SearchBrowseAboutContactDonate
Page Preview
Page 815
Loading...
Download File
Download File
Page Text
________________ वग्गणा 761 - अभिधानराजेन्द्रः - भाग 6 वग्गणा कुमारास्तेषामेका वर्गणेति, 'चउवीसदंडउ' त्ति चतुर्विशतिपदप्रतिबद्धो दण्डको वाक्यपद्धतिश्चतुर्विशतिदण्डकः, स इह वाच्य इति शेषः, (स्था०) एतदनुसारेण सूत्राणि वाच्यानि, यावच्चतुर्विशतितमम्। 'एगा वेमाणियाणं वग्गण' त्ति, एष सामान्यदण्डकः 1; ननु नारकसत्तैव दुरुपपादा आस्तां तद्धर्मभूताया वर्गणाया एकत्वमनेकत्वं वेति, तथाहिन सन्ति नारकाः तत्साधकप्रमाणाभावात्, व्योमकुसुमवत्। अत्रोच्यतेप्रमाणाभावादित्यसिद्धो हेतुः, तत्साधकानुमानसद्भावात्, तथाहिविद्यमानभोक्तृकं प्रकृष्टपापकर्मफलम्कर्मफलत्वात्, पुण्यकर्मफलवत्। नच तिर्यड्नरा एव प्रकृष्टपापफलभुजः, तस्यौदारिकशरीरवता वेदयितुमशक्यत्वात, विशिष्टसुरजन्मनिबन्धनप्रकृष्टपुण्यफलवत् / आह च"पावफलस्स पगिट्ठस्स भोइणो कम्मओऽवसेसव्व। संतिधुवं तेऽभिमया, नेरइया अह मई होज्जा // 1 // अचत्थदुक्खिया जे, तिरियनरा नारग त्ति तेऽभिमया। तं नजओ सुरसोक्खप्पगरिससरिसं न तं दुक्खं // 2 // " इति।" अवसेसव्व"त्ति यथा नारकेभ्योऽन्ये तिर्यड्नरा इत्यर्थः, अथ सुराणामपि विवादास्पदीभूतत्वात् विशिष्टसुरजन्मनिबन्धनप्रकृष्टपुण्यफलवत् इत्यसिद्धो दृष्टान्तः / अत्रोच्यते-देव इति सार्थकं पदम्, च्युतव्यु-त्पत्तिमत्, शुद्धपदत्वात्, घटाभिधानवदिति। ततःसन्ति देवा इति प्रत्येतव्यम्। अथ मनुष्येण गुणद्धिसंपन्नेनार्थव भविष्यतिदेवपदमितिन विवक्षितदेवसिद्धिरिति। अत्रोच्यते-यदिदं नरविशेषे देवत्वंतदोपचारिकम, उपचारश्च तथ्यार्थसिद्धौ सत्यां भवति। यथा-निरुपचरितसिंहसद्भावे माणवके सिंहोपचार इति, आह च"देव त्ति सत्थयमिदं, सुद्धत्तणओ घडाभिहाणं व। अह व मती मणुओ चिय, देवो गुणरिद्धिसंपन्नो॥१॥ तनजओ तचत्थे, सिद्धे उवयारओ मया सिद्धी। तद्यत्थ सीहसिद्धे, माणवसीहोवयारो व्व॥२॥" इति। अपिच"देवेसुन संदेहो, जुत्तो जंजोइसा सपञ्चक्खं। दीसंति तक्या वि य, उपघायाणुग्गहा जगओ / / 1 / / आलयमेतं च मई, पुरं च तव्वासिणो तह वि सिद्धा। जे ते देव त्ति मया, न य निलया निच्चपडिसुण्णा / / 2 / / को जाणइव किमेयं, ति होज णिस्संसयं विमाणाई। रयणमयनभोगमणा-दिह जह विजाहरादीणं / / 3 / / " इति, तेषामसुरादिविशेषः पुनराप्तवचनादवसेय इति। अथ पृथिव्यप्तेजोवायुवनस्पतिकायिकाः कथमिह जीवत्वेन प्रतिपत्तव्याः? उच्छ्वासादिप्राणिधर्माणां तेष्वप्रतीयमानत्वाद्। अत्रोच्यते-आप्तवचनादनुमानतश्च। तत्राप्तवचनमिदमेव। अनुमानंत्विदम्- वनस्पतयो विद्रुमलवणोपलादयः स्वस्वाश्रये वर्तमानाः सात्मकाः, समानजातीयाऽङ्करसद्भावाद्, अर्शाविकाराडरवत् / आह स- "मसंकुरो व्व समाणं, जाईरूवंsकुरोवलंभाओ। तरुगणविदुमलवणोपलादयो सासयावत्था // 1 // " इति, इह समानजातिग्रहणं शृङ्गाङ्कव्यवच्छेदार्थम्, स हि न समान- | जातीयो भवतीति। तथा-सात्मकमम्भो भौम, भूमिखनने स्वाभाविकसम्भवाद्, दर्दुरवत्। अथवा-सात्मकमन्तरिक्षोदकम्, स्वभावतो व्योमसम्भूतस्य पातात्, मत्स्यवत्। आह च-"भूमिक्खयसाभाविय संभवओ दडुरो व्व जलमुत्तं / " (सात्मकत्वेनेति) अहवा मच्छो व सहाववोमसंभूयपायाओ॥ 1 // " इति तथा सात्मको वायुरपरप्रेरिततिर्यगनियतदिग्गतित्वाद् गोवत् / इह चापरप्रेरितग्रहणेन लेष्ट्वादिना व्यभिचारः परिहृतः, एवं तिर्यग्रहणेनोर्ध्वगतिनाधूमेनानियमितग्रहणेन च नियमितगतिना परमाणुनेति / तथा तेजः सात्मकमाहारोपादानात् तवृद्धिशेषोपलब्धेस्तद्विकारदर्शनाच पुरुषवद् / आह च-"अपर-- प्पेरियतिरिया, नियमियदिग्गमणओऽनिलो गोव्व। अनलो आहाराओ, विद्धिविगारोवलंभाओ // १॥इति, अथवा-पृथिव्यप्तेजोवायवो जीवशरीराणि, अभ्रादिविकारवर्जितमूर्तजातीयत्वात्, गवादिशरीरवदिति / अभ्रादिविकारा हि मूर्तजातीयत्वे सत्यपि न जीवतनवस्तेन तत्परिहारो हेतुविशेषणम् / आह च- "तणओ ऽणब्भाइविगारमुत्तजाइत्तओऽनिलंताई। (भूतानिति प्रक्रमः) सत्थासत्थहयाओ, निजीवसजीवरूवाओ॥१॥" इति। वनस्पतीनां विशेषेण सचेतनत्वं भाष्यगाथाभिरभिधीयते - "जम्पजराजीवणमर-णरोहणाहारदाहलामयओ। रोगतिगिच्छाईहि य, णारि व्व सचेयणातरवो // 1 // छिकाप्परोइयाछि-क्कमित्तसंकोयओ कुलिंगि व्व। आसयसंचाराओ, वियत्तं 'वियत्त' ति गणधरामन्त्रणमिति ! वल्लीवियाणाहि // 2 // सम्मादयो व साव-प्पवोहसंकोयणादिओऽभिमया। बउलादयो य सद्दा-इ विसयकालोवलंभावो॥३॥" इति। 'सम्मादओ' ति शम्यादयः, 'विसयकालोवलंभाओ' त्ति विषयाणांगीतसुरागण्डूषकामिनीचरणताडनादीनां कालो वसन्तादिरिति, 'रागाभवसिद्धिये' त्यादि, भविष्यतीति भवा-भाविनी सा सिद्धिःनिर्वृत्तिर्येषां ते मवसिद्धिका-भव्याः, तद्विरीता-स्त्वभवसिद्धिका अभव्या इत्यर्थः / ननु जीवत्वे समाने सति को भव्याभव्ययोर्विशेषः? उच्यते-स्वभावकृतो, द्रव्यत्वेन समानयोर्जीवनभसोरिव / आह च"दवाइत्ते तुल्ले, जीवनभाणं सभावओ भेदो। जीवाजीवाइगओ, जह तह भव्वेयरविसेसो॥ 1 // " इति, आभ्यां विशेषितोऽन्यो दण्डकः 2 // 'एगा सम्मद्दिट्ठियाण' मित्यादि,सम्यग-अविपरीता दृष्टिः-दर्शनं रुचिस्तत्त्वानि प्रति येषां ते सम्यग्दृष्टि काः, ते च मिथ्यात्वमोहनीयक्षयक्षयोपशमेभ्यो भवन्ति, तथा मिथ्याविपर्यासवती जिनाभिहितार्थसार्था श्रद्धानवतीदृष्टिः-दर्शनं श्रद्धानंयेषांतेमिथ्यादृष्टिकाः-मिथ्यात्वमोहनीयकर्मोदयादरुचितजिनवचना इति भावः, उक्तञ्च- 'सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः। मिथ्यादृष्टिः सूत्रं, हि नः प्रमाणं जिनाभिहितम्॥ 1 // " इति / तथा सम्यक् मिथ्या च दृष्टिर्येषां ते सम्यग्मिथ्यादृष्टिकाःजिनोक्तभावान्प्रत्युदासीनाः। इहचगम्भीरभवोदधिमध्यविपरिवर्तीजन्तुरनाभोगनिवर्तितेन गिरिसरिदुपलघोलनाकल्पेन यथाप्रवृत्तिकरणेन संपा
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy