________________ वग्गणा 792 - अभिधानराजेन्द्रः - भाग 6 वग्गणा दितान्तःसागरोपमकोटाकोटीस्थितिकस्य मिथ्यात्यवेदनीयस्य कर्मणः स्थितेरन्तर्मुहूर्तमुदयक्षणादुपर्यतिक्रम्यापूर्वकरणानिवृत्तिकरणसंज्ञिताभ्यां विशुद्धिविशेषाभ्यामन्तर्मुहूर्तकालप्रमाणमन्तरकरणं करोति, तस्मिन् कृते तस्य कर्मणः स्थितिद्वयं भवति, अन्तरकरणादधस्तनी प्रथमस्थितिरन्तमुहूर्त्तमात्रा, तस्मादेवोपरितनी शेषा / तत्र प्रथमस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिः, अन्तर्मुहूर्तेन तु तस्यामपगतायामन्तरकरणप्रथमसमय एवौपशमिकसम्यक्त्यमाप्नोति, मिथ्यात्वदलिकयेदनाऽभावात्। यथा हि-दवानलः पूर्वदग्धेन्धन-मूषरं वा देशमवाप्य विध्मापयति तथा मिथ्यात्ववेदनाग्निरन्तरकरणमवाप्य विध्मापयतीति तदेवं सम्यक्त्वमौषधविशेषकल्पमासाद्य मदनकोद्रवस्थानीयं दर्शनमोहनीयम्, अशुद्ध कर्म त्रिधा भवति-अशुद्धमर्द्धविशुद्ध विशुद्धं चेति / त्रयाणां तेषां पुञ्जानां मध्ये यदाऽर्द्धविशुद्धः पुञ्ज उदेति तदा तदुदयवशादर्द्धविशुद्धमर्हदृष्टतत्त्ववश्रद्धानं भवति जीवस्य, तेन तदाऽसौ सम्यग्मिध्यादृष्टिर्भवति अन्तर्मुहूर्त यावत्तत ऊर्ध्वं सम्यक्त्वपुजं मिथ्यात्वपुजं वा गच्छतीति सम्यग्दृष्टिमिथ्यादृष्टिमिश्रविशेषितोऽन्योदण्डकः, तत्रच नारकादिष्वेकादशसु पदेषु दर्शनत्रयमस्ति। अत उक्तम्- 'एवं जाव थणिए त्यादि पृथिव्यादीनां मिथ्यात्वमेव, तेन तेषां तेनैव व्यपदेशः। उक्तश्च- 'चोइस तससेसया मिच्छत्ति चतुर्दशगुणस्थानकवन्तस्वसाः, स्थावरास्तु मिथ्यादृष्टय एवेत्यर्थः / द्वीन्द्रियादीनां मिभं नास्ति, संझिनामेव तद्भावात्, ततस्तेषु सम्यग्दृष्टिमिथ्यादृष्टितयैव व्यपदेशः / एवं 'तेइंदियाण वि चउरिंदियाण वि' त्ति द्वीन्द्रियवद् व्यपदेशद्वयेन वर्गणैकत्वं वाच्यम्, पञ्चेन्द्रियतिर्यगादीनां दर्शनत्रयमप्यस्ति ततस्त्रिधाऽपि तव्यपदेशः / अत एवोक्तम्-'सेसा जहा नेरइय'त्ति, तथा वाच्या इति शेषः / दण्डकपर्यन्तसूत्रं पुनरिदम्- "एगा सम्मद्दिट्ठियाणं वेमाणियाणं वग्गणा, एवं मिच्छद्दिट्टियाणं एवं सम्मामिच्छादिट्ठियाणं" एतत्पर्यन्तमाह-"जाव एगा सम्मामिच्छे" त्यादि३। 'एगा कण्हपक्खियाणं' इत्यादि कृष्णपक्षिकेतरयोर्लक्षणम्- "जेसिमवड्डो पोग्गलपरियष्टो सेसओ उ संसारो। ते सुक्पक्खिया खलु अहिए पुण किण्हपक्खीआ // 1 // " इति, एतद्विशेषितोऽन्यो दण्डकः // 4 // " एगा कण्हलेसाण''मित्यादि, लिश्यते प्राणी कर्मणा यथा सा लेश्या, यदाह"श्ले-ष इव वर्णबन्धस्य कर्मबन्धस्थितिविधात्र्यः" तथा-"कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः / स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते॥१॥" इति। इयं च शरीरनामकर्मपरिणतिरूपा योगपरिणतिरूपत्वात्, योगस्य च शरीरनामकर्मपरिणतिविशेषत्वात्, यत उक्तं प्रज्ञापनावृत्तिकृता-"योगपरिणामो लेश्या, कथं पुनर्योगपरि- 1 णामो लेश्या ? यस्मात् सयोगिकेवली शुक्ललेश्यापरिणामेन विहृत्यान्तर्मुहूर्ते शेषे योगनिरोधं करोति ततोऽयोगित्वमलेश्यत्वं च प्राप्नोति, अतोऽवगम्यते 'योगपरिणामो लेश्ये' ति, स पुनर्योगः शरीरनामकर्मपरिणतिविशेषः, यस्मादुक्तम्-"कर्म हि कामणस्य कारणमन्येषांच शरीराणामि "ति, तस्मादौदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणति- | विशेषः काययोगः 1, तथौदारिकवैक्रियाहारकशरीरव्यापाराहतवाग्द्रव्य-समूहसाचिव्यात्-जीवव्यापारो यः स वाग्योगः 2, तथौदारिकादिशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्यात् जीवव्यापारो यः स मनोयोग इति 3, ततो यथैव कायादिकरणयुक्तस्यात्मनो वीर्यपरि-णतियोगी उच्यते-तथैव लेश्यापीति। अन्येतुव्याचक्षते- 'कर्म-निस्यन्दो लेश्ये' ति सा च द्रश्यभावभेदात् द्विधा, तत्र-द्रव्यलेश्या कृष्णादिद्रव्याण्येव, भावलेश्या तु तज्जन्यो जीवपरिणाम इति। इयं च षट्प्रकारा जम्बूफलखादकपुरुषषट्कदृष्टान्ताद् ग्रामघातकचोरपुरुषषट्कदृष्टान्ताद्वा आगमप्रसिद्धादवसेयेति। तत्सूत्राणि सुगमानिनवरं कृष्णवर्णद्रव्यसाचिव्यात्, जाताऽशुभपरिणामरूपा कृष्णा, सा लेश्या येषां ते तथा, एवं शेषाण्यपि पदानि, नवरं नीला ईषत्सुन्दररूपा, एवमिति-अनेनैव क्रमेण यावत्करणात्- 'एगा कावोयलेस्साण' मित्यादि सूत्रत्रयं दृश्यम्, तत्र कपोतस्यपक्षिविशेषस्य वर्णन तुल्यानि यानि द्रव्याणि धूम्राणीत्यर्थः, तत्साहाय्याजाता कापोतलेश्या मनाक् शुभतरा, सालेश्या येषां ते तथा, तेजःअग्निज्वाला तद्वर्णानि यानि द्रव्याणि लोहितानीत्यर्थः, तत्साचिव्याजाता तेजोलेश्या शुभस्वभावा, पद्मगर्भवर्णानि यानि द्रव्याणि पीतानीत्यर्थः तत्साचिव्याजाता पद्मलेश्या शुभतरा, शुक्लवर्णद्रव्यजनिता शुक्ला, अत्यन्तशुभेति / एतासां च विशेषतः स्वरूपं लेश्याध्ययनादवसेयमिति। एवं जस्स जइ ति नारकाणामिव यस्यासुरादेर्या यावत्यो लेश्यास्तदुद्देशेन तद्वर्गणैकत्वं वाच्यम्, 'भवणे' त्यादिना तल्लेश्यापरिमाणमाह। अत्र संग्रहणीगाथाः - "काऊनीला किण्हा, लेसाओ तिन्नि होंति नरएसु। तइयाए काउनीला, नीला किण्हा परिहाए॥१॥ किण्हा नीला काऊ, तेऊ लेसा य भवणवंतरिया। जोइससोहमीसा-ण तेउलेसा मुणेयव्वा // 2 // कप्पे सणंकुमारे, माहिदे चेव बंभलोएय। एएसु पम्हलेसा, तेण परं सुक्कलेसा उ॥३॥ पुढवी आउ वणस्सइ, वायर पत्तेय लेस चत्तारि। गब्भयतिरियनरेसुं, छल्लेसा तिन्नि सेसाणं // 4 // " अयंसामान्योलेश्यादण्डकः 5 / अयमेवभव्याभव्यविशेषणादन्यः, 'एगा कण्हलेसाणं भवसिद्धियाणं वग्गणे त्यादि, 'एवमिति कृष्णलेश्यायामिव' 'छसुवि' त्ति कृष्णया सह षट्सु, अन्यथा अन्या पञ्चैवातिदेश्या भवन्तीति, द्वे द्वे पदे प्रतिलेश्यं भव्याभव्यल-क्षणे वाच्ये, यथा- 'एगा नीललेसाणं भवसिद्धियाणं वग्गणे' त्यादि६, लेश्यादण्डक एव दर्शनत्रय-विशेषितोऽन्यः, 'एगा कण्हलेसाणं सम्मद्दिट्ठियाण मित्यादि, 'जेसिं जइ दिडिओ' त्ति येषां नारकादीनां या यावत्यो दृष्टयः सम्यक्त्वाद्यास्तेषां ता वाच्या इति / तत्र एकेन्द्रियाणां मिथ्यात्वमेव, विकलेन्द्रियाणां सम्यक्त्वमिथ्यात्वे, शेषाणां तिस्रोऽपि दृष्टय इति 7, लेश्यादण्डक एव कृष्णशुक्लपक्षविशिष्टोऽन्यः, 'एगा कण्हलेस्साणं कण्हपक्खियाण मित्यादि, एते 'अट्ठचउवीसदंड्य'त्ति, एतेचैवम्-"ओहो १भव्वाईहि, विसेसिओ रदंसणेहिं३ पक्खे