SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ वग्गणा 756 - अभिधानराजेन्द्रः - भाग 6 वग्गणा अग्गहणप्पाओग्गा, तस्सेव तओ अणंताओ।। 635 // इह सजातीयवस्तुसमुदायो-वर्गणा, समूहो, वर्गः, राशिः, इति पर्यायाः। ततश्च समस्तलोकाकाशप्रदेशवर्तिनामेकै कपरमाणू नां समुदाय एका वर्गणा, ततः समस्तलोकवर्तिनां द्विप्रदेशिकस्क-न्धानां द्वितीया वर्गणा, ततः समस्तानामपि त्रिपदेशिकस्कन्धानां तृतीया, चतुष्प्रदेशिकस्कन्धानां चतुर्थी, पञ्चप्रदेशिकस्कन्धानां पञ्चमी, षट्प्रदेशिकस्कन्धानां षष्ठी, एवमेकैकोत्तरवृद्ध्या तावन्नेयं यावत्संख्यातप्रदेशिकस्कन्धानां सर्वा अपि संख्येया वर्गणा भवन्ति, इत ऊर्द्धवमसंख्यातप्रदेशस्कन्धानामेकोत्तरवृझ्या सर्वा अप्यसंख्येया वर्गणा भवन्ति, ततश्चानन्तप्रदेशिकस्कन्धानामप्येकोत्तरवृद्ध्यौदारिकशरीरग्रहणप्रायोग्या अनन्ता वर्गणा भवन्ति ओदारिकशरीरनिर्वर्तनयोग्या इत्यर्थः, ततः प्रदेशवृद्ध्या वर्द्धमाना औदारिकस्यैवाग्रहणयोग्या अनन्ता वर्गणा भवन्ति / एताश्च प्रभूतद्रव्यनिष्पन्नत्वात्सूक्ष्मपरिणामोपेतत्वाच औदारिकस्याग्रहणयोग्या मन्तव्याः / इह च स्वल्पपरमाणुनिष्पन्नत्वाद्वादरपरिमाणयुक्तत्वाच वैक्रियस्याप्यग्रहणयोग्या एवैताः केवलमौदारिकवर्गणानामासन्नत्वेन तदाभासत्वात्तदग्रहणयोग्या उच्यन्त इति। अथ कार्मणपर्यन्तानां शेषवर्गणानामतिदेशमाह - एवमजोग्गाजोग्गा, पुणो अजोग्गा य वग्गणाऽणंता। वेउव्वियाइयाणं, नेयं तिविगप्पमिक्केक।। 636 // एवमुक्तानुसारेणाऽयोग्यास्ततो योग्याः, पुनरयोग्याः प्रत्येकमनन्ता वर्गणा इति / एवं वैक्रियाऽऽहारकतैजसभाषानापानमनःकर्मणामेकैकं त्रिविकल्पं-त्रिप्रभेदं ज्ञेयमिति गाथाक्षरार्थः। भावार्थस्तु उच्यते-पुनरौदारिकाग्रहणप्रायोग्यवर्गणानामुपर्येकोत्तरवृद्ध्या वर्द्धमानाः स्वल्पद्रव्यनिष्पन्नत्वाद्वादरपरिणामयुक्तत्वाच्च वैक्रियशरीरस्याग्रहणयोग्या अनन्ता वर्गणा भवन्ति। एताश्च प्रचुरद्रव्यनित्तत्वात्सूक्ष्मपरिणामत्वाच औदारिकस्याप्यग्रहणप्रायोग्या एव, केवलं वैक्रियवर्गणाऽऽसन्नत्वेन तदाभासत्वात्तदग्रहणयोग्यवर्गणाः प्रोच्यन्त इति / एवमुत्तस्त्रापि सर्वत्र भावनीयम् / ततश्चैकोत्तरवृद्ध्या वर्द्धमानाः प्रचुरद्रव्यनिवृत्तत्वात्तथाविधसूक्ष्मपरिणामत्वाच्च वैक्रियशरीरस्य ग्रहणयोग्या अनन्ता वर्गणा भवन्ति। ततश्चैकोत्तरवृद्ध्या वर्द्धमानाः प्रचुरद्रव्यत्वात् सूक्ष्मतरपरिणामत्वाच वैक्रियस्याग्रहणयोग्या अनन्ता वर्गणा भवन्ति, ततो वैक्रियाग्रहणयोग्यवर्गणानामनन्तरमेकोत्तरवृद्ध्या वर्द्धमानाः स्वल्पद्रव्यनिष्पन्नत्वादादरपरिणामत्वाच आहारकशरीरस्याग्रहणयोग्या अनन्ता वर्गणा भवन्ति / ततश्चैकोत्तरवृद्ध्या वर्द्धमानाः प्रचुरद्रव्यनिष्पन्नत्वात्तथाविधसूक्ष्मतरपरिणामत्वाच्चाहारकशरीरस्य ग्रहणयोग्या अनन्ता वर्गणा भवन्ति / ततोऽप्येकोत्तरवृद्ध्या वर्द्धमाना बहुतमद्रव्यनिर्वृत्तत्वादतिसूक्ष्मपरिणामत्वाच्चाहारकशरीरस्याग्रहणयोग्या अनन्ता वर्गणा भवन्ति। एवं तैजसस्य, भाषायाः, आनापानयोः, मनसः, कर्मणश्च यथोत्तरमेकोत्तरप्रदेशवृद्ध्युपेतानां प्रत्येकमनन्तानामयोग्यानां योग्यानां पुनरयोग्यानां वर्गणानां पृथक् पृथक् त्रयमायोजनीयमिति। आह कथं पुनरेकैकस्यौदारिकादेः पृथक् त्रयं त्रयमिदं लभ्यते ? इत्याह - एकिक्कस्साईए, पजंतम्मि य हवंति जोग्गाई। उभया जोग्गाई जओ, तेया मासंतरे पढई।। 637 // एकैकस्यौदारिकवैक्रियादेरादौ पर्यन्ते चायोग्यानि द्रव्याणि भव-न्तीति लभ्यत एव। कुतः? उच्यते-'तेयाभासा दव्वाण अंतरा' इत्यादिवचनाद, यतस्तैजसभाषयोरन्तरे उभयायोग्यानिद्रव्याणिपठति। इदमुक्तं भवतियतस्तैजसस्यान्तेऽयोग्यद्रव्याणि पठति, अतः सर्वस्याप्यौदारिकादेरन्ते तानिलभ्यन्ते, यतश्च भाषाया आदौ तदयोग्यान्यधीते, अतः सर्वस्याप्यौदारिकादेरादौतानिगम्यन्ते; उभयान्तरालवर्तिनां च सर्वेषामुभयायोग्यत्वे तुल्येऽपि यथा-सन्नं तत्तदाभासत्वेन तत्तदयोग्यव्यपदेश इत्युक्तमेवेति गाथा-षट्कार्थः। अथ कांग्रहणवर्गणानामुपर्यन्या वर्गणाः सन्ति, नवा? इत्याहकम्मोवरि धुवेयर, सुण्णेयरवग्गणा अणंताओ। चउधुवणंतरतणुव-ग्गणा य मीसो तहा चित्तो।। 63 / / इयं नियुक्तिगाथा, एतांच भाष्यकारः स्वयमेव विस्तारतो व्याख्यास्यतीति। तथा च भाष्यम् - निश्चं होति धुवाओ, इयरा लोए न होंति वि कयाइ। एकोत्तरवुड्डीए, कयाइ सुण्णंतराओ वि॥६३९ / / जाओ हवंति ताओ, सुण्णंतरवग्गण त्ति भण्णन्ति। निययं निरन्तराओ, होति असुण्णंतराउ त्ति॥ 640 // कर्मणोऽग्रहणप्रायोग्यवर्गणानामुपर्यधिकैकपरमाणूपचितातिसूक्ष्मपरिणामानन्तस्कन्धात्मिकाः प्रथमा ध्रुववर्गणा भवन्ति / ततश्चैकोत्तरवृद्ध्या वर्द्धमानैः प्रत्येकमनन्तैः स्कन्धैर्निष्पन्ना एता अपि ध्रुववर्गणा अनन्ता भवन्ति, ध्रुवा नित्यालोकव्यापितया सर्वकालावस्थायिन्य इति भावः / अन्तदीपकं चेदम् / ततश्चैतासां ध्रुवत्वभणनेन प्रागुक्ता अपि कर्मवर्गणान्ताः सर्वा एव वर्गणा ध्रुवा इत्यवगन्तव्यम्, तासामपि सर्वत्र लोके सदैवाव्यवच्छेदात्। अन्यच-एताश्च ध्रुववर्गणा वक्ष्यमाणाश्चाधुवाद्या सर्वाः अप्यग्रहणवर्गणाः, अतिबहुद्रव्योपचितत्वेनातिसूक्ष्मपरिणामत्वेनच सर्वजीवैरौदारिकादिभावेन कदाचिदप्यग्रहणादिति। इतश्चो मित्थमेवैकोत्तरवृद्धिक्रमेण वर्द्धमाना ध्रुववर्गणाभ्य इतरा अध्रुववर्गणा अनन्ता भवन्ति / एताश्च तथाविधपुद्गलपरिणामवैचित्र्यात्कदाचिल्लोके न भवन्त्यपि। अत एवाध्रुवा एता उच्यन्ते। ततश्च शून्या इतराश्चाशून्या वर्गणा भवन्ति। इह च सूचकत्वात्सूत्रस्याह 'एकोत्तरे' त्यादि एकोत्तरवृद्ध्या कदाचिच्छून्यानि व्यवहितान्यन्तराणियासांताःशून्यान्तरा अपि भवन्ति यास्ताः शून्यान्तरवर्गणा भण्यन्ते / एता होकोत्तरवृद्ध्या निरन्तरमनन्ताः सदैव प्राप्यन्ते, परंकदाचि-देकोत्तरवृद्धिरेतास्वन्तरा:न्तरा त्रुट्यति, नतुनैरन्तर्येण प्राप्यन्त इति भावः। एकोत्तरवृद्ध्या सर्वदेवाशून्यान्यव्यवहितान्यन्तराणि यासांताः अशून्यान्तराः। एता ह्यशून्यान्तर
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy