कन्धा अपिस्युरिति विशेषयति-परमाणयो निष्प्रदेशास्तेच ते पुद्गलाश्चेति विग्रहस्तेषाम्, एवं करणात् 'दुपएसियाणं खंधाणं तिचउ-पंच-छ-सत्त-ट्ठ-नव-दस-संखेजपएसियाणं असंखेजपएसियाण मिति दृश्यमिति। कृता द्रव्यतः पुगलचिन्ता। अतः क्षेत्रतः क्रियते- 'एगा एगपएसे' त्यादि, एकस्मिन् प्रदेशे क्षेत्रस्थावगाढाःअवस्थिता एकप्रदेशावगाढास्तेषाम्, ते च परमाण्वादयोऽनन्तप्रादेशिकस्कन्धान्ताः स्युः, अचिन्त्यत्वात् द्रव्यपरिणामस्य, यथा पारदस्यैकेन कर्षण चारिताः सुवर्णस्य ते सप्ताप्येकीभवन्ति, पुनार्वामिताः प्रयोगतः सप्तैव त इति / 'जाव एगा असंख्येज्जपएसोगाढा णं' ति अनन्तप्रदेशावगाहित्वं तु नास्तिपुद्रलानाम्, लोकलक्षणस्यावगाहक्षेत्रस्याप्यसंख्येयप्रदेशत्वादिति / कालत आह- 'एगा एगसमए' त्यादि। एकं समयं यावत् स्थितिः-परमाणुत्वादिना एकप्रदेशावगाढादित्वेन एकगुणकालदित्येन वाऽवस्थानं येषां ते एकसमयस्थितिकास्तेषामिति / इह चअनन्त-समयस्थितेः पुद्गलानामभावाद्-असंखेजसमयहितीयाण' मित्युक्तमिति / भावतः पुद्गलानाह-एकेन गुणो-गुणनं ताडनं यस्य स एकगुणः, एकगुणः कालोवर्णो येषां ते एकगुणकालकाः, तारतम्येन कृष्णतरकृष्णतमादीनां येभ्यः आरभ्यप्रथममुत्कर्षप्रवृत्तिर्भवतीति भावस्तेषाम्।एवं सर्वाण्यपि भावसूत्राणि षष्ट्यधिकद्वि-शतप्रमाणानि (260) वाच्यानि विंशतेः कृष्णादिभावानां त्रयोदशभिर्गुणनादिति / साम्प्रतं भङ्गयन्तरेण द्रव्यादिविशेषितानां जघन्यादिभेदभिन्नानां स्कन्धानां वर्गणैकत्वमाह- 'एगा जहन्नपएसियाणं' इत्यादि जघन्याः सर्वाल्पाः प्रदेशाः परमाणवस्ते सन्ति येषां ते जघन्यप्रदेशिकाः-व्यणुकादय इत्यर्थः, स्कन्धाः अणुस-मुदयास्तेषाम्, उत्कर्षन्तीत्युत्कर्षाः-उत्कर्षवन्तः उत्कृष्टसंख्याः परमानन्ताः प्रदेशाःअणवस्ते सन्ति येषां तेउत्कर्षप्रदेशिकास्तेषाम्, जघन्याश्च उत्कर्षाश्च जघन्योत्कर्षाः, न तथा ये ते अजघन्योत्कर्षाः, मध्यमा इत्यर्थः, ते प्रदेशाः सन्ति येषां ते अजघन्यो त्कर्षप्रदेशिकास्तेषाम्, एतेषां चानन्तवर्गणत्वेऽप्यजघन्योत्कर्षशब्दव्यपदेश्यत्वादेकवर्गणात्वमिति 'जहन्नोगाहणगाण' ति अवगाहन्ते आसते यस्यां सा अवगाहनाक्षेत्रप्रदेशरूपा सा जघन्या येषां ते स्वार्थिककप्रत्ययाजघन्यावगाहनकास्तेषाम् 'एकप्रदेशावगाढानामित्यर्थः, उत्कविगाहनकानामसंख्यातप्रदेशावगाढानामित्यर्थः, अजघन्योत्कर्षावगाहनकानां संख्येयासंख्येयप्रदेशावगाढानामित्यर्थः / जघन्याजघन्यसंख्या समयापेक्षया स्थितिर्येषां तेजघन्यस्थितिकाः,एकसमयस्थितिका इत्यर्थः, तेषाम्, उत्कर्षा उत्कर्षवत्संख्या समयापेक्षया स्थितिर्येषां ते तथा तेषामसंख्यातसमयस्थितिकानामित्यर्थः / तृतीयं कण्यम्, जघन्येन जघन्यसंख्याविशेषेणैकेनेत्यर्थ गुणो-गुणनं ताडनं यस्य स तथा, तथाविधः कालोवर्णो येषां तेजधन्यगुणकालकास्तेषाम्, एव-मुत्कर्षगुणकालकानामनन्तगुणकालकानामित्यर्थः, तृतीयं कएट्यम्, एवं भावसूत्राणि षष्टिविनीयानीति। स्था० 1 ठा०। प्रज्ञा०। वग्गतव-न०(वर्गतपस् ) यदा घनः चतुःषष्टिपदात्मको घनेनैय-चतुःषष्टिपदात्मकेनैव गुण्यते तदा वर्गो भवति, तदुपलक्षितं तपो वर्गतप उच्यते / तपोभेदे, उत्त०३० अ०। तथा भवति वर्गश्चेतीहापि प्रक्रमावर्ग इति वर्गतपः, तत्र च घन एव घनेन गुणितो वर्गो भवति, ततश्चतुःषष्टिश्चतुःषष्ट्यैव गुणिता जातानिषण्णवत्यधिकानि चत्वारि सहस्राणि एतदुपलक्षितं तपो वर्गतपः। उत्त० 30 अ०॥ वग्गय-(देशी) वार्तायाम्, दे० ना०७ वर्ग 38 गाथा। वग्गवग्ग-पुं०(वर्गवर्ग) वर्गगुणितो वर्गो वर्गवर्गो भवति। वर्गगुणितवर्गे, उत्त० 30 अ०। पृथक्सजातीयसमूह, बृ०१३०३ प्रक०।स्था०।"अणंताहिं वग्गवग्गेहिं" अनन्ताभिरपिवर्गवर्गाभिः-वर्गवगैर्वर्गितमपि, तत्रतद्गुणो वर्गो यथा-द्वयोर्वर्गश्चत्वारः। तस्यापि वर्गो वर्गवर्गः, यथा-षोडश एवमनन्तशो वर्गितमपि / चूर्णिकारस्त्वाह-अनन्तैरपि वर्गवर्गः-खण्ड खण्डैः / औ०। वग्गवग्गतव-न०(वर्गवर्गतपस् ) वर्गवर्गोपलक्षिते तपोभेदे, उत्त० / वर्गवर्गतपः, तुः समुचये पञ्चमं पञ्चसंख्यापूरणमत्र वर्ग एव यदा वर्गेण गुण्यते तदावर्गवर्गो भवति, तथा चचत्वारि सहस्राणि षण्णवत्यधिकानि तावतैव गुणितानि जातैका कोटिः सप्तषष्टिलक्षाः सप्तसप्ततिसहस्राणि द्वे शते षोडशाधिके अङ्कतोऽपि 16777216, एतदुपलक्षितं तपो वर्गवर्गतप इत्युच्यते। उत्त०३० अ०। वग्गसंख्या-स्त्री०(वर्गसंख्या) वः संख्यानं यथा द्वयोवर्गश्चत्वारः "सदृशद्विराशिघात'' इति वचनात्।संख्याभेदे, स्था० 10 ठा०३ उ०। वग्गसीह-पुं०(वर्गसिंह) सप्तदशस्य जिनस्य प्रथमभिक्षादाययके, स०। वग्गु-त्रि०(वल्गु) शोभने, सूत्र० 1 श्रु० 4 अ०२ उ०। आ० म०। शक्र देवेन्द्रलोकपालवैश्रवणस्य स्वनामख्याते विमाने, नपुं०। भ०३ श०७ उ०। (वक्तव्यता'लोगपाल' शब्देऽस्मिन्नेव भागे 716 पृष्ठे गता।) "दो वग्गू'। स्था० 2 ठा०३ उ० / चक्रपुराख्यपुरीविभूषितविजयक्षेत्रयुगले, स्था०२ ठा०३ उ०। तच्च ज