________________ वाणा 763 - अमिधानराजेन्द्रः - भाग 6 वग्गणा हिं 4 / लेसाहिं 5 भव्य 6 दसण ७,पक्खेहिं 8 विसिट्ठलेसाहिं // 1 // " इति। इतः सिद्धवर्गणा अभिधीयते-तत्र सिद्धा द्विधाअनन्तरसिद्ध-परम्परसिद्धभेदात्, तत्रानन्तरसिद्धाः पञ्चदशविधाः, तद्वर्गणैकत्वमाह - एगा तित्थसिद्धाणं वग्गणा, एवं०जाव एगा एकसिद्धाणं वग्गणा, एगा अणिकसिद्धाणं वग्गणा, एगा पढमसमयसिद्धाणं वग्गणा, एवं जाव अणंतसमयसिद्धाणं वग्गणा। एगा परमाणु-पोग्गलाणं वग्गणा, एवं जाव एगा अणंतपएसियाणं खंधाणं वग्गणा / एगा एगपएसोगाढाणं पोग्गलाणं वग्गणा, जाव एगा असंखेनपएसोगाढाणं पोग्गलाणं वग्गणा / एगा एगसमय-हितियाणं पोग्गलाणं वग्गणा ०जाव असंखेजसमयहितिआणं पोग्गलाणं वग्गणा, एगा एगगुणकालगाणं पोग्गलाणं वग्गणा ०जाव एगा असंखेज ०एगा अणंतगुणकासयाणं पोग्गलाणं वग्गणा / एवं वण्णा गंधा रसा फासा भाणियव्याजाव एगा अणंतगुणलुक्खाणं पोग्गलाणं वग्गणा / एगा जहन्नपएसियाणं खंधाणं वग्गणा, एगा उमस्सपएसियाणं खंधाणं वग्गणा, एगा अजहन्नुकस्सपएसियाणं खंधाणं वग्गणा, एवं जहन्नोगाहण-याणं उकोसोगाहणगाणं अजहन्नुकोसोगाहणगाणं जहन्नहितियाणं उकस्सहितियाणं अजहन्नुकोसहितियाणं जहन्न-गुणकालगाणं उकोसगुणकालयाणं अजहनुकोसगुणकालगाणं एवं वण्णगंधरसफासाणं वग्गणा भाणियव्या, जाव एगा अदजन्नुकोसगुणलुक्खाणं पोग्गलाणं वग्गणा 1 (सू०५१) 'एगा तित्थे' त्यादिना, तत्र तीर्यतेऽनेनेति तीर्थम्, द्रव्यतो नद्यादीनां समोऽनपायश्च भूभागो भौतादि प्रवचनं वा, द्रव्यतीर्थता त्वस्याप्रधानत्वाद्, अप्रधानत्वं च भावतस्तरणीयस्य संसारसागरस्य तेन तरीतुमशक्यत्वात्,सावद्यत्वादस्येति, भावतीर्थ तुसङ्घः, यतो ज्ञानादिभावेन तद्विपक्षादज्ञानादितो भवाच्च भावभूतात् तारयतीति, आह च"जणाणदसणचरि-त्तभावओ तव्विवक्खभावाओ। भवभावओयतारेइतेण तं भावओ तित्थं ॥१॥"इति, त्रिषु वा-क्रोधाग्निदाहोपशमलोभतृष्णानिरासकर्मामलापनयनलक्षणेषु ज्ञानादिलक्षणेषु वा अर्थेषु तिष्ठतीति त्रिस्थम्, प्राकृतत्वात् तित्थं, आह च-"दाहोवसमादिसुवा, जं तिसु थियमह व दंसणाईसुं ! तो तित्थं सो चिय, उभयं च विसेसणविसेसं॥१॥" इति, 'विशेषणविशेष्य मिति तीर्थ सङ्घ इति, सो वा तीर्थ-मिति / त्रयो वा क्रोधाग्निदाहोपशमादयोऽर्थाः-फलानि यस्य तत् त्र्यर्थम्, 'तित्थंति' पूर्ववत्, आह च-"कोहग्गिदाहसमणादओ व ते चेव तिन्नि जस्सऽत्था / होइ तियत्थं तित्थं, तमत्थसद्दो फलत्योऽयं // 1 // ' अथवा-त्रयो ज्ञानादयोऽर्थाः-वस्तूनि यस्य तत्यर्थम्, आहच-"अहवा सम्मइंसण-नाणचरित्ताइँ तिन्निजस्सs त्था / तं तित्थं पुव्वोदिय-मिहमत्थो वत्थुपज्जाओ॥ १॥"त्ति / तत्र तीर्थे सति सिद्धाः-निवृतास्तीर्थसिद्धाः, ऋषभसेनगणधरादिवत् तेषां वर्गणेति 1, तथा अतीर्थे-तीर्थान्तरे साधुव्यवच्छेदे जातिस्मरणादिना प्राप्तापवर्गमार्गा मरुदेवीवत् सिद्धा अतीर्थसिद्धास्तेषाम् 2. एवं करणात्'एगा तित्थगरसिद्धाणं वग्गणे त्यादि दृश्यम्, तीर्थमुक्तलक्षणं तत्कुर्वन्त्यानुलोम्येन हेतुत्वेन तच्छीलतया वेति तीर्थकराः, आह च"अणुलोमहेउतस्सीलया य जे भावतित्थमेयं तु। कुव्यंति पगासंति उ, ते तित्थगरा हियत्थकरा॥ 1 // " इति, तीर्थकराः सन्तो ये सिद्धास्ते तीर्थकरसिद्धा ऋषभादिवत्, तेषाम् 3, अतीर्थकरसिद्धाः सामान्यकेवलिनः सन्तो ये सिद्धा गौतमादिवत् तेषाम् 4, तथा स्वयम्-आत्मना बुद्धाः-तत्त्वं ज्ञातवन्तः स्वयंबुद्धास्ते सन्तो ये सिद्धास्ते तथा तेषाम् 5, तथा प्रतीत्यैकं किञ्चित् वृषभादिकम् अनित्यतादिभावनाकारणं वस्तु बुद्धाः-बुद्धवन्तः परमार्थमिति प्रत्येकबुद्धास्ते सन्तो ये सिद्धास्ते तथा तेषाम् 6, स्वयम्बुद्धप्रत्येकबुद्धानां च बोध्युपधिश्रुतलिङ्गकृतो विशेषः, तथाहि-स्वयम्बुद्धानां बाह्यनिमित्तमन्तरेणैव बोधिः प्रत्येकबुद्धानां तु तदपेक्षया, करकण्ड्वादीनामिवेति, उपधिः स्वयम्बुद्धानां पात्रादिदशविधः ; तद्यथा-"पत्तं 1 पत्ताबंधो 2, पायट्ठवण 3, च पायकेसरिया 4 / पडलाइ 5 रयत्ताणं, च 6 गोच्छओ७ पायनिजोगो।।१।। तिन्नेव य पच्छागा 10, रयहरणं 11 चेव होइ मुहपोत्ति // 12 // ' त्ति, प्रत्येकबुद्धानां तु नवविधः प्रावरणवज इति, स्वयम्बुद्धानां पूर्वाधीते श्रुते अनियमः, प्रत्येकबुद्धानां तु नियमतो भवत्येव, लिङ्गप्रतिपत्तिः स्वयम्बुद्धानामाचार्यसन्निधावपि भवति, प्रत्येकबुद्धानां तु देवता प्रयच्छतीति। बुद्धबोधिता:-आचार्यादिबोधिताः सन्तो ये सिद्धास्ते बुद्धयोधितसिद्धास्तेषाम् 7, एतेषामेव स्त्रीलिङ्गसिद्धानां 8 पुंलिङ्गसिद्धानां नपुंसकलिङ्गसिद्धानां 10 स्वलिङ्गसिद्धानां रजोहरणाद्यपेक्षया 11 अन्यलिङ्गसिद्धानां परिव्राजकादिलिङ्गसिद्धानां 12 गहिलिङ्गसिद्धानां मरुदेवीप्रभृतीनाम् 13 एकसिद्धानामेकैकस्मिन् समये एकैकसिद्धानाम् 14 अनेकसिद्धानामेकसमये व्यादीनाम् अष्टशतान्तानां सिद्धानामेका वर्गणेति 15 / तत्रानेकसमयसिद्धानां प्ररूपणागाथा - "बत्तीसा अडयाला, सट्टी बावत्तरी य बोधव्या। चुलसीई छन्नउई, दुरहियअट्ठोत्तरसयं च // 1 // " एतद्विवरणम्-यदा एकसमयेन एकादय उत्कर्षेण द्वात्रिंशत् सिध्यन्ति तदा द्वितीयेऽपि समये द्वात्रिंशद्, एवं नैरन्तर्येण अष्टौ समयान् यावत् द्वात्रिंशत् सिध्यन्ति, तत ऊर्ध्वमवश्यमेवान्तरं भवतीति / यदा पुनस्त्र यस्त्रिंशत आरभ्य अष्टचत्वारिंशदन्ताः एकसमयेन सिध्यन्ति तदा निरन्तरं सप्त समयान्यावत् सिध्यन्ति, ततोऽवश्यमेवान्तरं भवतीति। एवं यदा एकोनपञ्चाशतमादिं कृत्वा यावत् षष्टिरेकसमयेन सिध्यन्ति तदा निरन्तरं षट् समयान् सिध्यन्ति, तदुपरि अन्तरंसभयादिर्भवति, एवमन्यत्रापियोज्यम्। यावत् अष्टशतमेकसमयेन यदा सिध्यति तदाऽवश्यमेव समयाद्य