________________ वग्गणा ७९०-अभिधानराजेन्द्रः - भाग 6 वग्गणा हणवर्गणानां स एवाडलासंख्येयभागो न्यूनतर इति / उक्तं वर्गणानां स्वरूपमवगाहक्षेत्रमानं च। अधुनैकादिवृद्ध्या वर्द्धमानानामग्रहणवर्गणानां परिमाणनिरूपणायाहइकिकहिया सिद्धा-णतं सा अंतरेसु अग्गहणा। सय्वत्थ जहनुचिया, नियणंतसाहिया जिट्ठा।। 77 / / एकैकपरमाणुः प्रतिस्कन्धमधिक उत्तरप्रवृद्धो यासु ता एकैकाधिका एकैकपरमाणुवृद्धा इत्यर्थः / अग्रहणवर्गणा भवन्तीति योगः / कियत्य इत्याह-सिद्धानन्तांशाः सिद्धानामनन्तोऽशो भागो यासांताः सिद्धानन्तांशाः सिद्धानन्तभागवर्तिन्यः / उपलक्षणत्वादभव्यानन्तगुणाः / आसामाधारनिरूपणायाह-अन्तरेषु-अन्तरालेष्वौदारिकवैक्रियादिवर्गणामध्येष्वित्यर्थः अग्रहणा-अग्रहणवर्गणाः / एतदुक्तं भवतिनिजनिजजघन्याग्रहणवर्गणैकस्कन्धे ये परमाणवस्तेऽभव्यराशिप्रमाणेनानन्तकेन गुणिता यावन्तो भवन्ति तावत्योऽग्रहणवर्गणा एकैकपरमाणुवृद्ध अन्तरेषु मन्तव्याः। अधुना ग्रहणयोग्यवर्गणासु निजनिजजघन्यवर्गणायाः सकाशात्स्वस्वोत्कृष्टवर्गणायां यावन्मात्राधिकत्वं तदाह- 'सव्वत्थ जहन्नुचिया नियणंतसाहिया जिट्ठा' सर्वत्रसर्वास्वप्यौदारिकवैक्रियाहारकतैजसभाषानापानमनःकार्मणवर्गणासु, जघन्या चासावुचिता च योग्या च जघन्योचिता योग्यजघन्येत्यर्थः / तस्याः सकाशात्प्राकृतत्वात्पञ्चम्येकवचनस्य लुप्। निजेन स्वकीयेनानन्ताशेनानन्तभागेना-धिका समर्गला भवति। काऽसावित्याह-ज्येष्ठा उत्कृष्टा। किमुक्तं भवति औदारिकजघन्यग्रहणवर्गणारम्भकस्कन्धस्यानन्तभागे यावन्तोऽणवस्तत्प्रमाणेन विशेषेणोत्कृष्टवर्गणारम्भक एकैकस्कन्धोऽधिको मन्तव्यः / अत्र एवानन्तभागलब्धपरमाणूनामनन्तत्वेनैकै कपरमाणुवृद्ध्या जायमाना जघन्योत्कृष्टान्तरालवर्तिन्य औदारिकवर्गणा अप्यनन्ताः सिद्धा भवन्ति, एवं वैक्रियाहारकतैजसभाषाऽऽनापानमनःकार्मणवर्गणास्वपि ग्रहणप्रायोग्यासु निजनिजजघन्यवर्गणारम्भकस्कन्धस्यानन्तभागे ये अनन्तपरमाणवस्तावन्मात्रेणानन्तभागेन स्वस्वोत्कृष्टवर्गणारम्भकएकैकः स्कन्धोऽधिको वाच्यः, तस्य चानन्तभागस्यानन्तपरमाणुमयत्वेनैकैकपरमाणुवृद्धाः सर्वग्रहणवर्गणा अप्यनन्ता अवसेयाः, केवलमुत्तरोत्तरवर्गणा स्कन्धानामनन्तगुणपर-- माणूपचितत्वेनानन्तभागोऽप्युत्तरानुप्रवृद्धप्रवृद्धतरप्रवृद्धतमादिभेदेन नानाविधो दृश्य इति। कर्म० 5 कर्म०। क० प्र०। पं० सं०। आ० चू०। आचा०॥ दण्डकक्रमेण वर्गणा उच्यन्ते - एगाणेरइयाणं वग्गणा, एगा असुरकुमाराणं वग्गणा, चउवीसं दंडओ० जाव एगा वेमणियाणं वग्गणा, एगा भवसिद्धियाणं वग्गणा, एगा अभवसिद्धियाणं वग्गणा, एगा भवसिद्धियाणं णेरइयाणं वग्गणाएगा अभवसिद्धियाणं णेरइयाणं वग्गणा, एवं जाव एगा भवसिद्धियाणं वेमाणियाणं वग्गणा, एगा अभवसिद्धियाणं वेमाणियाणं वग्गणा, एगा सम्महिट्ठियाणं वग्गणा, एगा मिच्छद्दिष्ट्ठियाणं वग्गणा, एगा सम्मामिच्छद्दिहियाणं वग्गणा, एगा समद्दिट्ठियाणं णेरइयाणं वग्गणा, एगा मिच्छद्दिट्ठियाणं णेरइयाणं वग्गणा, एगा सम्मामिच्छद्दिट्ठियाणं णेरइयाणं वग्गणा, एवं० जाव थणियकुमाराणं वग्गणा, एगा मिच्छद्दिट्ठियाणं, पुढविकाइयाणं वग्गणा, एवं जाव वणस्सइकाइयाणं, एगा सम्मविट्ठियाणं बेइंदियाणं वग्गणा, एगा मिच्छद्दिट्ठियाणं बेइं-दियाणं वग्गणा, एवं तेइंदियाणं दि, चउरिंदियाणं वि, सेसा जहा नेरइया जाव एगा सम्मामिच्छतिट्ठियाणं वेमाणियाणं वग्गणा, एगा कण्हपक्खियाणं वग्गणा, एगा सुक्कपक्खियाणं वग्गणा, एगा कण्हपक्खियाणं णेरइयाणं वग्गणा, एगा सुक्कप-क्खियाणं णेरइयाणं वग्गणा, एवं चउवीसदंडओ भाणियव्वो / एगा कण्हलेस्साणं वग्गणा, एगा णीललेस्साणं वग्गणा, एवं जाव सुक्क लेस्साणं वग्गणा, एगा कण्हलेसाणं नेरइयाणं वग्ग-णा ०जाव काउलेस्साणं नेरइयाणं वग्गणा, एवं जस्स जति लेस्साओ, भवणवइवाणमंतरपुढविआउवणस्सइकाइयाणं च चत्तारि लेस्साओ, तेउवाउबेइंदियतींदियचउरिंदियाणं तिन्नि लेस्साओ, पंचिंदियतिरिक्खजोणियाणं मणुस्साणं छल्लेस्साओ, जोइसियाणं एगा तेउलेस्सा माणियाणं तिन्नि उवरिमलेस्साओ, एगा कण्हलेसाणं भवसिद्धियाणं वग्गणा, एवं छसु विलेस्सासु दो दो पयाणि भाणियव्वाणि। एगा कण्हले-स्साणं भवसिड़ियाणं नेरइयाणं वग्गणा, एगा कण्हलेसाणं अभवसिद्धियाणं णेरइयाणं वग्गणा, एवं जस्स जति लेस्साओ तस्स तति भाणियव्वाओ जाव वेमाणियाणं / एगा कण्हलेसाणं सम्मद्दिट्टियाणं वग्गणा, एगा कण्हलेस्साणं मिच्छद्दिट्टियाणं वग्गणा, एगा कण्हलेस्साणं सम्मामिच्छहिट्ठियाणं वग्गणा, एवं छसु वि लेसासु जाव वेमाणियाणं जेसिं जति दिट्ठीओ। एगा कण्हलेस्साणं कण्हपक्खियाणं वग्गणा, एगा कण्हलेस्साणं सुक्कपक्खियाणं वग्गणा 0 जाव वेमाणियाणं, जस्स जति लेस्साओ एए अट्ठ चउवीसदंडया। (सू०५१४) तत्र'नेरइयाणं' ति निर्गतम्-अविद्यमानमयम्-इष्टफलं कर्म येभ्यस्ते निरयास्तेषु भवा नैरयिकाः-क्तिष्टसत्त्वविशेषाः, ते च पृथ्वीप्रस्तटनरकावासस्थितिभव्यत्वादिभेदादनेकविधास्तेषां च सर्वेषां वर्गणा वर्ग:-समुदायः, तस्याश्चैकत्वं सर्वत्र नारकत्वादिपर्यायसाम्यादिति। तथा असुराश्च ते नवयौवनतया कुमारा इव कुमाराश्चेत्यसुर