________________ वग्गणा 787 - अभिधानराजेन्द्रः - भाग 6 वग्गणा वर्गणा एकोत्तरवृद्धया निरन्तरमेव लोके सदैव प्राप्यन्ते, न पुनरेकोत्तरवृद्धिरेतास्वन्तराले कदापि त्रुट्यतीति भावः। "चउधुवणंतरे' इत्यादि व्याचिख्यासुराह - धुवणंतराइ चत्ता-रिजं धुवाई अणंतराइं च / भेयपरिणामओ जा, सरीरजोग्गत्तणाभिमुहा।। 647 / / खंधदुगदेहजोग्ग-त्तणेण वा देहवग्गणाउत्ति। सुहुमोदरगयबायर-परिमाणो मीसयक्खंधो॥ 642 // ततोऽशून्यान्तरवर्गणानामुपरि ध्रुवानन्तराणि चत्वारि वर्गणाद्रव्याणि भवन्ति, यद्यस्मात्तानि ध्रुवाणि सर्वकालभावीनि, अनन्तराणि च निरन्तरकोत्तरवृद्धिभाजीति / इदमुक्तं भवति-आद्या ध्रुवानन्तरवर्गणा अनन्ता भवन्ति, एवमेतावत्यो द्वितीयाः,तृतीयाः, चतुर्थ्यश्च वाच्याः। ध्रुववर्गणाः प्रागप्युक्ताः, परंताभ्य एता भिन्ना एव न पुनस्तास्वन्तर्भवन्ति, अतिसूक्ष्मपरिणामत्वादहुद्रव्योपचितत्वाच्चेति पृथगुक्ताः / आह-ननु भवत्वेवम्, केवलं यद्येता निरन्तरमेकोत्तरवृद्धिभाजस्तर्हि चातुर्विध्ये किं कारणम् ? सत्यम्, किंतु चतसृणामपि वर्गणानां मध्येष्वेव नैरन्तर्येणेकोत्तरवृद्धिः प्राप्यते, अन्तरालेषु पुनस्तस्यास्युटिसंभवे सत्येव भिन्नवर्गणारम्भः, अन्य-द्वा-किंचिद्वर्णादिपरिणामवैचित्र्यं तद्भेदारम्भे कारणम्, इति बहुश्रुता विदन्तीति / एवं वक्ष्यमाणतनुवर्गणास्वपि वाच्यमिति / एतासां चतसृणां ध्रुवानन्तरवर्गणानामुपरि प्रत्येकमेकोत्तरवृद्धियुक्तानन्तवर्गणात्मिकाश्चतस एव तनुवर्गणा भवन्ति, एताश्च तनूनामौदारिकादिशरीराणां भेदाभेदपरिणामाभ्यां योग्यत्वाभिमुखा इति तनुवर्गणा-देहवर्गणा उच्यन्ते / अथवा-वक्ष्यमाणमिश्रस्कन्धाचित्तस्कन्धद्वयस्य तनुर्देहः शरीरं मूर्तिरिति यावत् तद्योग्यत्वाभिमुखा वर्गणाः / अथ मिश्रस्कन्धस्वरूपं विवरीषुराह- 'सुहुमो' इत्यादि। 'दरगय' त्ति दरगत ईषत्प्राप्तस्तद्योग्यत्वाभिमुख्येन बादरः परिणामो येनाऽसौ दरगतबादरपरिणामः, अनन्ताऽनन्तपरमाणुप्रचितः सूक्ष्मपरिणाम एवेषदादरपरिणामाभिमुखः स्कन्धो मिश्र इत्यर्थः / (विशे०।) ('खंध' शब्दे तृतीयभागे 666 पृष्ठे चित्तमहास्फन्धव-क्तव्यता i) अथ 'विवज्जासओ खेत्ते' एतद्व्याचिख्यासुः क्षेत्रादिवर्गणास्वरूपमाह - एगपएसोगाढा-ण वग्गणेगा पएसवुड्डीए। संखेज्जोगाढाणं, संखेज्जा वग्गणा तत्तो / / 647 // तत्तो संखाईया, संखाईयप्पएसमाणाणं। गंतुमसंखेन्जाओ, जोग्गाओ कम्मुणो भणिया // 648 // तत्तो संखाईया, तस्सेव पुणो हवंति जोग्गाओ। माणसदव्वाईण वि, एवं तिविगप्पमेकेकं / / 646 / / विपर्यासतो-विपर्यासन पश्चान्मुखः क्षेत्रविषयो वर्गणाक्रमो वेदितव्यः, नतुद्रव्यवर्गणावदितिभावः। इदमुक्तं भवति-परमाणूनांद्व्याणुकाधनन्ताणुकपर्यन्तस्कन्धानां चैकाकाशप्रदेशावगाहिनां सर्वेषामप्येका वर्गणा, व्यणुकाद्यनन्ताणुकपर्यन्तस्कन्धानामेव द्विप्रदेशावगाहिनां द्वितीया वर्गणा, त्र्यणुकाद्यनन्ताणुकपर्यन्तरकन्धानामेव त्रिप्रदेशावगाहिनां तृतीया वर्गणा, एवमेकैकप्रदेशवृद्ध्या संख्येयप्रदेशावगाहिनां स्कन्धानां संख्येया वर्गणाः, ततोऽसंख्येयप्रदेशावगाहिनामपि स्कन्धानां प्रदेशवृद्ध्याऽसंख्या वर्गणा गत्वाऽतिलघ्यासंख्यप्रदेशावगाहिस्कन्धानामेव एकै काकाशप्रदेशवृद्ध्या वर्द्धमानाः कर्मणो ग्रहणयोग्या असंख्येया वर्गणास्तीर्थकरैर्भणिताः / ततोऽनन्तरमल्पपरमाणुनिष्पन्नत्वाद्वादरपरिणामत्वेन बह्वाकाशप्रदेशावगाहित्वाच्च तस्यैव कर्मणोऽग्रहणयोग्या एकैकाकाशप्रदेशवृद्ध्या वर्द्धमाना असंख्येया वर्गणा भवन्ति / ततश्चैवमेकैकाकाशप्रदेशावगाहवृद्ध्या वर्द्धमाना मनसो-ऽप्यसंख्येया अग्रहणवर्गणाः पुनरेतावत्य एव तस्यैव ग्रहणवर्गणाः पुनरेतावत्प्रमाणा एव तस्यैवाग्रहणवर्गणा वाच्याः। एवमानापानयोः, भाषायाः, तैजसस्य, आहारकस्य, वैक्रियस्य, औदारिकस्य चा-योग्ययोग्यायोग्यवर्गणानां क्षेत्रतोऽपि प्रतिलोमं त्रयं त्रयं प्रत्येकमायोजनीयमिति / ध्रुवादिवर्गणास्कन्धा अपि प्रत्येकमकुलासंख्येयभागप्रदेशावगाहिनोऽवगन्तव्याः, परं तचिन्तेह न कृता, जीवैः शरीरादौ क्वचिदप्यनुपयुज्यमानत्वेन ध्रुवादिवर्गणानामग्रहणाद् / अथवा-कर्मणोऽग्रहणवर्गणानां मध्ये तासामप्यन्तभावो द्रष्टव्यः / द्रव्यवर्गणाधिकारे तु पृथगेतत्स्वरूपमात्रज्ञापनार्थ विस्तरेण कृता तचिन्तेति मन्तव्यमिति। कालभाववर्गणास्तु समयासमयादिस्थितिमात्रं वर्णादिमानं चाङ्गीकृत्य सामान्येन वक्ष्यन्ते / अतस्ताभिः सर्वोऽपि पुद्गलास्तिकायः संगृह्यते इति भावनीयमिति। तदेवमभिहिताः क्षेत्रवर्गणाः। अथ कालवर्गणाः प्राह - एगा समयठिईणं, संखेशा संखसमयठिइयाणं। होंति असंखेजाओ, तओ असंखेचसमयाणं / / 650 // विवक्षितपरिणामेन य एकैकसमयमात्रस्थितयस्तेषां सर्वेषामप्येका वर्गणा, ते पुनरविशेषेण परमाणवः स्कन्धाश्च मन्तव्याः, एवमेकैकसमयवृझ्या संख्येयसमयस्थितीनां परमाण्वादीनां संख्येया वर्गणाः, असंख्येयसमयस्थितीनां त्वसंख्येया वर्गणा भवन्ति / एवमेताभिः सर्वोऽपि पुदगलास्तिकायः संगृह्यते, एकसमयाद्यसंख्येयसमयान्तायाः स्थितेर्बहिः पुदगलानां स्थितेरेवाभावादिति। ____ अथ भाववर्गणाः प्राह - एगाएगगुणाणं, एगुत्तरवडिया तओ कमसो। संखेज्जगुणाण तओ, संखेला वग्गणा हॉति // 651 // संखाईयगुणाणं, संखाईयाय वग्गणा तत्तो। होति अणंतगुणाणं, दवाणं वग्गणाऽणंता।। 652 / / वण्णरसगन्धफासा,ण होति वीसं समासमेएणं / गुरुलहुअगुरुलहूणं, बायरसुहुमाण दो वग्गा। एकगुणानामेकगुणकृष्णानामित्यर्थः, परमाणूनां स्कन्धानां च सर्वेषामप्येका वर्गणा, कृष्णवर्णगुणद्वययुक्तानां तुपरमाण्वादीनां द्वितीया वर्गणा; कृष्णवर्णगुणत्रययुक्तानां तु तेषां तृतीया वर्गणा / एवमेकैकगुणवृद्ध्या संख्येयकृष्णवर्णगुणानां संख्येया वर्गणाः, असंख्येयकृष्णवर्णगुणानामसंख्येया वर्गणाः, अनन्तकृष्णवर्णगुणानामनन्ता व