________________ वग्गणा 786 - अभिधानराजेन्द्रः - भाग 6 वग्गणा णोयाद्यष्टविधकर्मस्वप्रायोग्यपुद्गलानां गृहीतानां तत्तद्रूपेण परिणामजनकमित्यर्थः। ततो वैक्रियादिनिष्पत्तियोग्याः पुदगलवर्गणा अपि वैक्रियादिशब्दैः प्रोच्यन्ते, यावज्ज्ञानावरणाद्यष्टविधकर्मपरिणामहेतुकं दलिकमपि कार्मणवर्गणेतितता वैक्रियं चाहारकंच तैजसंच भाषा चाssनापानश्च मनश्च कार्मणं चेति समाहारद्वन्द्वस्तस्मिन् वैक्रियाहारकतैजसभाषाऽऽनापानमनः कार्मणे / एता वैक्रियाद्या वर्गणा अग्रहणवर्गणान्तरिता भवन्ति इत्यक्षरार्थः / भावार्थस्त्वयम्-तत्र या पूवमौदारिकं प्रति प्रभूतपरमाणुनिष्पन्नत्वात्सूक्ष्मपरिणामत्वोच्चाग्रहणप्रायोग्या वर्गणा उक्तास्ता एव वैक्रिय प्रतिस्वल्पपरमाणुनिष्पन्नत्वात्स्थूलपरिणामत्वाघाग्रहणप्रायोग्या वर्गणा वेदितव्याः / ततोऽग्रहणप्रायोग्योत्कृष्टवर्गणापेक्षया च एकपरमाण्वधिकस्कन्धरूपा वर्गणा वैक्रियशरीरप्रायोग्या जघन्या वर्गणा, ततो द्विपरमाण्वधिकस्वरूपा द्वितीया वैक्रियशरीरस्य ग्रहणप्रायोग्या वर्गणा, एवमेकैकपरमाण्वधिकस्कन्धरूपा वैक्रियशरीरप्रायोग्या वर्गणास्तावद्वाच्या यावदुत्कृष्टा ग्रहणप्रायोग्या वर्गणा भवति, जघन्यायाश्चोत्कृष्टा अनन्तगुणेति। एवं सर्वत्र वैक्रियशरीरोत्कृष्टवर्गणापेक्षया चैकपरमाण्वधिकस्कन्धरूपा जघन्या अग्रहणप्रायोग्या वर्गणा / ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीया अग्रहणप्रायोग्या। एवमेकैकपरमाण्वधिकस्कन्धरूपा अग्रहणप्रायोग्यावर्गणास्तावद्वाच्या यावदुत्कृष्टा अग्रहणप्रायोग्या वर्गणाः / एताश्च प्रभूतद्रव्यनिष्पन्नत्वात् सूक्ष्मपरिणामोपेतत्वाच वैक्रियशरीरस्याग्रहणयोग्याः आहारकस्याप्यल्पपरमाणुनिष्पन्नत्वाद्वादरपरिणामोपेतत्वाच्याग्रहणयोग्या, एवमुत्तरत्रापि भावना कार्या / अग्रहणप्रायोग्योत्कृष्टवर्गणापेक्षया चैकपरमाण्यधिकस्कन्धरूपा वर्गणा आहारकशरीरप्रायोग्या जघन्या वर्गणा, जघन्याद्या उत्कृष्टान्ताः / एता अपि यथोत्तर मेकोत्तरपरमाणुवृद्धिमत्स्कन्धारब्धा अनन्ता भवन्ति, ततस्तदुपरि रूपाधिकस्कन्धेरारब्धा आहारकतैजसयोरुक्तादेव हेतोरयोग्या जघन्या अग्रहणवर्गणा, जघन्याद्या उत्कृष्टान्ताः / एता अप्येकोत्तरपरमाणुवृद्धिमत्स्कन्धारब्धा अनन्ता एव मन्तव्याः / तदुपरि च रूपाधिकस्कन्धारब्धा तैजसशरीरनिष्पादनहेतुर्जघन्या तैजसशरीरवर्गणा, जघन्याया उत्कृष्टां यावदेता अप्यकोत्तरवृद्धिमत्स्कन्धारब्धा अनन्ता एव मन्तव्याः / तदुपरि चैकोत्तरपरमाण्वारब्धाः स्कन्धाः प्रागुक्तहेतोरेव तैजसभाषयोरयोग्यत्वादनन्ता अग्रहणवर्गणा वाच्याः / तदुपरि रूपाधिकस्कन्धेरारब्धा जधन्या भाषावर्गणा यां भाषार्थं जीवोऽवलम्बते, यां च गृहीत्वा चतुर्विधभाषात्येन परिणमय्य विसृजतीति भावः।जधन्याया उत्कृष्टां यावदेता अप्येकैकपरमाणुवृद्धिमत्स्कन्धारब्धा अनन्ता ज्ञेयास्तदुपरिच रूपाधिकस्कन्धेराब्धा जघन्या अग्रहण-वर्गणा जघन्यामादौ कृत्वोत्कृष्टां यावदेता अप्येकैकपरमाणुवृद्धिमत्स्कन्धारब्धा अनन्ता अवसेयाः। तदुपरि रूपाधिकस्कन्धैरारब्धा जघन्या आनापानवर्गणा भवति, यां गृहीत्वा आनापानभावं नयति, जघन्याया आरभ्योत्कृष्टां यावदेता अप्येकैकोत्तरवृद्धिमत्स्कन्धारब्धा अनन्ता मन्तव्याः। ततस्तदुपरि पुनरेकैकोत्तरस्कन्धारब्धा जघन्याद्या उत्कृष्टान्ता अनन्ता एवाग्रहणवर्गणा वाच्याः। तदुकृष्टा ग्रहणवर्गणोपरि रूपे प्रक्षिप्ते जघन्या मनोनिष्पत्तिहेतुर्मनोवर्गणा भवति, यां गृहीत्वा जीवः सत्यासत्यादिचतुर्विधमनोयोगभावेन परिणमय्य चिन्तयति, जघन्याद्या उत्कृष्टान्ताः, एता अप्येकैकोत्तरपरमाणुवृद्धिमत्स्कन्धारब्धा अनन्ता अवसेयाः। ततस्तदुपरि एकैकपरमाणुवृद्धिमत्स्कन्धारब्धा जघन्याद्या उत्कृष्टवर्गणान्ता अनन्ता अग्रहणवर्गणाः। तत उत्कृष्टाग्रहणवर्गणोपरि रूपे प्रक्षिप्ते जघन्या ज्ञानावरणादिहेतुभूता कार्मण-वर्गणा भवति जघन्याया उत्कृष्टां यावदेता अप्येकैकोत्तरपरमाणुवृद्धिमत्स्कन्धारब्धा अनन्ता मन्तव्याः / अत्रौदारिकादिवर्गणा आदौ कृत्वा जघन्यमध्यमोत्कृष्टा अग्रहणग्रहणप्रायोग्या वर्गणाः। औदारिकाग्रहणवर्गणाः १औदारिकग्रहणवर्गणाः 2 अग्रहणवर्गणाः 3 वैक्रियग्रहणवर्गणाः 4 अग्रहणवर्गणाः 5 आहारकवर्गणाः 6 अग्रहणवर्गणाः७ तैजसग्रहणवर्गणाः 8 अग्रहणवगणाः 6 भाषावर्गणाः 10 अग्रहणवर्गणाः 11 आनापानवर्गणाः 12 अग्रहणवर्गणाः 13 मनोग्रहणवर्गणाः 14 अग्रहणवर्गणाः 15 कार्मणग्रहणवर्गणाः 16 एवमेता औदारिकाद्याः कार्मणवर्गणावसानावर्गणाः प्ररूपिताः। इत ऊर्द्धवमन्यत्र कर्मप्रकृत्यादिष्वन्या अपिध्रुवाचित्ताद्या वर्गणा निरूपिताः, ताश्चेहानुपयोगित्वेन नोक्तास्ततएवावसेयाः, संक्षेप-रुचिसत्त्वानुग्रहार्थत्वात्प्रस्तुतप्रारम्भस्येति। उक्ता वर्गणाः, एताश्च बहुतरपरमाणुनिचयरूपा अभिहिताः, अतः कियन्मात्रं क्षेत्रंता व्याप्नुवन्तीत्याह-"सुहुमाकम्मे "त्यादि एता औदारिकाद्या वर्गणाः क्रमात क्रमेणोत्तरोत्तरपरिपाट्या सूक्ष्मा ज्ञातव्याः / अयमर्थः-प्रथममग्रहणवर्गणा औदारिकस्य सूक्ष्माः, ततस्तस्यैव ग्रहणवर्गणाः सूक्ष्माः, ततस्तस्यैव अग्रहणवर्गणाः सूक्ष्माः। ततो वैक्रियस्य ग्रहणवर्गणाः सूक्ष्माः, ततस्तस्यैवाग्रहणवर्गणाः सूक्ष्माः। तत आहारकग्रहणवर्गणाः सूक्ष्माः, ततस्तस्यैवाग्रहणवर्गणाः सू-क्ष्माः। ततस्तैजसस्य ग्रहणवर्गणाः सूक्ष्माः, ततस्तदग्रहणवर्गणाः सूक्ष्माः। ततो भाषाग्रहणवर्गणाः सूक्ष्माः, ततस्तदग्रहणवर्गणाः सूक्ष्माः, ततआनापानग्रहणवर्गणाः सूक्ष्माः, ततस्तदग्रहणवर्गणाः सूक्ष्माः। तत आनापानग्रहणवर्गणाः सूक्ष्माः, ततस्तदग्रहणवर्गणाः सूक्ष्माः, ततो मनोग्रहणवर्गणाः सूक्ष्माः, ततस्तदग्रहणवर्गणाः सू-क्ष्माः, ततः कार्मणग्रहणवर्गणाः सूक्ष्मा इति। "अवगाहो ऊणूणं-गुलअसंखंसु' ति अवगाहन्ते अवस्थानं कुर्वन्ति वर्गणा यस्मिन्नसाववगाहोऽवस्थानक्षेत्रम्, स च कियन्मात्र इत्याह-ऊनोनाङ्गुलासंख्येयांशो न्यूनो न्यूनतरोऽङ्गुलस्यासंख्येयांशोऽङ्खलासंख्येयभागो यत्र स तथा / एतदुक्तं भवति पुद्गलद्रव्याणां हि यथा यथा प्रभूतपरमाणुनिचयःसंपद्यते तथा तथा सूक्ष्मसूक्ष्मतरः परिणामः संजायते, तत औदारिकवर्गणाः स्कन्धानामवगाहनाङ्गुलासंख्यभागः, स एव तदग्रहणवर्गणानांन्यूनः। स एव वैक्रियग्रहणवर्गणानांन्यूनः, तदग्रहणवर्गणानां स एव न्यूनः / आहारकग्रहणवर्गणानां स एव न्यूनः, तग्रहणवर्गणानांस एवन्यूनः तैजसग्रहणवर्गणानांसएवन्यूनः,तदग्रहणवर्गणानां स एव न्यूनः। भाषाग्रहणवर्गणानां स एव न्यूनः, तदग्रहणवर्गणानांस एव न्यूनः / आनापानग्रहणवर्गणानां स एव न्यूनः, तद्ग्रहणवर्गणानां स एव न्यूनः / मनोग्रहणवर्गणानांसएवन्यूनः,तग्रहवर्गणानांसएवन्यूनः। कार्मणग्र